摩诃婆罗多 · 章 5.67
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.67.1
अर्जुनो वासुदेवश्च धन्विनौ परमार्थितौ ।
कामादन्यत्र संभूतौ सर्वभावाय संमितौ ॥ ५.६७.१ ॥
阿周那与婆苏提婆两位弓手,渴望至高之目的,并非出于欲望,而是为了一切众生的福祉而降生,彼此意见一致。
5.67.2
व्यामान्तरं समास्थय यथामुक्तं मनस्विनः ।
चक्रं तद्वासुदेवस्य मायया वर्तते विभो ॥ ५.६७.२ ॥
啊,主上!那智慧的婆苏提婆之轮,如所说占据一臂展宽的空间,借其幻力而旋转。
5.67.3
सापह्नवं कौरवेषु पाण्डवानां सुसंमतम् ।
सारासारबलं ज्ञातुं तेजःपुञ्जावभासितम् ॥ ५.६७.३ ॥
在俱卢族中隐藏,在般度族中深受认可,被一团光辉所照耀,以知晓真实与虚假之力。
5.67.4
नरकं शम्बरं चैव कंसं चैद्यं च माधवः ।
जितवान्घोरसङ्काशान्क्रीडन्निव महाबलः ॥ ५.६७.४ ॥
大力的摩陀婆击败了那罗迦、商婆罗、刚沙与阐提耶,尽管他们可怖,他却仿佛游戏一般。
5.67.5
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः ।
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ॥ ५.६७.५ ॥
至上之人,自性卓越,能自制,仅凭心意便能将大地、虚空与天界置于自己的掌控之下。
5.67.6
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति ।
सारासारबलं ज्ञातुं तत्समासेन मे शृणु ॥ ५.६७.६ ॥
大王啊,您一再询问关于般度族的事,为了了解真实与虚假之力,请听我简略说来。
5.67.7
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः ।
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ॥ ५.६७.७ ॥
一边是整个世界,一边是Janārdana;然而就其精髓而言,Janārdana超越整个世界。
5.67.8
भस्म कुर्याञ्जगदिदं मनसैव जनार्दनः ।
न तु कृत्स्नं जगच्छक्तं किञ्चित्कर्तुं जनार्दने ॥ ५.६७.८ ॥
Janārdana仅凭意念便能将此世界化为灰烬;然而整个世界都无力对抗Janārdana做任何事。
5.67.9
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः ।
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ॥ ५.६७.९ ॥
哪里有真理,哪里有法,哪里有羞耻心与正直,哪里就有Govinda;哪里有Kṛṣṇa,哪里就有胜利。
5.67.10
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः ।
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ॥ ५.६७.१० ॥
至高之人、众生之魂Janārdana在大地、虚空与天界之间运行,仿佛在嬉戏。
5.67.11
स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव ।
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ॥ ५.६७.११ ॥
他将般度五子化作祭品,仿佛在迷惑世界,想要焚烧你那些沉溺于非法、愚昧的儿子们。
5.67.12
कालचक्रं जगच्चक्रं युगचक्रं च केशवः ।
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ॥ ५.६७.१२ ॥
尊贵的Keśava以自身的瑜伽之力,不停地转动时间之轮、世界之轮与时代之轮。
5.67.13
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च ।
ईष्टे हि भगवानेकः सत्यमेतद्ब्रवीमि ते ॥ ५.६७.१३ ॥
时间与死亡,以及动与不动之物,真正的主宰只有那唯一的世尊。这是真理,我如此告诉你。
5.67.14
ईशन्नपि महायोगी सर्वस्य जगतो हरिः ।
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ॥ ५.६७.१४ ॥
虽然他主宰整个世界,伟大的瑜伽士哈利却像一个虚弱者、如同死神的仆役一般开始行动。
5.67.15
तेन वञ्चयते लोकान्मायायोगेन केशवः ।
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥ ५.६७.१५ ॥
借此,केशव以幻化瑜伽欺骗世界;然而那些皈依他的人并不迷惑。