摩诃婆罗多 · 章 5.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.7.1
पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम् ।
दूतान्प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः ॥ ५.७.१ ॥
他们派遣你的祭司前往那伽娑呼耶城后,又四处派遣使者去见各位国王。
5.7.2
प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः ।
स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनञ्जयः ॥ ५.७.२ ॥
他派遣使者到别处之后,人中雄牛、俱卢后裔、贡蒂之子德勇亲自前往德瓦拉卡。
5.7.3
गते द्वारवतीं कृष्ण बलदेवे च माधवे ।
सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तदा ॥ ५.७.३ ॥
当克里希纳、巴拉罗摩与摩陀婆前往德瓦拉瓦蒂时,那时,与全体毗瑞尼、安陀迦和婆贾人成百上千地同行。
5.7.4
सर्वमागमयामास पाण्डवानां विचेष्टितम् ।
धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः ॥ ५.७.४ ॥
持国之子王以秘密安置的间谍,查明了般度诸子的一切行动。
5.7.5
स श्रुत्वा माधवं यान्तं सदश्वैरनिलोपमैः ।
बलेन नातिमहता द्वारकामभ्ययात्पुरीम् ॥ ५.७.५ ॥
他听说摩陀婆正在前往,便以如风般快速的良马,不带庞大军队,朝德瓦拉卡城而去。
5.7.6
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः ।
आनन्रतनगरीं रम्यां जगामाशु धनञ्जयः ॥ ५.७.६ ॥
同一天,贡蒂之子、般度之子德勇也迅速前往美丽的阿难陀城。
5.7.7
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ ।
सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः ॥ ५.७.७ ॥
二位人中虎、俱卢之喜,前往德瓦拉卡,见克里希那正在睡卧,便走近前去。
5.7.8
दुर्योधनस्तु प्रथमं वासुदेवमुपाश्रयत् ।
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ॥ ५.७.८ ॥
然而难敌先去见瓦苏提婆,在克里希那的枕边坐在一个上好的座位上。
5.7.9
ततः किरीटी तस्यानु प्रविवेश महामनाः ।
पश्चार्धे तु स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ॥ ५.७.९ ॥
随后,心胸宽广的戴冠者(阿周那)随他而入,在克里希那的脚边俯身,合掌而立。
5.7.10
प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनाम् ।
सिंहासनगतं पश्चात्परिवृत्य च दृष्टवान् ॥ ५.७.१० ॥
醒来的瓦尔什尼后裔先看见前方的戴冠者们坐在宝座上,随后转身,也看见了身后的他们。
5.7.11
स तयोः स्वागतं कृत्वा यथावत्प्रतिपूज्य तौ ।
तदागमनजं हेतुं पप्रच्छ मधुसूदनः ॥ ५.७.११ ॥
他按礼迎接并恭敬地款待二人之后,摩陀苏陀那问起他们前来的缘由。
5.7.12
ततो दुर्योधनः कृष्णामुवाच प्रहसन्निव ।
विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ॥ ५.७.१२ ॥
于是难敌仿佛笑着对克里希那说:
5.7.13
समं हि भवतः सख्यं मम चैवार्जुनेऽपि च ।
तथा संबन्धकं तुल्यमस्माकं त्वयि माधव ॥ ५.७.१३ ॥
你对我与对阿周那的友谊相同;同样,我们与你的亲缘关系也一样,哦摩陀婆。
5.7.14
अहं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ।
त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन । ॥ ५.७.१४ ॥
我也已经来到,善人依附先到的人。而你,哦阇那陀那,今天是世上最优秀的善人。
5.7.15
सततं संमतश्चैव सद्वृत्तमनुपालय ॥ ५.७.१५ ॥
常受尊敬,并守持善行。
5.7.16
भवानभिगतः पूर्वमत्र मे नास्ति संशयः ।
दृष्टस्तु प्रथमं राजन्मया पार्थो धनञ्जयः ॥ ५.७.१६ ॥
你先来到此处,这我毫不怀疑。但是,哦国王,我先见到了般度之子持弓者财主。
5.7.17
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् ।
साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥ ५.७.१७ ॥
因为你先来,也因为我先见到他,哦苏陀那,我将帮助你们两人。
5.7.18
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः ।
तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः ॥ ५.७.१८ ॥
但圣典说,首选应当给予年幼者;因此,首选应归于般度之子持弓者财主。
5.7.19
मत्संहननतुल्यानां गोपानामर्बुदं महत् ।
नारायणा इति ख्याताः सर्वे संग्रामयोधिनः ॥ ५.७.१९ ॥
有大量牧人,体力与我相等,数以阿浮陀计,号称那罗延族,皆是善战的勇士。
5.7.20
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः ।
अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः ॥ ५.७.२० ॥
让他们在战场上成为一方的无敌士兵;或者我不参战,放下兵器,站在另一方。
5.7.21
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥ ५.७.२१ ॥
般度之子啊,这二者之中,你心中认为更合意的那个,就选择吧;依法,你应当首先选择。
5.7.22
एतद्विदित्वा कौन्तेय विचार्य च पुनः पुनः ।
तान्वा वरय साहाय्ये मां साचिव्येऽथवा पुनः ॥ ५.७.२२ ॥
贡蒂之子啊,知此道理,反复思量,你就选择他们作为援助吧;或者选择我作为谋士。
5.7.23
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रे धनञ्जयः ।
अयुध्यमानं संग्रामे वरयामास केशवम् ॥ ५.७.२३ ॥
克里希那如此说后,贡蒂之子檀那社耶选择了不参战的羯舍婆。
5.7.24
नारायणममिघ्नं कामाज्जातमजं नृषु ।
सर्वक्षत्रस्य पुरतो देवदानवयोरपि ॥ ५.७.२४ ॥
那罗延,不可伤害者,以意愿生于人间的无生者,在一切刹帝利面前,甚至在天神与阿修罗面前。
5.7.25
दुर्योधनस्तु तत्सैन्यं सर्वमावरयत्तदा ।
सहस्राणां महस्रं तु योधानां प्राप्य भारत ॥ ५.७.२५ ॥
于是难敌包围了那整支军队,获得了成千上万的战士,婆罗多啊。
5.7.26
कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् ।
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः ॥ ५.७.२६ ॥
得知克里希那被夺走,他感到无上的喜悦;国王难敌带走了整支军队。
5.7.27
ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् ।
सर्वं चागमने हेतुं स तस्मै संन्यवेदयत्।
प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ॥ ५.७.२७ ॥
于是那力大无比者走近大力的罗希尼之子(巴拉若摩),把来此的全部缘由都告诉了他。然后,舍鲁之子(克里希那)对持国之子说了这些话。
5.7.28
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति ।
यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ॥ ५.७.२८ ॥
人中之虎啊,我先前在毗罗吒的婚礼上所说的一切,你应当知道。
5.7.29
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन ।
मया संबन्धकं तुल्यमिति राजन्पुनःपुनः ॥ ५.७.२९ ॥
库鲁之喜啊,为了你,我曾多次对被克制的希里希凯莎(克里希那)说:“国王啊,亲缘关系是平等的。”
5.7.30
न च तद्वाक्यमुक्तं वै केशवं प्रत्यपद्यत ।
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् ॥ ५.७.३० ॥
然而,这番话并未被克沙瓦接受;没有克里希那,我连片刻也无法忍受。
5.7.31
नाहं सहायः पार्थस्य नापि दुर्योधनस्य वै ।
इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह ॥ ५.७.३१ ॥
我既不是般度之子(阿周那)的盟友,也不是难敌的盟友;顾念婆苏提婆,这是我坚定的决定。
5.7.32
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते ।
गच्छ युध्यस्व धर्मेण क्षात्रेण पुरुषर्षभ ॥ ५.७.३२ ॥
你生于为诸王所尊崇的婆罗多族。去吧,依法以刹帝利之道作战,人中雄牛啊。
5.7.33
इत्येवमुक्तस्तु तदा परिष्वज्य हलायुधम् ।
कृष्णं चापि महाबाहुमामन्त्र्य भरतर्षभ ॥ ५.७.३३ ॥
如此被言之后,他拥抱了持犁者(大力罗摩),也向大臂的黑天告别,婆罗多族中的雄牛啊。
5.7.34
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः ।
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ॥ ५.७.३४ ॥
那位王,即持国之子,前往善作(Kṛtavarman),善作便给了他一支一阿克绍希尼的军队。
5.7.35
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः ।
वृतः परिययौ हृष्टः सुहृदः संप्रहर्षयन् ॥ ५.७.३५ ॥
这位库鲁族的宠儿,由毗摩率全军环绕,欢喜地出发,极大地使朋友们欢喜。
5.7.36
ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः ।
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् ॥ ५.७.३६ ॥
此时,身着黄衣、世界的创造者生主黑天,在难敌离去后,对戴冠的阿周那说道。
5.7.37
अयुध्यमानः कां बृद्धिमास्थायाहं वृतस्त्वया ।
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः ।
निहन्तुमहमष्येकः समर्थः पुरुषर्षभः ॥ ५.७.३७ ॥
"我不参战,你以何种心意选择了我?你有能力杀死他们所有人,这没有疑问。而且,人中雄牛啊,我一人也能杀死他们。"
5.7.38
भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति ।
यशसां चाहमप्यर्थी तस्मादसि मया वृतः ॥ ५.७.३८ ॥
"你在世上享有盛名,那荣耀必将归于你。我也渴求荣耀,所以我选择了你。"
5.7.39
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा ।
चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ॥ ५.७.३९ ॥
"你来担任御者,这一直是我心中的愿望。我长久以来所期望的这个心愿,你理应成全。"
5.7.40
उपपन्नमिदं पार्थ यत्स्पर्धसि मया सह ।
सारथ्यं ते करिष्यामि कामः संपद्यतां तव ॥ ५.७.४० ॥
"阿周那,你与我相争,这是恰当的。我将为你驾车;愿你的心愿得以实现。"
5.7.41
एवं प्रमुदितः पार्थः कुष्णेन सहितस्तदा ।
वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ॥ ५.७.४१ ॥
阿周那如此欢喜,与克里希纳同行,被达沙尔哈族中的优秀者环绕,再次回到了坚战身边。