Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.74.1

एतछ्रुत्वा महाबाहुः केशवः प्रहसन्निव ।
अभूतपूर्वं भीमस्य मार्दवोपहितं वचः ॥ ५.७४.१ ॥

大臂的克舍婆听后,仿佛微笑着,聆听了毗摩那前所未有、充满温柔的话语。

5.74.2

गिरेरिव लघुत्वं तच्छीतत्वमिव पावके ।
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ॥ ५.७४.२ ॥

他将此视为山岳之轻、火中之凉,罗摩之弟、持沙朗伽弓的束利看向狼腹(毗摩)。

5.74.3

सन्तेजसंस्तदा वाग्भिर्भातरिश्वेव पावकम् ।
उवाच भीममासीनं कृपयाऽभिपरिप्लुतम् ॥ ५.७४.३ ॥

那时,光辉者以言语对坐着、充满怜悯的毗摩说话,如同风对火说话。

5.74.4

त्वमन्यदा भीमसेन युद्धमेव प्रशंससि ।
वधामिनन्दिनः क्रूरान्धार्तराष्ट्रन्मिमर्दिषुः ॥ ५.७४.४ ॥

毗摩娑那啊,你在别的时候也赞美战争本身,因屠杀残酷的持国之子而欢喜,渴望将他们碾碎。

5.74.5

न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप ।
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ॥ ५.७४.५ ॥

你既不睡也不醒,俯身躺卧,啊,灼烧敌人者!你总是说出可怕、不安、粗厉的话语。

5.74.6

निःश्वसन्नग्निवत्तेन सन्तप्तः स्वेन मन्युना ।
अप्रशान्तमना भीम सधूम इव पावकः ॥ ५.७४.६ ॥

你像火一样叹息,被自己的愤怒灼烧,心神不安,啊毗摩,你就像冒着烟的火。

5.74.7

एकान्ते निःश्वसञ्शेपे भारार्त इव दुर्बलः ।
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ॥ ५.७४.७ ॥

你独自叹息而卧,像被重担压垮的弱者。不知真相的人或许会以为你疯了。

5.74.8

आरुज्य वृक्षान्निर्मूलान्गजः परिरुजन्निव ।
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ॥ ५.७४.८ ॥

婆罗摩啊,你像拔倒折断树木的大象,用脚践踏大地,呻吟着四处奔跑。

5.74.9

नास्मिञ्जने न रमसे रहः क्षिपसि पाण्डव ।
नान्यं निशि दिवा चापि कदाचिदभिनन्दसि ॥ ५.७४.९ ॥

般度之子啊,你不喜欢与众人相处,却独自抛身于寂静之中。无论白天黑夜,你从不在别的事物中得到欢喜。

5.74.10

अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव ।
जान्वोर्मूर्धानमाधाय चिरमास्ते प्रमीलितः ॥ ५.७४.१० ॥

你忽然微笑,又仿佛在哭泣,独自秘密地坐着。把头靠在膝上,闭着眼睛,你久久不动。

5.74.11

भ्रुकिटिं च पुनः कुर्वन्नोष्ठौ च विदशन्निव ।
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ॥ ५.७४.११ ॥

婆罗摩啊,你反复皱着眉头、咬着嘴唇,仿佛在愤怒之中。这一切都是由愤怒造成的。

5.74.12

यथा तपुरस्तात्सविता दृश्यते शुक्रमुच्चरन् ।
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ॥ ५.७४.१२ ॥

如灼热的太阳带着光辉升起,又如它一旦脱离,必定带着光芒环绕而行,

5.74.13

तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः ।
हन्ताहं गदयाभ्येत्य दुर्योधनममर्पणम् ॥ ५.७४.१३ ॥

我说的是真话,他并无违背。我将持棍走近,杀死愤怒的难敌。

5.74.14

इति स्म मध्ये भ्रातृणां सत्येनालभसे वदाम् ।
तस्य ते प्रशमे बुद्धिर्ध्रियतेऽद्य परन्तप ॥ ५.७४.१४ ॥

你在兄弟中间以真理之名如此说话。啊,焚烧敌人者,今日你的心志转向和平。

5.74.15

अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते ।
चेतांसि विप्रतीपानि यत्त्वां भीभीम विन्दति ॥ ५.७४.१५ ॥

啊,对于渴望战斗的人,当战斗时刻到来时,心意便转为相反;啊,可怖者,这正在抓住你。

5.74.16

अहो पार्थ निमित्तानि विपरीतानि पश्यसि ।
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ॥ ५.७४.१६ ॥

啊,普利塔之子,你在睡眠将尽和醒来之时都看到相反的征兆;因此你希望和平。

5.74.17

अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि ।
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ॥ ५.७४.१७ ॥

啊,你对自己毫无所望,像失去男子气概的无能之人。被昏厥所笼罩,因此你的心意已经紊乱。

5.74.18

उद्वेपते ते हृदयं मनस्ते प्रतिसीदति ।
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ॥ ५.७४.१८ ॥

你的心颤抖,你的心意沉落;被大腿的僵硬所擒,因此你希望和平。

5.74.19

अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम् ।
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ॥ ५.७४.१९ ॥

啊,普利塔之子,凡人之心确实无常而动荡,如同被风力吹动的木棉树果实。

5.74.20

तवैषा विकृता बुद्धिर्गवां वागिव मानुषी ।
मनांसि पाण्डुपुत्राणां मञ्जयत्यप्लवानिव ॥ ५.७४.२० ॥

你这扭曲的智慧,如同牛的人言,正使般度之子的心沉没,仿佛无舟而溺。

5.74.21

इदं मे महादाश्चर्यं पर्वतस्येव सर्पणम् ।
यदीदृशं प्रभाषेथा भीमसेनासमं वचः ॥ ५.७४.२१ ॥

对我而言这是大奇迹,如同山岳移动:你竟说出与毗摩先那相同的这般言辞。

5.74.22

स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत ।
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ॥ ५.७४.२२ ॥

啊,婆罗多的后裔,请想起你自己的业绩与你在此家族的出生。起来,不要陷入悲伤,英雄啊,要坚定。

5.74.23

न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम ।
यदोजसा न लभते क्षत्रियो न तदश्रुते ॥ ५.७४.२३ ॥

啊,降伏敌人者,这种沮丧不适合你。刹帝利不以其勇力所得,便不能得到。