摩诃婆罗多 · 章 5.64
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.64.1
शकुनीनामिहार्थाय पाशं भूमावयोजयत् ।
कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम् ॥ ५.६४.१ ॥
他为捕捉鸟类,在地上设下了罗网。亲爱的,我们听前人说过,曾有一个捕鸟人。
5.64.2
तस्मिंस्तौ शकुनौ बद्धौ युगपत्सहचारिणौ ।
तावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥ ५.६४.२ ॥
那两只鸟同时被困在网中,它们原是形影不离的伴侣。二者一同衔起那张网,在空中飞走了。
5.64.3
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा ।
अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ॥ ५.६४.३ ॥
猎人见二鸟升入空中,便不知疲倦地追赶,它们飞到哪里,他就追到哪里。
5.64.4
तथा तमनुधावन्तमृगयुं शकुनार्थिनम् ।
आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥ ५.६४.४ ॥
就在此时,一位住在静修林中、已做完日常祭礼的仙人,看见了这个追逐鸟类的猎人。
5.64.5
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् ।
श्लोकेनानेन कौरव्य पप्च्छ स मुनिस्तदा ॥ ५.६४.५ ॥
俱卢后裔啊,那位仙人便用这首诗句,向那在地上疾追空中两鸟的猎人发问。
5.64.6
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे ।
प्लवमानौ हि खचरौ पदातिरनुधावसि ॥ ५.६४.६ ॥
猎鹿者啊,我觉得这很奇怪,也很惊奇:你徒步追赶那两只在空中飞跃的鸟。
5.64.7
पाशमेकमुभावेतौ सहितौ हरतो मम ।
यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥ ५.६४.७ ॥
我将用一根绳索把这两者一同捕获;它们在哪里争斗,就在哪里落入我的掌握。
5.64.8
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ ।
विगृह्य च स्रुदुर्बुद्धी पृथिव्यां संनिपेततुः ॥ ५.६४.८ ॥
那两只心智愚昧的鸟陷入争斗,被死亡所缚,相互搏斗而跌落在地上。
5.64.9
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ ।
उपसृत्य प्रमत्तौ तौ जग्राह मृगहा तदा ॥ ५.६४.९ ॥
那两者在愤怒中相斗,受死亡之索支配,心不在焉,此时被猎鹿者走近擒获。
5.64.10
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् ।
ते मृत्युवशमायान्ति शकुनाविव विग्रहात् ॥ ५.६४.१० ॥
同样,那些因财物而彼此争执的亲族,因争执而落入死亡之手,就像这两只鸟一样。
5.64.11
संभोजनं संकथनं संप्रश्नोऽथ समागमः ।
एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥ ५.६४.११ ॥
共同饮食、彼此交谈、互相问候、相聚,这些才是亲族的职责;决不是对立。
5.64.12
ये स्म काले सुमनसः सर्वे वृद्धानुपासते ।
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥ ५.६४.१२ ॥
那些适时以欢喜之心侍奉所有长者的人,便会变得不可侵犯,如同被狮子守护的森林。
5.64.13
येऽर्थं सन्ततमासाद्य दीना इव समासते ।
श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥ ५.६४.१३ ॥
那些已得财富却常常像可怜人一样坐着的人,会把自己的繁荣交给敌人,婆罗多族的雄牛啊。
5.64.14
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ ५.६४.१४ ॥
离散的亲族如烟般闷烧,相聚的亲族却如火炬般燃烧,婆罗多族的雄牛啊,如同持国的火把。
5.64.15
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया ।
श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥ ५.६४.१५ ॥
我将再告诉你一件我在山中所见之事。婆罗多族的后裔啊,听闻此事后,便做有益之事吧。
5.64.16
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् ।
ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवार्तिकैः ॥ ५.६४.१६ ॥
我们与基拉塔人一同前往北方的山岭,与如神的婆罗门和精通学问的术士、魔术师同行。
5.64.17
कुञ्चभूतं गिरिं सर्वमभितो गन्धमादनम् ।
दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥ ५.६४.१७ ॥
香醉山四周高耸如鹤的驼峰,满是闪耀的草药,悉陀与乾闼婆常在此侍奉。
5.64.18
तत्रापश्याम वै सर्वे मधु पीतकमाक्षिकम् ।
मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् ॥ ५.६४.१८ ॥
我们都在那里看见了带黄蜡的蜂蜜,放在风口崖边一处崎岖之地,大小如一只瓮。
5.64.19
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् ।
यत्प्राप्य पुरुषो मर्त्योऽप्यमरत्वं नियच्छति ॥ ५.६४.१९ ॥
被毒蛇严密守护、深受毗沙门喜爱之物,人若得之,即便是会死的凡人也能获得不死。
5.64.20
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा ।
इति ते कथयन्तिस्म ब्राह्मणा जम्भसाधकाः ॥ ५.६४.२० ॥
盲人得见,老人变年轻——修习“逐”法的婆罗门曾这样告诉他们。
5.64.21
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते ।
विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ॥ ५.६४.२१ ॥
于是猎户(किरात)见到此物,啊,大地之主,因贪求而死于那充满毒蛇的险恶山洞之中。
5.64.22
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति ।
मधु पश्यति संमोहात्प्रपातं नानुपश्यति ॥ ५.६४.२२ ॥
同样,你的这个儿子独自贪求大地;因为迷惑,他只看见蜜,却看不见那坠落的深渊。
5.64.23
दुर्योधनो योद्धुमनाः समरे सव्यसाचिना ।
न च पश्यामि तेजोस्य विक्रमं वा तथाविधम् ॥ ५.६४.२३ ॥
难敌欲在战场上与左射者(阿周那)交战,然而我在他身上看不到那样的光辉,也看不到那样的威勇。
5.64.24
एकेन रथमास्थाय पृथिवी येन निर्जिता ।
भीष्मद्रोणप्रभृतयः सन्त्रस्ताः साधुयायिनः ॥ ५.६४.२४ ॥
独自乘车便征服大地之人;毗湿摩、德罗纳等依法而战者,皆对他心生畏惧。
5.64.25
विराटनगरे भग्नाः किं तत्र तव दृश्यताम् ।
प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ॥ ५.६४.२५ ॥
在毗罗吒城中战败——你的所见在那里该看一看吧?等待的英雄承受你的目光。
5.64.26
द्रुपदो मत्स्यराजश्च सङ्कुद्धश्च धनञ्जयः ।
न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥ ५.६४.२६ ॥
德鲁帕达与摩差王,以及愤怒的达难闍耶——在战斗中他们不会留下任何残余,如被风吹动的火焰。
5.64.27
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् ।
युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेञ्जयः ॥ ५.६४.२७ ॥
德兰陀罗陀啊,请把国王坚战拥入你的怀中;因为在战争中两方交战,胜利绝非必然。