Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.75

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.75.1

तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः ।
सदश्ववत्समाधावद्बभाषे तदनन्तरम् ॥ ५.७५.१ ॥

婆苏提婆如此发问后,常怀愤怒、不能忍耐的毗摩立即发言,如良马般急速而出。

5.75.2

अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत ।
प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम् ॥ ५.७५.२ ॥

阿周那啊(阿育多),你对我的意图另有所想;我在战场上的勇武是真实的,且意志十分坚定。

5.75.3

वेत्सि दाशार्ह सत्यं मे दीर्घकालं सहोषितः ।
उत वा मां न जानासि प्लवन्हृद इवाप्लवे ॥ ५.७५.३ ॥

达舍尔哈之裔啊,我们长期相处,你知道我的真诚。还是你不认识我,就像在无舟的湖中游泳的人?

5.75.4

तस्मादनभिरुपाभिर्वाग्भिर्मां त्वं समर्च्छसि ।
कथं हि भीमसेनं मां जानन्कश्चन माधव ॥ ५.७५.४ ॥

因此你对我的言辞不合宜。摩陀婆啊,谁若认识毗摩森那,怎会这样对我说话?

5.75.5

ब्रूयादप्रतिरूपाणि यथा मां वक्तमर्हसि ।
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन ॥ ५.७५.५ ॥

你本应如何对我说话,而有人却会说些不合宜的话。因此,毗黎尼之乐啊,我要说这些话。

5.75.6

आत्मनः पौरुषं चैव बलं च न समं परैः ।
सर्वथाऽनार्यकर्मैतत्प्रशंसा स्वयमात्मनः ॥ ५.७५.६ ॥

我的男子气概与力量并不与他人相同。无论如何,这是卑劣之举——自我夸耀。

5.75.7

अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः ।
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः ॥ ५.७५.७ ॥

我因夸口而被驱使,将说出自己的力量。黑天啊,看这两个世界,这些众生曾居于其中。

5.75.8

अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ ।
यदीमे सहसा क्रुद्धे समेयातां शिले इव ॥ ५.७५.८ ॥

若这两者,不动、无基、无尽,为一切之母,怒而突然相撞如两块巨石——

5.75.9

अहमेते निगृह्णीयां बाहुभ्यां सचसाचरे ।
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव ॥ ५.७५.९ ॥

我将以双臂制止这二者,动与不动之物。看我双臂之间的这段空隙,如同两根巨大铁闩之间的距离。

5.75.10

य एतत्प्राय मुच्येत न तं पश्यामि पुरूषम् ।
हिमवांश्च समुद्रश्च वज्री वा बलमित्स्वयम् ॥ ५.७५.१० ॥

我看不到能从此脱身的人;无论雪山、大海,还是执金刚的因陀罗,凭其自身之力也不能。

5.75.11

मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः ।
युद्धार्हान्क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः ॥ ५.७५.११ ॥

被我擒获者,即便三位倚恃力量之人也无法救护;所有对般度子孙作为侵略者而有战斗资格的刹帝利,亦然。

5.75.12

अधः पादतलेनैतानधिष्ठास्यामि भूतले ।
न हि त्वं नाभिजानासि मम विक्रममच्युत ॥ ५.७५.१२ ॥

我将把这些人置于脚掌之下,站立于大地之上。阿阇多啊,你并不了解我的勇力。

5.75.13

यथा मया विनिर्जित्य राजानो वशगाः कृताः ।
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् ॥ ५.७५.१३ ॥

正如我战胜诸王、使其臣服,若你仍不认识我,就看我的威力,如同初升太阳的光芒。

5.75.14

विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन ।
परुषैराक्षिपसि किं व्रणं सूच्येव चानघ ॥ ५.७५.१४ ॥

哦,阁下(Janārdana),当你深入战场的重重包围时,你就会认识我。哦,无罪者,你为何用严厉的言辞像针一样刺我的伤口?

5.75.15

यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः ।
द्रष्टासि युधि संबाधे प्रवृत्ते वैशसेऽहनि ॥ ५.७५.१५ ॥

依我的理解,我说这些;你应当知道我还不止于此。当毁灭之日开始、战场的混战展开时,你将看见我。

5.75.16

मया प्रणुन्नान्मातङ्गात्नथिनः सादनस्तथा ।
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् ॥ ५.७५.१६ ॥

被我驱策的象兵、战车武士和骑兵;你还将看到刹帝利中的雄牛们击杀怒不可遏的人。

5.75.17

द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् ।
न मे सीदन्ति गात्राणि न ममोद्वेपते मनः ॥ ५.७५.१७ ॥

你和世人都将看见我拖拽那些最优秀中的最优秀者。我的肢体不会瘫软,我的心也不会颤抖。

5.75.18

सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम ।
किं तु सौहृदमेवैतत्कृपया मधुसूदन ।
सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन् ॥ ५.७५.१८ ॥

即使所有世界都对我愤怒,我也无所畏惧。但这是出于友情,哦,摩图苏陀那,出于慈悲而说。我将忍受一切苦难;愿我们婆罗多族不致灭亡。