Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.79

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.79.1

उक्तं बहुविधं वाक्यं धर्मराजेन माधव ।
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया ॥ ५.७९.१ ॥

摩陀婆啊,精通法义、慷慨的法王说了种种话,这些你也都听到了。

5.79.2

मतमाज्ञाय राज्ञश्च भीमसेनेन माधव ।
संशमो बाहुवीर्य च ख्यापितं माधवात्मनः ॥ ५.७९.२ ॥

摩陀婆啊,了解了国王与毗摩森那的意见之后,你自己宣布了和解与臂力。

5.79.3

तथैव फाल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् ।
आत्मनश्च मतं वीर कथितं भवताऽसकृत् ॥ ५.७९.३ ॥

勇士啊,同样,你也听到了法尔贡那(阿周那)所说的,而你自己的意见也已多次说过。

5.79.4

सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् ।
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ॥ ५.७९.४ ॥

人中之最啊,撇开这一切,听取他人的意见之后,去做你认为合乎时宜的事。

5.79.5

तस्मिंरतस्मिन्निमित्ते हि मतं भवति केशव ।
प्राप्तकालं मनुष्येण क्षमं कार्यमरिन्दम ॥ ५.७९.५ ॥

克舍婆啊,在每一种这样的情况下,人的意见便是如此;降敌者啊,人应当在恰当的时候做适宜的事。

5.79.6

अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा ।
अनित्यमतयो लोके नराः पुरुषसत्तम ॥ ५.७९.६ ॥

人中之最啊,事情若以一种方式思虑,结果却变成另一种,而后又变成另一种;世间人的意见是无常的。

5.79.7

अन्यथाबुद्धयो ह्यासन्नस्मासु वनवासिषु ।
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ॥ ५.७९.७ ॥

克里希纳啊,住在森林里的我们,当我们不被看见时,他们的心意是一样的;当我们被看见时,又是另一样。

5.79.8

अस्माकमपि वार्ष्णेय वने विचरतां तदा ।
न तथा प्रणयो राज्ये यथा संप्रति वर्तते ॥ ५.७९.८ ॥

在那时我们徘徊于森林之时,对我们也没有如今在王国中所见的那般爱戴,瓦尔希尼的后裔啊。

5.79.9

निवृत्तवनवासान्नः श्रुत्वा वीर समागताः ।
अक्षौहिण्यो हि सप्ते मास्त्वत्प्रसादाज्जनार्दन ॥ ५.७९.९ ॥

英雄啊,听说我们已从森林流放中归来,七个阿克绍希尼大军已经集结,janārdana啊,这是托你的恩惠。

5.79.10

इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषात् ।
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ॥ ५.७९.१० ॥

见到这些人中虎,力量与勇武不可思议,在战场上持械而立,这里哪个人会不惊惧呢?

5.79.11

स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम् ।
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ॥ ५.७९.११ ॥

因此,你应当在俱卢人之中对他说话,先以安抚开头,最后以警告结束,使愚蠢的苏由陀那不致惊恐。

5.79.12

युधिष्ठिरं भीमसेनं बीभत्सुं चापराचितम् ।
सहदेवं च मां चैव त्वां च रामं च केशव ॥ ५.७९.१२ ॥

keśava啊:有坚战、怖军、不败的Bībhatsu(阿周那)、偕天、我、你和罗摩——

5.79.13

सात्यकिं च महावीर्यं विराटं च महात्मजम् ।
द्रुपदं च महामात्यं धृष्टद्युम्नं च माधव ॥ ५.७९.१३ ॥

大力的萨提亚基、大心者之子毗罗吒、大臣德鲁帕达,以及德里斯塔笃晕,哦,摩陀婆。

5.79.14

काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् ।
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ॥ ५.७९.१४ ॥

迦尸王、勇猛的德里斯塔给图,以及遮提王——哪一个血肉之躯的凡人能在战场上抵挡他们?

5.79.15

स भवान्गमनादेव साधयिष्यत्यसंशयम् ।
इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ॥ ५.७९.१५ ॥

大臂者啊,仅因您的前往,他无疑便会成就法王所愿的那一目标。

5.79.16

विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः ।
श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयाऽनघ ॥ ५.७९.१६ ॥

毗睹罗、毗湿摩、德罗纳,以及与跋利迦同在的诸人——无罪者啊,经你告知,他们便能辨明何为善。

5.79.17

ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् ।
तं च पापसमाचारं सहामात्यं सुयोधनम् ॥ ५.७९.१७ ॥

他们会劝说他——民众之主持国王,以及行恶的苏耶陀那及其大臣。

5.79.18

श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन ।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ॥ ५.७९.१८ ॥

毗睹罗将是此事的听者,你则是说者,哦,遮那陀那——对于那正在折返的事,他们为何不在途中加以阻止呢?