摩诃婆罗多 · 章 5.78
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.78.1
एवमेतन्महाबाहो यथा वदसि पाण्डव ।
पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम्।
सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः ॥ ५.७८.१ ॥
大臂的般度之子啊,如你所言,就这样吧。我将为般度子与俱卢人促成安宁。这一切都在我的掌握之中,贝婆特苏啊,在两种行为的掌握之中。
5.78.2
क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम् ।
ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत्फलम् ॥ ५.७८.२ ॥
肥沃纯净的田地,即便经人力耕作完备,贡蒂之子啊,若无雨水,也永远不能结出果实。
5.78.3
तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम् ।
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ॥ ५.७८.३ ॥
凡有灌溉之处,人们便说这是人的努力;然而在那里,也必定会看到由天命造成的干涸。
5.78.4
तदिदं निश्चित्तं बुद्ध्या पूर्वैरपि महात्मभिः ।
दैवे च मानुषे चैव संयुक्तं लोककारणम् ॥ ५.७८.४ ॥
此理即使古代的大德们也以智慧判定:世界的成因乃是天命与人力相结合。
5.78.5
अहं हि तत्करिष्यामि परं पुरुषकारतः ।
देवं तु न मया शक्यं कर्म कर्तुं कथंचन ॥ ५.७८.५ ॥
我将以最高的人力完成此事;但天命,我无论如何也不能通过行动去造就。
5.78.6
स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः ।
न हि सन्तप्यते तेन तथारूपेण कर्मणा ॥ ५.७८.६ ॥
那个心术不正之人抛弃了法与世界而四处游荡;以这样的行为,他也不会感到懊悔。
5.78.7
तथापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः ।
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ॥ ५.७८.७ ॥
然而他的谋臣们助长他最邪恶的心念——沙古尼、御者之子,以及他的兄弟难降亦然。
5.78.8
स हि त्यागेन राज्यस्य न शमं समुपैष्यति ।
अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः ॥ ५.७८.८ ॥
阿周那啊,他若不放弃王国便不会得到平静;不经杀戮,苏由陀那与其党羽不会平息。
5.78.9
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् ।
याच्यमानश्च राज्यं स न प्रजास्यति दुर्मतिः ॥ ५.७८.९ ॥
法王即便以叩拜相求,也不愿舍弃;虽被恳求,那恶念之人也不会交出王国。
5.78.10
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशातनम् ।
उक्तं प्रयोजनं यत्तु धर्मराजेन भारत ॥ ५.७८.१० ॥
然而我以为不应当对他说出杀死坚战之事;婆罗多啊,法王所说的目的才是正确的。
5.78.11
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः ।
तस्मिंश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति ॥ ५.७८.११ ॥
那罪恶的俱卢子孙不会做这一切;若不做,他便会在世间成为应被诛杀之人。
5.78.12
मम चापि स वध्यो हि जगतश्चापि भारत ।
तेन कौमारके यूयं सर्वे विप्रकृताः सदा ॥ ५.७८.१२ ॥
婆罗多啊,他无论对我还是对世界而言都应当被诛杀;因为从孩童时起,他就一直伤害你们所有人。
5.78.13
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना ।
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ॥ ५.७८.१३ ॥
残忍而心术邪恶者夺去了你们的王国;见到坚战的富足,那罪人仍不能平息。
5.78.14
असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः ।
न मया तद्गृहीतं च पापं तस्य चिकीर्षेतम् ॥ ५.७८.१४ ॥
阿周那啊,因你之故,他也多次挑拨离间于我;但我并未接受他所图谋的罪恶之意。
5.78.15
जानासि हि महाबाहो त्वमप्यस्य परं मतम् ।
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ॥ ५.७८.१५ ॥
大臂者啊,你也知道他的至上见解;他也知道我——一心想让法王欢喜的人。
5.78.16
संजानंस्तस्य चात्मानं मम चैव परं मतम् ।
अजानन्निव मां कस्मादर्जुनाद्याभिशङ्कसे ॥ ५.७८.१६ ॥
你明明清楚他与我的至上之意,却仿佛不认识我一般,为何因阿周那而疑心于我?
5.78.17
यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया ।
विधानं विहितं पार्थ कथं शर्म भवेत्परैः ॥ ५.७८.१७ ॥
阿周那啊,你也遵循的那至上神圣的法则已经确立;那么敌人又怎能得到安宁呢?
5.78.18
यत्तु वाचा मया शक्यं कर्मणा वाऽपि पाण्डव ।
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ॥ ५.७८.१८ ॥
般度之子啊,凡我能以言语或行动所做的,我都会去做,阿周那啊;但我并不为你祈求与敌人的和平。
5.78.19
कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम् ।
याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि ॥ ५.७८.१९ ॥
在夺牛之时所说的话,怎会对和平如此有益?即使一年之后在路上,婆罗门般的毗湿摩恳求他,也不是和平。
5.78.20
तदैव ते पराभूता यदा सङ्कल्पितास्त्वया ।
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ॥ ५.७८.२० ॥
那时你们确实被击败了,正当你所决定之时,一点一点、一刻一刻地;然而苏由陀那仍不满足。
5.78.21
सर्वथा तु मया कार्यं धर्मराजस्य शासनम् ।
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ॥ ५.७८.२१ ॥
无论如何,我必须遵从法王的命令,并再次考量那恶人的罪行。