Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.71

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.71.1

प्रयाते सञ्जये साधौ कौरवान्प्रति वै तदा ।
किं चक्रुः पाण्डवास्तत्र मम पूर्वपितामहाः ॥ ५.७१.१ ॥

善人桑遮耶前往俱卢族之后,那时般遮卢族人在那里做了什么,我的先祖们?

5.71.2

एतत्सर्वं द्विजश्रेष्ठ विस्तरं मम सत्तम ।
कथयस्व प्रयत्नेन श्रोतुमिच्छामि पण्डित ॥ ५.७१.२ ॥

二生者中最优秀的,善人中最优秀的,智者啊,请将这一切详细而用心地讲给我听;我愿意听闻。

5.71.3

सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः ।
अर्जुनं भीमसेनं च माद्रीपुत्रौ च भारत ॥ ५.७१.३ ॥

桑遮耶返回之后,法王坚战与阿周那、怖军以及摩德丽的两个儿子,啊,婆罗多!

5.71.4

विराटं द्रुपदं चैव केकयानां महारथान् ।
अब्रुवीदुपसङ्गम्य शङ्खचक्रगदाधरम् ।
अभियाचामहे गत्वा प्रयातुं कुरुसंसदम् ॥ ५.७१.४ ॥

他对毗罗吒、德鲁帕达以及柯迦耶的大车战士说话,又走近手持螺、轮、杵者,说道:“我们请求前往俱卢的集会。”

5.71.5

यथा भीष्मेण द्रोणेन बाह्लीकेन च धीमता ।
अन्यैश्च कुरुभिः सार्धं न युध्येमहि संयुगे ॥ ५.७१.५ ॥

为的是我们不必在战场上与毗湿摩、德罗纳、智慧的跋利迦以及其他俱卢人交战。

5.71.6

एष नः प्रथमः कल्प एतन्निश्रेय उत्तमम् ।
एवमुक्ताः सुमनसस्तेऽभिजग्मुर्जनार्दनम् ॥ ५.७१.६ ॥

这是我们的第一计,这是至高的福利。如此说罢,他们心怀欢喜前往遮那陀那。

5.71.7

पाण्डवैः सह राजानो मरुत्वन्त इवामराः ।
तदा च दुःसहाः सर्वे सदस्यास्ते नरर्षभाः ॥ ५.७१.७ ॥

与般度之子在一起的诸王如同伴随风神的天神。那时,议会中的所有人都难以抵挡,是人中的雄牛。

5.71.8

जनार्दनं समासाद्य कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीत्परवीरध्नं दाशार्हं पाण्डुनन्दनः ॥ ५.७१.८ ॥

贡蒂之子、般度之子坚战走近阁那陀那,对灭杀敌方英雄的达莎尔诃说道。

5.71.9

अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल ।
न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ॥ ५.७१.९ ॥

爱护朋友的人啊!那个时刻已经到来。除你之外,我看不到还有谁能使我们脱离灾难。

5.71.10

त्वां हि माधवमाश्रित्य निर्भया मोघदर्पितम् ।
धार्तराष्ट्रं सहामात्यं स्वयं समनुयुङ्क्ष्महे ॥ ५.७१.१० ॥

摩陀婆啊,依靠你的庇护,我们将无所畏惧,亲自去对付那骄傲虚妄的德拉斯特拉之子及其大臣。

5.71.11

यथा हि सर्वास्वापत्सु पासि वृष्णीनरिन्दम् ।
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ॥ ५.७१.११ ॥

如同你这位维须尼族的人主在一切灾难中守护我们,也请守护你的般度之子;使我们脱离这大恐惧。

5.71.12

अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् ।
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ॥ ५.७१.१२ ॥

我在这里,大臂者啊!你想说什么就说吧。婆罗多后裔啊!你所说的一切,我必定去做。

5.71.13

श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् ।
एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत् ॥ ५.७१.१३ ॥

克里希那啊,你已听到持国王与其诸子的全部打算;全知(Sañjaya)已把这一切告诉了我。

5.71.14

मृदुपूर्वं साममिश्रं सममुग्रं च माधव ।
न कतृं न्यायमास्थाय गर्हिताश्च ततो वयम् ॥ ५.७१.१४ ॥

摩陀婆啊,我们曾试用先柔后和、以和为主、平衡且也有严厉的办法;但因遵循正道,我们反而受到责难。

5.71.15

तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः ।
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ॥ ५.७१.१५ ॥

这就是持国王的意见;他内心的真意已经显露。他说的正如使者所报告的;否则若说别的,他就应当被处死。

5.71.16

अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति ।
लुब्धः पापेन मनसा चरन्नसममात्मनः ॥ ५.७१.१६ ॥

不肯交出王国,他却向我们寻求和平;他贪婪且心怀罪恶,为自己的利益而行不义。

5.71.17

यत्तद्द्वादशवर्षाणि वनेषु ह्युषिता वयम् ।
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ॥ ५.७१.१७ ॥

我们在林中住了十二年,又依持国王的命令,以欺诈的方式度过了一年。

5.71.18

स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो ।
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः ॥ ५.७१.१८ ॥

主啊,我们并未约定“届时持国王将为我们作证”;克里希那啊,婆罗门知道此事。

5.71.19

गृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति ।
वश्यत्वात्पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनं ॥ ५.७१.१९ ॥

贪婪的国王持国不顾自己的本分;因受制于人,又贪恋其子,他便听从愚人的命令。

5.71.20

सुयोधनमते तिष्ठन्राजाऽस्मासु जनार्दन ।
मिथ्याचरति लुब्धः संश्चरन्हि प्रियमात्मनः ॥ ५.७१.२० ॥

啊,Janārdana,国王听从难敌的主意,对我们行事虚伪;他贪婪地四处奔走,只追求使自己愉悦之事。

5.71.21

इतो दुःखतरं किं नु यदहं मातरं ततः ।
संविधातुं न शक्नोमि मित्राणां वा जनार्दन ॥ ५.७१.२१ ॥

啊,Janārdana,还有什么比这更痛苦呢?我竟不能为母亲和朋友们作出安排。

5.71.22

काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन ।
भवता चैव नाथेन पञ्च ग्रामा वृता मया ॥ ५.७१.२२ ॥

啊,Madhusūdana,我与迦尸、支提、般遮罗和摩差人同在,又以您为庇护者,因此请求了五座村庄。

5.71.23

अविस्थलं वृकस्थलं माकन्दी वारणावतम् ।
अवसानं च गोविन्द कंचिदेवात्र पञ्चम् ॥ ५.७१.२३ ॥

Aviṣṭhala、Vṛkasthala、Mākandī、Vāraṇāvata,以及Avasāna,啊Govinda;此处再加一个第五者。

5.71.24

पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा ।
वसेम सहिता येषु मा च नो भरता नशन् ॥ ५.७१.२४ ॥

亲爱的朋友,请给我们五座村庄或城市,让我们能够共同居住,使婆罗多的后裔不致灭亡。

5.71.25

न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते ।
स्वाम्यमात्मनि मत्वाऽसावतो दुःखतरं नु किं ॥ ५.७१.२५ ॥

心怀恶念的持国之子连这一点也不肯同意。他自以为王权在己,还有什么比这更痛苦的呢?

5.71.26

कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः ।
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियं ॥ ५.७१.२६ ॥

出身高贵的老人若贪图他人财物,贪婪便摧毁他的智慧;智慧被摧毁后,便摧毁羞耻之心。

5.71.27

ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् ।
श्रीर्हता पुरुषं हन्ति पुरुषस्याधं वधः ॥ ५.७१.२७ ॥

羞耻一旦毁灭,便伤害法;法一旦毁灭,便毁灭吉祥;吉祥一旦毁灭,便毁灭人,因为人的毁灭一半就在于此。

5.71.28

अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः ।
अपुष्पादफलाद्वृक्षाद्यथा कृष्ण पतत्रिणः ॥ ५.७१.२८ ॥

诸位婆罗门啊,родственники и друзья отворачиваются от бедняка,正如,克里希那啊,鸟儿离开没有花果的树木一样。

5.71.29

एतच्च मरणं तात उन्मत्तपतितादिव ।
ज्ञातयो विनिवर्तन्ते प्रेतसत्वादिवासवः ॥ ५.७१.२९ ॥

亲爱的,这如同死亡:亲属离开那堕入疯狂的人,正如生气离开那如行尸走肉的人。

5.71.30

नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् ।
यत्र नैवाऽद्य न प्रातर्भोजनं प्रतिदृश्यते ॥ ५.७१.३० ॥

商婆罗没有描述比这更罪恶的境况,那里今天、明天早晨都看不到食物。

5.71.31

धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् ।
जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥ ५.७१.३१ ॥

人们说财富是至高的法;一切都依托于财富。世上富有者才活着,而无财之人如同死者。

5.71.32

ये धनादपकर्षन्ति नरं स्वबलमास्थिताः ।
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ॥ ५.७१.३२ ॥

那些倚仗自身力量、使人失去财富的人,毁灭了那人的法、利与欲。

5.71.33

एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः ।
ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ॥ ५.७१.३३ ॥

陷入这种境地的人,有的选择死亡;有的前往村落,有的前往森林,有的走向毁灭。

5.71.34

उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् ।
दास्यमेके च गच्छन्ति परेषामर्थहेतुना ॥ ५.७१.३४ ॥

有人沉溺于癫狂,有人落入仇敌掌控,还有人为了他人的财富而沦为奴仆。

5.71.35

आपदेवास्य मरणात्पुरुषस्य गरीयसी ।
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ॥ ५.७१.३५ ॥

对于人而言,这种灾祸比死亡还要严重,因为财富的毁灭正是法与欲毁灭的原因。

5.71.36

यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्मवत् ।
समन्तात्सर्वभूतानां न तदत्येति कश्चन ॥ ५.७१.३६ ॥

对他而言合乎法、永恒、如同世间之道的那种死亡,在一切众生中无人能够超越。

5.71.37

न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः ।
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ॥ ५.७१.३७ ॥

黑天啊,天生贫穷的人不会像那样痛苦:那人得到吉祥的财富,又失去它,且在享乐中长大。

5.71.38

स तदाऽऽत्मापराधेन संप्राप्तो व्यसनं महत् ।
सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन ॥ ५.७१.३८ ॥

那时,他因自己的过失陷入巨大的灾难,便责备诸神与因陀罗,却绝不责备自己。

5.71.39

न चास्य सर्वशास्राणि प्रभवन्ति निबर्हणे ।
सोऽभिक्रुध्याति भृत्यानां सुहृदश्चाभ्यसूयति ॥ ५.७१.३९ ॥

诸经典都不能约束他;他对仆人发怒,又嫉妒朋友。

5.71.40

तत्तदा मन्युरेवैति स भूयः संप्रमुह्यति ।
स मोहवशमापन्नः क्रूरं कर्म निषेवते ॥ ५.७१.४० ॥

那时,那愤怒又回到他身上,他再次彻底迷惑;陷入迷惑的掌控之中,他便从事残酷的行为。

5.71.41

पापकर्मतया चैव सङ्करं तेन पुष्यति ।
सङ्करो नरकायैव सा काष्ठा पापकर्मणाम् ॥ ५.७१.४१ ॥

因为作恶的状态,他借此滋养混乱;混乱正是导向地狱,那就是作恶者的极限。

5.71.42

न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति ।
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति ॥ ५.७१.४२ ॥

黑天啊,若他不觉醒,就会堕入地狱;他的觉醒即是智慧本身,而以智慧为眼的人将得以渡过。

5.71.43

प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते ।
शास्त्रनिष्ठः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ॥ ५.७१.४३ ॥

获得智慧的人便会研习典籍;坚守典籍,他便再次领悟法,而其最高的支柱是羞耻心。

5.71.44

ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते ।
श्रीमान्स यावद्भवति तावद्भवति पूरुषः ॥ ५.७१.४४ ॥

有廉耻的人憎恶罪恶,他的福运便增长;只要他仍然兴盛,他便是一个人。

5.71.45

धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा ।
नाधर्मे कुरुते बुद्धिं न च पापे प्रवर्तते ॥ ५.७१.४५ ॥

常住于法、心意平静、承担职责之轭的人,不会将心思放在不义上,也不会陷入罪恶。

5.71.46

अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् ।
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ॥ ५.७१.४६ ॥

无耻或迷惑之人,既非女子,也非男子;他在法中没有权利,如同首陀罗,他也是如此。

5.71.47

ह्रीमानवति देवांश्च पितॄनात्मानमेव च ।
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ॥ ५.७१.४७ ॥

有廉耻的人护持诸神、祖先与自身;由此他得至不死,这是功德业的极致。

5.71.48

तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन ।
यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ॥ ५.७१.४८ ॥

摩图苏陀那啊,你已亲眼见到我的境况:我失去王国,住在这些居所之中。

5.71.49

ते वयं न श्रियं हातुमलं न्यायेन केनचित् ।
अत्र नो यतमानानां वधश्चेदपि साधु तत् ॥ ५.७१.४९ ॥

我们无论以何种正当方式都不能放弃那王者的福运。即使我们在此奋力争取而被杀,那也是好的。

5.71.50

तत्र नः प्रथमः कल्पो यद्वयं ते च माधव ।
प्रशान्ताः समभूताश्च श्रियं तामश्रुवीमहि ॥ ५.७१.५० ॥

在这件事上,我们的第一个计划是:我们与你,哦摩陀婆,平静并团结起来,获得那王者的福运。

5.71.51

तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया ।
यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यवाप्नुमः ॥ ५.७१.५१ ॥

在这件事上,最高的界限是:从摧毁凶暴之业而升起——我们杀死俱卢族人后,获得那些王国。

5.71.52

ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः ।
तेषामप्यवधः कार्यः किंपुनर्ये स्युरीदृशाः ॥ ५.७१.५२ ॥

哦黑天,即使是无亲无故的卑劣敌人也应当诛杀;更何况那些如此之人呢!

5.71.53

ज्ञातयश्चैव भूयिष्ठाः सहाया गुरवश्च नः ।
तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् ॥ ५.७१.५३ ॥

我们的亲族、盟友与长辈大多都在;杀害他们最为罪恶。那么战争中还有什么善可言?

5.71.54

पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबन्धवः ।
स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ॥ ५.७१.५४ ॥

这刹帝利之法是罪恶的,而我们是刹帝利的亲属。它是我们自己的本分还是非法,其他的生计都是可鄙的。

5.71.55

शूद्रः करोति शुश्रूषां वैश्मा वै पण्यजीविकाः ।
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ॥ ५.७१.५५ ॥

首陀罗侍奉,吠舍以商业为生,而我们以杀戮为生;婆罗门则有乞食的钵。

5.71.56

क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति ।
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ॥ ५.७१.५६ ॥

刹帝利杀刹帝利,鱼以鱼为生,狗杀狗。达舍阿尔哈啊,看吧,法就是这样流传下来的。

5.71.57

युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे ।
बलं तु नीतिमाधाय युध्ये जयपराजयौ ॥ ५.७१.५७ ॥

克里希那啊,战争中总有纷争,生命在厮杀中消逝。然而我们当凭借力量与谋略而战,无论胜负。

5.71.58

नात्मच्छन्देन भूतानां जीवितं मरणं तथा ।
नाप्यकाले सुखं प्राप्यं दुःखं वाऽपि यदूत्तम ॥ ५.७१.५८ ॥

众生的生与死并非出于自己的意愿;不合时宜也得不到快乐或痛苦,雅度族中最优秀者啊。

5.71.59

एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत ।
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ॥ ५.७१.५९ ॥

一人可以杀死许多人,许多人也可以杀死一人。懦夫杀死英雄,无名之辈杀死有名之人。

5.71.60

जयो नैवोभयोर्दृष्टो नोभयोश्च पराजयः ।
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ॥ ५.७१.६० ॥

双方都看不到确定的胜利,也看不到双方皆败;同样可见损失,而撤退中则有毁灭与耗费。

5.71.61

सर्वथा वृजिनं युद्धं को ध्नन्न प्रतिहन्यते ।
हतस्य च हृषीकेश समौ जयपराजयौ ॥ ५.७१.६१ ॥

战争在各方面都是罪恶的;谁杀了人而不被人反杀?啊,希瑞希迦,对于被杀者而言,胜利与失败是一样的。

5.71.62

पराजयश्च मरणान्मन्ये नैव विशिष्यते ।
यस्य स्याद्विजयः कृष्ण तस्यप्यपचयो ध्रुवम् ॥ ५.७१.६२ ॥

我认为失败并不比死亡更好;啊,克里希那,胜者也必定会有损失。

5.71.63

अन्ततो दयितं ध्नन्ति केचिदप्यपरे जनाः ।
तस्याङ्गबलहीनस्य पुत्रान्भ्रातॄनपश्यतः ॥ ५.७१.६३ ॥

最终,有些人甚至杀死自己的亲人,其他人也是如此;对于那失去肢体之力、再见不到儿子和兄弟的人而言。

5.71.64

निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते ।
ये ह्येव धीरा ह्रीमन्त आर्याः करुणवेदिनः ॥ ५.७१.६४ ॥

啊,克里希那,对生命的厌倦从四面八方生起;对于那些坚定、知羞、高贵且懂得怜悯的人而言。

5.71.65

त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः ।
हत्वाऽप्यनुशयो नित्यं परानपि जनार्दन ॥ ५.७१.६५ ॥

正是这些人在战斗中被杀,而卑劣之人得以幸免。啊,柔那达那,即使杀了别人,悔恨也始终存在。

5.71.66

अनुबद्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते ।
शेषो हि बलमासाद्य न शेषमनुशेषयेत् ॥ ५.७१.६६ ॥

此处罪恶纠缠,残余者也留存;因为幸存者获得力量后,不应让残余之物继续存留。

5.71.67

सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया ।
जयो वैरं प्रसृजति दुःखमास्ते पराजितः ॥ ५.७१.६७ ॥

若有人致力于毁灭一切,想要终结仇怨,他的胜利只会产生仇怨;战败者则长久处于痛苦之中。

5.71.68

सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ।
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा ॥ ५.७१.६८ ॥

心境平和者舍弃胜负,安然入睡;而心中生出仇怨的人,则总是在痛苦中入睡。

5.71.69

अनिर्वृत्तेन मनसा ससर्प इव वेश्मनि ।
उत्सादयति यः सर्वं यशसा स विमुच्यते ॥ ५.७१.६९ ॥

心不平息之人,如同室中之蛇,摧毁一切,却因名声而得以解脱。

5.71.70

अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति ।
न हि वैराणि शाम्यन्ति दीर्घकालधृतान्यपि ॥ ५.७१.७० ॥

他在一切众生中招致永久的恶名;因为长久怀抱的仇怨也不会平息。

5.71.71

आख्यातारश्च विद्यन्ते पुमांश्चेद्विद्यते कुले ।
न चापि वैरं वैरेण केशव व्युपशाम्यति ॥ ५.७१.७१ ॥

啊,Keśava!若家族中有一位真正的男子,也会有人讲述此事;然而仇怨永远不能以仇怨平息。

5.71.72

हविषाऽग्निर्यथा कृष्ण भूय एवाभिवर्धते ।
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः ॥ ५.७१.७२ ॥

啊,Kṛṣṇa!如同火遇酥油而更加旺盛,仇怨也是如此增长;因此别无和平之道——最终总有隔阂存在。

5.71.73

अन्तरं लिप्समानानामयं दोषो निरन्तरः ।
पौरुषे यो हि बलवानाधिर्हृदयबाधनः।
तस्य त्यागेन वा शान्तिर्मरणेनापि वा भवेत् ॥ ५.७१.७३ ॥

对于寻求裂痕的人来说,这种过失是持续不断的。在男子的努力中有一种强烈的精神痛苦折磨着内心;舍弃它,或甚至通过死亡,和平或许会到来。

5.71.74

अथवा मूलघातेन द्विषतां मधुसूदन ।
फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ॥ ५.७१.७४ ॥

或者,哦摩图苏陀那,打击敌人的根本,成果或许立即显现;但那将更加残忍。

5.71.75

या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः ।
संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ॥ ५.७१.७५ ॥

然而,通过舍弃而来的和平,不过就是杀戮;它源于疑虑,源于对敌人以及自身的彻底根除。

5.71.76

न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् ।
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ॥ ५.७१.७६ ॥

我们既不愿舍弃它,也不愿家族覆灭。在此,通过谦卑顶礼而来的和平才是更为重要的。

5.71.77

सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् ।
सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः ॥ ५.७१.७७ ॥

对于一切努力、不愿战争的人来说,当和解受挫时,战争之事人所共知;这并非缺乏勇气。

5.71.78

प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते ।
तच्छुनामिव संपाते पण्डितैरुपलक्षितम् ॥ ५.७१.७८ ॥

和解遭受阻碍之后,便产生可怕的后果,正如群犬相斗时一样;这是智者所见的。

5.71.79

लाङ्गूलचालनं क्ष्वेडा प्रतिवाचो विवर्तनम् ।
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ॥ ५.७१.७९ ॥

摇尾、低吼、回应的嚎叫、转身、露出牙齿、咆哮——于是战斗开始。

5.71.80

तत्र यो बलवान्कृष्ण जित्वा सोत्ति तदामिषम् ।
एवमेव मनुष्येषु विशेषो नास्ति कश्चन ॥ ५.७१.८० ॥

在那里,强者,克里希那啊,获胜后吞食那猎物。同样,在人类之中也没有任何差别。

5.71.81

सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम् ।
अनादरो विरोधश्च प्रणिपाती हि दुर्बलः ॥ ५.७१.८१ ॥

无论如何,这对强者对待弱者来说是恰当的:轻慢与敌对。而对弱者来说,恭敬地叩拜才是合宜的。

5.71.82

पिता राजा च वृद्धश्च सर्वथा मानमर्हति ।
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ॥ ५.७१.८२ ॥

父亲、君王和长者,无论如何都应受到尊敬。因此,生主啊,持国应当被尊重、被敬拜。

5.71.83

पुत्रस्नेहश्च बलवान्धृतराष्ट्रस्य माधव ।
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ॥ ५.७१.८३ ॥

摩陀婆啊,持国对儿子们的爱很强烈。他受制于诸子,便会放弃恭敬的叩拜。

5.71.84

तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् ।
कथमर्थाच्च धर्माच्च न हीयेमहि माधव ॥ ५.७१.८४ ॥

关于此事,克里希那啊,你认为在适当的时候接下来该怎么做?摩陀婆啊,我们怎样才能不失去财富,也不失去法?

5.71.85

ईदृशेऽत्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन ।
उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम ॥ ५.७१.८५ ॥

摩陀苏陀那啊,在如此极度的困境中,除了你,我还能向谁请教呢?人中至尊啊!

5.71.86

प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् ।
को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् ॥ ५.७१.८६ ॥

克里希那啊,像你这样亲爱、盼望我们安好、通晓一切行事之道、了解一切决断的朋友,我们还有谁呢?

5.71.87

एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः ।
उभयोरेव वामर्थे यास्यामि कुरुसंसदम् ॥ ५.७१.८७ ॥

被这样问后,遮那陀那回答法王说:“为了双方的利益,我将前往俱卢人的集会。”

5.71.88

शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् ।
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ॥ ५.७१.८८ ॥

若我能在那里为你们求得和平,又不失你们的利益,国王啊,那对我将是极大的功德,结出大果。

5.71.89

मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान् ।
पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ॥ ५.७१.८९ ॥

我将把愤怒的俱卢人与送嘉耶人、般度五子、持国之子,以及整个大地,从死亡的绳索中解救出来。

5.71.90

न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति ।
सुयोधनः सूक्तमपि न करिष्यति ते वचः ॥ ५.७१.९० ॥

克里希那啊,你前往俱卢人那里,这并非我的意见;苏耶陀那连你的善言也不会听从。

5.71.91

समेतं पार्थिवं क्षत्रं दुर्योधनवशानुगम् ।
तेषां मध्यावतरणं तव कृष्ण न रोचये ॥ ५.७१.९१ ॥

克里希那啊,我不赞成你走进那群听从难敌之命、聚集在一起的刹帝利王者之中。

5.71.92

न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम् ।
न च सर्वामरैश्वर्यं तव द्रोहेण माधव ॥ ५.७१.९२ ॥

摩陀婆啊,因背叛你而得来的财富不会令我们欢喜,神性尚且不能,何况幸福;即便是诸天神的全部尊荣也不能。

5.71.93

जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् ।
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षितां ॥ ५.७१.९३ ॥

大王啊,我知道持国之子的这种邪恶;然而在全世界的地上君王之中,我们将无可非议。

5.71.94

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः ।
क्रुद्धस्य संयुगे स्थातुं सिंहस्येवेतरे मृगाः । ॥ ५.७१.९४ ॥

即使所有君王聚集在一起,也无法在我于战斗中愤怒时与我抗衡,正如其他鹿不能与狮子相比。

5.71.95

अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम् ।
निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः ॥ ५.७१.९५ ॥

如果他们对我有任何不当的行为,我就要焚尽所有的俱卢——这是我心中已定的决意。

5.71.96

न जातु गमनं पार्थ भवेत्तत्र निरर्थकम् ।
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता ॥ ५.७१.९६ ॥

般度之子啊,前往那里绝不会徒劳;有时目的或许能够达成,最终甚至可以免于非议。

5.71.97

एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् ।
भातॄणां समवेतानां सकाशे पुरुषोत्तमम् ॥ ५.७१.९७ ॥

如此被问之后,法王坚战在聚集的兄弟面前回答了人中至尊的生主(Janārdana)。

5.71.98

यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् ।
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥ ५.७१.९८ ॥

克里希那,你愿怎样就怎样吧。去见俱卢族人,愿你平安。待你成就所愿、平安归来,我将再见到你。

5.71.99

विष्वक्सेन कुरून्गत्वा भरताञ्शमयन्प्रभो ।
यथा सर्वे सुमनसः सह स्याम सुचेतसः ॥ ५.७१.९९ ॥

啊,毘湿伐克森那,啊,主上,请到俱卢与婆罗多族人那里去安抚他们,使我们都能心怀喜悦、意念和善地共处。

5.71.100

भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः ।
सौहृदेनाविशङ्ख्योऽसि स्वस्ति प्राप्नुहि भूतये ॥ ५.७१.१०० ॥

你既是兄弟,也是朋友,为阿周那和我所珍爱。你的深情无可怀疑;愿你为了福祉与兴盛,获得平安。

5.71.101

अस्मान्वेत्थ परान्वेत्थ वेत्थार्थान्वेत्थ भाषितुम् ।
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ॥ ५.७१.१०१ ॥

你了解我们,了解他人,了解事理,也懂得如何言说。克里希那,凡于我们有益之言,你都应当转告苏约达那。

5.71.102

यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः ।
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ॥ ५.७१.१०२ ॥

凡合于法义、有益于我们的言辞,无论是安抚之语还是其他,啊,羯舍婆,你都应当说出。