Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.69.1

भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः ।
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ॥ ५.६९.१ ॥

桑扎亚啊,请再次为我这个询问者讲述莲花眼者,使我知晓他的名号、事业与意义,从而得以达到至上人。

5.69.2

श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम् ।
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ॥ ५.६९.२ ॥

我曾听闻毗湿奴之名的吉祥解释,就我在那里记得的范围而言。凯沙婆确实不可衡量。

5.69.3

वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः ।
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते ॥ ५.६९.३ ॥

因为他居于一切众生之中,是居所(vasu),且出自神性,应当被认作婆苏提婆;因其广大,他被称为毗湿奴。

5.69.4

मौनाद्ध्यानाच्च योगाच्च विद्दि भारत माधवम् ।
सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ॥ ५.६९.४ ॥

婆罗多之后啊,你应当通过静默、禅修与瑜伽认知他为摩陀婆;又因一切真理的消融,他是杀摩度者,摩度苏陀那。

5.69.5

कृषिर्भूवाचकः शब्दो गश्च निर्वृतिवाचकः ।
विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः ॥ ५.६९.५ ॥

词根 kṛṣ 表示存在,音节 ga 表示喜乐;因与此状态相合,毗湿奴即成为黑天,即萨特瓦陀。

5.69.6

पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् ।
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जानार्दनः ॥ ५.६९.६ ॥

莲花是至上的住所,永恒、不坏、不灭;因其为此状态,他是莲花眼(Puṇḍarīkākṣa);又因使盗贼恐惧,他是人群的毁灭者(Janārdana)。

5.69.7

यतः सत्वं न च्यवते यच्च यत्वान्न हीयते ।
सात्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ॥ ५.६९.७ ॥

因为他的本质从不失落,力量从不减损,所以他是萨特瓦塔;他有如公牛般的眼睛,所以是牛目。

5.69.8

न जायते जनित्राऽयमजस्तस्मादनीकजित् ।
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः ॥ ५.६९.८ ॥

他不生,也不由任何母亲所生,所以是无生者(阿闍),征服军队者。因为他在诸神中自明,并因受束缚(驯服),这遍在的主便是达摩陀罗。

5.69.9

हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्रुते ।
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ॥ ५.६९.९ ॥

因喜悦、安乐与安乐的主权,他成就希瑟喀什的境界。以双臂承托天与地,他被称为大臂者(摩诃跋忽)。

5.69.10

अघो न क्षीयते जातु यस्मात्तस्मादधोक्षजः ।
नराणामयनाच्चापि ततो नारायणः स्मृतः ॥ ५.६९.१० ॥

因为向下的堕落(阿陀)从不减损,他是阿陀刹阇;又因为他是人们的归依(阿衍那),他也被称为那罗延。

5.69.11

पूरणात्सदनाच्चापि ततोऽसौपुरुषोत्तमः ।
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात्।
सर्वस्य च सदा ज्ञानात्सर्वमेतं प्रचक्षते ॥ ५.६९.११ ॥

因为他充满(补罗那)并安住(萨陀那),他也是至上人(补卢娑恭多摩)。他是一切(有与无)的生起与灭尽之源;又因他恒常知晓一切,人们称他为“一切”(萨婆)。

5.69.12

सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् ।
सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योपि नामतः ॥ ५.६९.१२ ॥

克里希那安立于真实之中,而真实也安立于他之中。因为真实,哥文达是真实的;所以以名号而言,他也被称为“真实”(萨提亚)。

5.69.13

विष्णुर्विक्रमणाद्देवो जयनाञ्जिष्णुरुच्यते ।
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्भवाम् ॥ ५.६९.१३ ॥

因其跨步,他是神毗湿奴;因其胜利,被称为胜者;因其永恒,是无尽者;因其使人知晓,是牛主戈文达……

5.69.14

अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः ॥ ५.६९.१४ ॥

他将非真实之物变作真实,由此迷惑众生。

5.69.15

एवंविधो धर्मनित्यो भगवान्मधुसूदनः ।
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ॥ ५.६९.१५ ॥

如此之人,常守法义的世尊摩图苏陀那,大臂的不坏者,必将为了仁慈而来。