Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.72

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.72.1

सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया ।
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ॥ ५.७२.१ ॥

我已听闻桑闍耶的话,也听闻了你的话。他们与你的全部意图,我都清楚。

5.72.2

तव धर्माश्रिता बुद्धिस्तेषां वैराश्रया मतिः ।
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ॥ ५.७२.२ ॥

你的智慧依托于法,而他们的心思依托于仇怨。若能不经战争而得,那应当最为你所赞同。

5.72.3

न चैवं नैष्ठिकं कर्म क्षत्रियस्य विशांपते ।
आहुराश्रमिणः सर्वे न भैक्षं क्षत्रियश्चरेत् ॥ ५.७२.३ ॥

此乃刹帝利的定分之业,人主啊。诸行于各住期者都说,刹帝利不应行乞。

5.72.4

जयो वधो वा सङ्ग्रामे धात्राऽऽदिष्टः सनातनः ।
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशत्यते ॥ ५.७२.४ ॥

战中胜或死,乃造物主所命的永恒之则。此为刹帝利自身之法;怯懦之悲悯并不受赞美。

5.72.5

न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर ।
विक्रमस्व महाबाहो जहि शत्रून्परन्तप ॥ ५.७२.५ ॥

坚定的怯懦之悲悯,无法谋生,阿育梵多罗。大臂者啊,展现你的勇力,杀灭诸敌,焚敌者啊。

5.72.6

अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः ।
कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप ॥ ५.७२.६ ॥

持国之子极为贪婪;他们曾长久共处、示以亲情,已结交盟友、聚集了力量,焚敌者啊。

5.72.7

न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशांपते ।
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ॥ ५.७२.७ ॥

人民之主啊,他们没有办法与你匹敌,因为毗湿摩、德罗纳、迦利帕等人认为他们强大。

5.72.8

यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि ।
तावदेते हरिष्यन्ति तव राज्यमरिन्दम ॥ ५.७२.८ ॥

国王啊,只要你对他们温和相待,他们就会夺去你的王国,征服敌人者啊。

5.72.9

नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् ।
अलं कर्तुं धार्तराष्ट्रस्तव काममरिन्दम ॥ ५.७२.९ ॥

无论出于怜悯、软弱,还是为了法与财利,持国之子都不能满足你的心愿,征服敌人者啊。

5.72.10

एतदेव निमित्तं ते धार्तराष्ट्रो यथा त्वयि ।
नान्वतप्यत कोपेन तव कृत्वाऽपि दुष्करम् ॥ ५.७२.१० ॥

这正是你的缘由:持国之子虽然对你做了艰难之事,却因愤怒而未曾悔悟。

5.72.11

पितामहस्य द्रोणस्य विदुरस्य च धीमतः ।
ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च ॥ ५.७२.११ ॥

祖父毗湿摩、德罗纳、智者维杜罗、婆罗门、善人、国王以及城市。

5.72.12

पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः ।
दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम् ॥ ५.७२.१२ ॥

在所有库鲁首领的注视之下,实则如此:对那位慷慨、温和、克己、崇尚法、顺从的人,他也这样做了。

5.72.13

यत्त्वामुपधिना राजन्द्यूते वञ्चितवांस्तदा ।
न चापत्रपते तेन नृशंसः स्वेन कर्मणा ॥ ५.७२.१३ ॥

大王啊,那在赌局中以诡计欺骗你的人,并不为自己残忍的行为感到羞愧。

5.72.14

तथाशीलसमाचरे राजन्मा प्रणयं कृथाः ।
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ॥ ५.७२.१४ ॥

大王啊,不要对行为如此的人怀有亲爱。他们为整个世界所应诛杀,更何况对你而言呢,婆罗多的后裔啊。

5.72.15

वाग्भिस्त्वप्रतिरूपाभिरतुदत्त्वां सहानुजम् ।
श्लाघमानः प्रहृष्टः सन्भ्रातृभिः सह भाषते ॥ ५.७२.१५ ॥

他以不当的言辞伤害了你和你的幼弟;他欢喜自夸,与他的兄弟们一同说话。

5.72.16

एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् ।
नामधेयं च गोत्रं च तदप्येषां न शिष्यते ॥ ५.७२.१६ ॥

般度之子在此连这么一点自己的东西都没有;连他们的名字和氏族也不再为他们所保留。

5.72.17

कालेन महता चैषां भविष्यति पराभवः ।
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो मयि ॥ ५.७२.१७ ॥

经过漫长的时间,他们将遭受失败;失去本性的他们,将在我之中获得他们的本性。

5.72.18

दुःशासनेन पापेन तदा द्यूते प्रवर्तिते ।
अनाथवत्तदा देवी द्रौपदी सुदुरात्मना ॥ ५.७२.१८ ॥

当时,罪人难降低令赌局开始,那极度恶毒之人便将王后德罗波蒂视作无依无靠之人。

5.72.19

आकृष्य केशे रुदती सभायां राजसंसदि ।
भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः ॥ ५.७२.१९ ॥

在大殿之中,在诸王的议会上,她一边哭泣一边被拖拽着头发,在毗湿摩和德罗纳面前被反复称为“母牛”。

5.72.20

भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः ।
धर्मपाशनिबद्धाश्च न किंचित्प्रतिपेदिरे ॥ ५.७२.२० ॥

你阻止了所有勇猛如毗摩的兄弟,他们被法的绳索所束缚,竟没有任何回应。

5.72.21

एताश्चान्याश्च परुषा वाचः स समुदीरयन् ।
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ॥ ५.७२.२१ ॥

他说着这些和其他刻薄的话,在你进入森林之后,在亲族之中自我夸耀。

5.72.22

ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् ।
अश्रुकण्ठा रुदन्तश्च सभायामासते सदा ॥ ५.७२.२२ ॥

那些被带到那里的人,看到无罪的你,哽咽着泪水,常常在大殿中坐着哭泣。

5.72.23

न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह ।
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ॥ ५.७२.२३ ॥

那些国王和婆罗门都没有赞同他;在场的议会成员都斥责难敌。

5.72.24

कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन ।
महागुणो वधो राजन्नु तु निन्दा कुजीविका ॥ ५.७२.२४ ॥

对于出身高贵的人而言,无论是受责备还是死亡,啊,降伏敌人者!啊,国王,死亡确实是大德;而受责备则是卑贱的生计。

5.72.25

तदैव निहतो राजन्यदैव निरपत्रपः ।
निन्दितश्च महाराज पृथिव्यां सर्वराजभिः ॥ ५.७२.२५ ॥

大王啊,无耻之人在他变得无耻的那一刻便已死去;伟大的君王啊,他被大地上所有的国王所非难。

5.72.26

ईषत्करो वधस्तस्य यस्य चारित्रमीदृशम् ।
प्रस्कुन्देन प्रतिस्तब्धश्छिन्नमूल इव द्रुमः ॥ ५.७२.२६ ॥

对于行为如此之人,杀戮的效果甚微;他因固执而僵硬,如同被斩断根部的树木。

5.72.27

वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः ।
जह्येन त्वममित्रघ्न मा राजन्विचिकित्सिथाः ॥ ५.७२.२७ ॥

他卑劣而心怀恶念,全世界都应像对待毒蛇一样将他诛杀。消灭敌人的人啊,去杀了他吧;君王啊,不要犹豫。

5.72.28

सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ ।
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ॥ ५.७२.२८ ॥

无罪之人啊,这对你来说处处合宜,我也很高兴:你应当向父亲和毗湿摩致敬。

5.72.29

अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् ।
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ॥ ५.७२.२९ ॥

然而我将走到整个世界面前,斩断疑惑——大王啊,对于那些对难敌心存两端、犹豫不决的人。

5.72.30

मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् ।
तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ॥ ५.७२.३० ॥

在诸王之中,我将宣说你个人的勇武之德,以及他的种种越轨之行。

5.72.31

ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् ।
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥ ५.७२.३१ ॥

我在那里说出与法和利相合的有益之言时,各地的诸侯国王都静听。

5.72.32

त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति ।
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ॥ ५.७२.३२ ॥

他们会认定你是心怀正法、言语诚实之人,也会知道他因贪欲而如何行事。

5.72.33

गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि ।
वृद्धबालानुपादाय चातुर्वर्ण्ये समागते ॥ ५.७२.३३ ॥

当四种姓聚集时,我也会在城乡百姓之中,连同老人和孩童,斥责他。

5.72.34

शमं वै याचमानस्त्वं नाधर्मं तत्र लप्स्यसे ।
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥ ५.७२.३४ ॥

你为求和平而去,在那里不会招致不义;诸王将谴责俱卢族与持国。

5.72.35

तस्मिंल्लोकपरित्यक्ते किं कार्यमवशिष्यते ।
हते दुर्योधने राजन्यदन्यत्क्रियतामिति ॥ ५.७२.३५ ॥

他被世间抛弃、难敌被杀之后,大王啊,还有什么事可做?还是另做别的吧。

5.72.36

यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् ।
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ॥ ५.७२.३६ ॥

我将前往所有俱卢族之处,为你们而不使他们毁灭,努力促成和平,并观察他们的行为。

5.72.37

कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् ।
निशम्य विनिवर्तिष्ये जयाय तव भारत ॥ ५.७२.३७ ॥

我将前往了解俱卢族的状况和战事相关的情况,听取之后返回,为了你的胜利,婆罗多之子啊。

5.72.38

सर्वथा युद्धमेवाहमाशंसापि परैः सह ।
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ॥ ५.७२.३८ ॥

在各方面我都只看到战争;即便与敌人和解的希望也没有,因为一切征兆都这样向我显现。

5.72.39

मृगाः शकुन्ताश्च वदन्ति घोरं ।
हस्त्यश्वमुख्येषु निशामुखेषु ।
घोराणि रूपाणि तथैव चाग्नि-
र्वर्णान्बहून्पुष्यति घोररूपान् ॥ ५.७२.३९ ॥

鹿与鸟说出可怕的话语;在象和马的主要处所,黄昏时分,出现可怕的形象;火焰也显现出众多可怖形状的颜色。

5.72.40

मनुष्यलोकक्षयकृत्सुघोरो ।
नो चेदनुप्राप्त इहान्तकः स्यात्।
शस्त्राणि यन्त्रं कवचान्रथांश्च ।
नागान्हयांश्च प्रतिपादयित्वा ॥ ५.७२.४० ॥

这是毁灭人类世界的极可怕之物;否则死神早已到来。备齐兵器、器械、铠甲、战车、象与马之后……

5.72.41

योधाश्च सर्वे कृतनिश्चयास्ते ।
भवन्तु हस्त्यश्वरथेषु यत्ताः।
साङ्ग्रामिकं ते यदुपार्जनीयं ।
सर्वं समग्रं कुरु तन्नरेन्द्र ॥ ५.७२.४१ ॥

愿所有勇士坚定决心,在象、马与战车上做好准备;凡是你应当备齐的军需,都要全部备齐,人主啊。

5.72.42

दुर्योधनो न ह्यलमद्य दातुं ।
जीवंस्तवैतन्नृपते कथंचित्।
यत्ते पुरस्तादभवत्समृद्धं ।
द्यूते हृतं पाण्डवमुख्य राज्यम् ॥ ५.७२.४२ ॥

啊,国王,难敌今日无论如何也无法归还,即使他仍然活着。那曾经属于您、繁荣的王国,在赌局中从般度诸子之首手中被夺去。