摩诃婆罗多 · 章 5.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.73.1
यथायथैव शान्तिः स्यात्कुरूणां मधुसूदन ।
तथातथैव भाषेथा मा स्म युद्धेन भीषयेः ॥ ५.७३.१ ॥
摩图苏陀那啊,你应以能使俱卢族之间获得和平的方式说话,不要以战争恐吓他们。
5.73.2
अमर्षी जातसंरम्भः श्रेयोद्वेषी महामनाः ।
नोग्रं दुर्योधनो वाच्यः साम्नैवेनं समाचरेः ॥ ५.७३.२ ॥
难敌易怒、充满激愤,憎恶善举,却有大志。不要对他言辞严厉,只以怀柔之道待他。
5.73.3
प्रकृत्या पापसत्वश्च तुल्यचेतास्तु दस्युभिः ।
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ॥ ५.७३.३ ॥
他天性邪恶,心思与盗贼相同,因权势的骄傲而沉醉,并与般度五子结下了仇怨。
5.73.4
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः ।
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ॥ ५.७३.४ ॥
他目光短浅、残忍、好辱骂,凶残好勇,怨恨持久,难以引导,心存罪恶,喜好欺诈。
5.73.5
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम् ।
तादृशेन शमः कृष्ण मन्ये परमदुष्करः ॥ ५.७३.५ ॥
他宁可死也不屈服,也绝不会放弃自己的主张。克里希那啊,我认为与这样的人讲和极其困难。
5.73.6
सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः ।
प्रतिहन्त्ये सुहृदां वाचश्चैव मनांसि च ॥ ५.७३.६ ॥
他甚至违背朋友,抛弃了法,喜好悦耳的谎言;他对朋友的言语与心意都加以拒斥。
5.73.7
स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः ।
स्वभावात्पापमभ्येति तृणैश्छन्न इवोरगः ॥ ५.७३.७ ॥
陷于愤怒之中,安住于恶性,他由其本性走向罪恶,如同被草遮蔽的毒蛇。
5.73.8
दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव ।
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ॥ ५.७३.८ ॥
难敌的军队如何,他的品行、本性、力量与勇气如何,这一切你都完全知晓。
5.73.9
पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् ।
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ॥ ५.७३.९ ॥
往昔,俱卢族与其子嗣,以及我们,都十分欢悦,与亲族一同欢乐,仿佛因陀罗为首。
5.73.10
दुर्योधनस्य क्रोधेन भरता मधुसूदन ।
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ॥ ५.७३.१० ॥
摩图苏陀那啊,因难敌之怒,婆罗多族将被焚烧,犹如寒季过后森林被烈火焚烧。
5.73.11
अष्टादशेमे राजानः प्रख्यात मधुसूदन ।
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् ॥ ५.७३.११ ॥
摩图苏陀那啊,这十八位著名的国王,曾彻底灭绝他们的亲族、朋友与眷属。
5.73.12
असुराणां समृद्धानां ज्वलतामिव तेजसा ।
पर्यायकाले धर्मस्य प्राप्ते कलिरजायत ॥ ५.७३.१२ ॥
如同繁盛而以光辉燃烧的阿修罗,当法的轮回之期到来时,迦利出生了。
5.73.13
हैहयानामुदावर्तो नीपानां जनमेजयः ।
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ॥ ५.७३.१३ ॥
哈依哈耶中有乌陀伐尔多,尼波中有遮那梅遮耶,多罗然伽中有巴呼罗,克利弥中有乌达塔与婆苏。
5.73.14
अजबिन्दुः सुवीराणां सुराष्ट्राणां रुषर्द्धिकः ।
अर्कजश्च बलीहानां चीनानां धौतमूलकः ॥ ५.७३.१४ ॥
苏毗罗人中有阿阇频度,苏罗湿多人中有卢沙尔提迦,巴利诃人中有阿迦阇,支那人中有达乌多穆罗迦。
5.73.15
हयग्रीवो विदेहानां वरयुश्च महौजसाम् ।
बाहुः सुन्दरवंशानां दीप्ताक्षाणां पुरूरवाः ॥ ५.७३.१५ ॥
毗提诃人中有马颈,大力者中有婆罗由,孙达罗族中有巴呼,炽眼者中有补卢罗婆。
5.73.16
सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः ।
धारणश्चन्द्रवत्सानां मुकुटानां विगाहनः ॥ ५.७३.१६ ॥
车底与鱼人中有娑诃阇,勇士中有跋利舍陀耶,月裔族中有陀罗那,冠饰族中有毗迦诃那。
5.73.17
शमश्च नन्दिवेगानामित्येते कुलपांसनाः ।
युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः ॥ ५.७३.१७ ॥
难提吠伽中有沙摩。这些人都是玷辱家族的,克利须那啊,是在劫末生于各家的下劣之人。
5.73.18
अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः ।
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ॥ ५.७३.१८ ॥
我们俱卢族中,莫非也将出现这个难敌,一个玷污家族的炭火、卑劣的罪人,在劫末由时间所生?
5.73.19
तस्मान्मृदु शनैर्ब्रूया धर्मार्थसहितं हितम् ।
कामानुबद्धं बहुलं नोग्रमुग्रपराक्रमम् ॥ ५.७३.१९ ॥
因此应当温和缓慢地说出与法和利相连的有益之言,它们关乎欲望且丰富,而非严厉,对待那勇猛之人。
5.73.20
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः ।
नीचैर्भूत्वाऽनुयास्यामो मा स्म नो भरता नशन् ॥ ५.७३.२० ॥
克里希那啊,即使对于难敌,我们众人也应谦卑地居于其下而追随,以免我们的婆罗多族灭亡。
5.73.21
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह ।
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ॥ ५.७३.२१ ॥
婆苏提婆啊,愿我们对待俱卢族的态度如同超然旁观者;应当如此行事,使不幸不触及俱卢族。
5.73.22
वाच्यः पितामहो वृद्धो ये च कृष्ण समासदः ।
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ॥ ५.७३.२२ ॥
克里希那啊,应当告诉祖父和聚集在那里的长者们;愿兄弟之间有手足之情,愿持国之子平息下来。
5.73.23
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति ।
अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने ॥ ५.७३.२३ ॥
我如此说,国王也赞许此事。阿周那绝不渴望战斗;阿周那心中有极大的慈悲。