摩诃婆罗多 · 章 5.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.63.1
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् ।
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥ ५.६३.१ ॥
在彼此相似、出身相同的人之中,你怎么会认为胜利必定属于普利塔之子呢?
5.63.2
वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः ।
समेन वयसा चैव प्रातिभेन श्रुतेन च ॥ ५.६३.२ ॥
我们与他们在勇力与武功上相当,年龄相同,机敏与学识也相等。
5.63.3
अस्त्रेण योधयुग्या च शीघ्रत्वे कौशले तथा ।
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः ॥ ५.६३.३ ॥
在武艺、作战的能力、敏捷与技巧上,大家都属同类;大家都是人类所生。
5.63.4
पितामह विजानीषे पार्थेषु विजयं कथम् ।
नाहं भवति न द्रोणे न कृपे न च बाह्लिके ॥ ५.६३.४ ॥
祖父啊,你怎么知道胜利属于普利塔之子?它既不在我这里,也不在德罗纳、克里巴或巴赫利卡那里。
5.63.5
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ।
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे ॥ ५.६३.५ ॥
在其他诸王之中,我将施展威勇而开始:我,毗卡尔塔纳之子迦尔纳,以及我的兄弟难降。
5.63.6
पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ।
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः ॥ ५.६३.६ ॥
在战场上,我们将以利箭杀死五位般度子;然后,国王啊,我们将举行种种大祭,并施予丰厚的布施。
5.63.7
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ।
यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना ।
अतरित्रानिव जले बाहुभिर्मामका रणे ॥ ५.६३.७ ॥
当我的战士在战场上像用绳索围住鹿、像用手臂抓住不能渡水之人那样围住般度五子时,我便将以牛、马和财物使婆罗门满足。
5.63.8
पश्यन्तस्ते परांस्तत्र रथनागसमाकुलान् ।
तदा दर्पं विमोक्ष्यन्ति पाण्डवाः स च केशवः ॥ ५.६३.८ ॥
他们在那里看到敌人满是战车与象群,那时般度五子与那位羯舍婆便会放下他们的骄傲。
5.63.9
सुखान्यवाप्य सहिताः कृत्वा कर्म सुदुस्तरम् ।
विस्रब्धास्तु भविष्यामः प्राप्ते काले गतज्वराः ॥ ५.६३.९ ॥
我们共同获得安乐,完成了极其艰难的事业,待到时机来临,我们便将无忧无虑,摆脱烦恼。
5.63.10
अथाब्रवीन्महाराजो धृतराष्ट्रः सुदुर्मनाः ।
विदुरं विदुषां श्रेष्ठं सर्वपार्थिवसंनिधौ ॥ ५.६३.१० ॥
于是,心中极为烦乱的大王持国,在诸王面前对学者中最杰出的毗杜罗说道。
5.63.11
मोहितो मृत्युपाशेन कालस्य वशमागतः ।
तात कर्णेन सहितः पुत्रो दुर्योधनो मम ॥ ५.६३.११ ॥
被死亡的绳索所迷惑,他已落入时间的掌控。亲爱的,我的儿子难敌与迦尔纳在一起。
5.63.12
इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥ ५.६३.१२ ॥
此处,洞察真确的长者说,至善在于克制;对婆罗门而言,尤其自制便是永恒的法。
5.63.13
तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते ।
दमो दानं तपो ज्ञानमधीतं चानुवर्तते ॥ ५.६३.१३ ॥
对他而言,布施、忍辱与成就如期而至;自制、布施、苦行、智慧与诵习经典也随之而来。
5.63.14
दमस्तेजो वर्धयति पवित्रं दम उत्तमम् ।
विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत् ॥ ५.६३.१४ ॥
自制增益光辉;自制至高且能净化。无罪、光辉日增的人必能获得伟大之物。
5.63.15
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयंभुवा ॥ ५.६३.१५ ॥
众生常惧食肉之兽,亦惧不受调伏之人。自生者造出刹帝利种姓,以制止他们。
5.63.16
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् ।
तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः ॥ ५.६३.१६ ॥
四种生活阶段中,皆称自制为最上之戒律。我将说明它的特征,凡自制生起之人,其相如下。
5.63.17
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम् ॥ ५.६३.१७ ॥
忍辱、坚定、不害、平等、真实、正直、克制诸根、勇气、柔和、羞耻心,以及无轻躁。
5.63.18
अकार्पण्यमसंरम्भः सन्तोषं श्रद्दधानता ।
एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः ॥ ५.६३.१८ ॥
不吝啬、不愤怒、知足与信心——王中之王啊,具备这些的人被称为调伏者。
5.63.19
कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम् ।
मान ईर्ष्यां च शोकश्च नैतद्दान्तो निषेवते।
अजिह्ममशठं शुद्धमेतद्दान्तस्य लक्षणम् ॥ ५.६३.१९ ॥
欲望、贪婪、傲慢、愤怒、睡眠、自夸、我慢、嫉妒与忧愁——自律之人不沉溺于这些。正直、无欺、纯净——这便是自律之人的标志。
5.63.20
अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तिता ।
समुद्रकल्पः परुषः स दान्तः परिकीर्तितः ॥ ५.६३.२० ॥
无贪、少欲、不思念诸欲、如大海般坚定者,被称为自律之人。
5.63.21
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽत्मविद्बुधः ।
प्राप्येह लोके संमानं सुगतिं प्रेत्य गच्छति ॥ ५.६३.२१ ॥
德行端正、具足戒行、心意平和、通晓自我而有智慧之人,在此世获得尊敬,身后走向善趣。
5.63.22
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः ।
स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः ॥ ५.६३.२२ ॥
众生因他而无畏,一切因他而获安稳——此人确有成熟的智慧,被誉为人中之最。
5.63.23
सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः ।
समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति ॥ ५.६३.२३ ॥
他对一切众生有利益、怀慈心,因此人们不惧怕他;他如大海般深沉,以智慧为足,便得平息。
5.63.24
कर्मणाऽचरितं पूर्वं सद्भिराचरितं च यत् ।
तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ॥ ५.६३.२४ ॥
依靠往昔所行之业,以及善人所行之道,专注于寂静的自律之人便感到欢喜。
5.63.25
नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः ।
कालाकाङ्क्षी चरँल्लोके ब्रह्मभूयाय कल्पते ॥ ५.६३.२५ ॥
若人依止无业之道,以智慧为满足,克制诸根,待时而行于世间,便能堪受与梵合一。
5.63.26
शकुनीनामिवाकाशे पदं नैवोपलभ्यते ।
एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते ॥ ५.६३.२६ ॥
如鸟迹不现于空中,智慧满足的牟尼之路亦不可见。
5.63.27
उत्सृज्यैव गृहान्यस्तु मोक्षमेवाभिमन्यते ।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि ॥ ५.६३.२७ ॥
若人舍弃家室,唯以解脱为归,则其在天界将成就光明而永恒的诸界。