Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.8.1

शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः ।
अभ्यात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥ ५.८.१ ॥

沙利耶听闻使者之言,被庞大的军队环绕,啊国王,与他的儿子们和大车战士一同向般度之子们进发。

5.8.2

तस्य सेनानिवेशोऽभूदध्वर्धमिव योजनम् ।
तथा हि विपुलां सेनां बिभर्ति स नरर्षभः ॥ ५.८.२ ॥

他的军队营地绵延,仿佛有半个由旬之长,因为这位人中之牛统领着如此庞大的军队。

5.8.3

अक्षौहिणीपती राजन्महावीर्यपराक्रमाः ।
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः ॥ ५.८.३ ॥

啊国王,诸阿克绍西尼军的统帅,威力与勇武非凡,身披彩色铠甲的英雄,持着彩色旗帜与弓。

5.8.4

विचित्राभरणाः सर्वे विचित्ररथवाहनाः ।
विचित्रस्रग्धराः सर्वे विवित्राम्बरभूषणाः ॥ ५.८.४ ॥

个个佩戴彩色饰物,个个乘坐彩色的战车与坐骑,个个戴着彩色花环,个个以彩色衣饰与宝物装扮。

5.8.5

स्वदेशवेषाभरणा वीराः शतसहस्रशः ।
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥ ५.८.५ ॥

成百上千的英雄,身着各自故乡的服饰与饰物;他的军队统帅是刹帝利中的雄牛。

5.8.6

व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् ।
शनैर्विश्रामयन्सेनां स ययौ यत्र पाण्डवः ॥ ५.८.६ ॥

仿佛使众生惊扰、大地震动,他缓缓地让军队休整,前往般度之子所在之处。

5.8.7

ततो दुर्योधनः श्रुत्वा महात्मानं महारथम् ।
उपायान्तमभिद्रुत्य स्वयमानर्च भरत ॥ ५.८.७ ॥

于是难敌听闻这位大度的大车勇士将至,亲自奔上前去向他致敬,婆罗多啊。

5.8.8

कारयामास पूजार्थं तस्य दुर्योधनः सभाः ।
रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः ॥ ५.८.८ ॥

难敌为了向他致敬,在风景优美的地方建造了装饰着宝石与绘画、布置精美的会堂。

5.8.9

शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः ।
तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम् ॥ ५.८.९ ॥

那里由各种工匠安排了娱乐活动,那里备好了花环、肉食、饮食与美酒。

5.8.10

कूपाश्च विविधाकारा औदकानि गृहाणि च ।
स ताः सभाः समासाद्य पूज्यमानो यथाऽमरः । ॥ ५.८.१० ॥

还有各种形状的水井和水上楼阁。他到达那些会堂,受到如神明般的礼遇。

5.8.11

दुर्योधनस्य सचिवैर्देशे देशे समन्ततः ।
आजगाम सभामन्यां देवावसथवर्चसम् । ॥ ५.८.११ ॥

难敌的大臣们在四面八方的各个地方,把他带到另一座如天神居所般辉煌的会堂。

5.8.12

स तत्र विषयैर्युक्तैः कल्याणैरतिमानुषैः ।
मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम्। ॥ ५.८.१२ ॥

在那里,他拥有吉祥而超凡的享乐,便以为自己极其伟大,甚至轻视因陀罗。

5.8.13

पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः ।
युधिष्ठिरस्य पुरुषाः केऽत्र चक्रुः सभा इमाः । ॥ ५.८.१३ ॥

于是欢喜的刹帝利之雄问侍从:“尤提舍提罗的这些大殿是谁在这里建造的?”

5.8.14

आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ।
प्रदेयमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम्। ॥ ५.८.१४ ॥

“请把建造大殿的人带来;我认为他们值得奖赏。我将赐予他们礼物;愿贡蒂之子允许。”

5.8.15

ततः प्रहृष्टं राजानं ज्ञात्वा ते सचिवास्तदा ।
दुर्योधनाय तत्सर्वं कथयन्ति स्म विस्मिताः ॥ ५.८.१५ ॥

于是大臣们知道国王欢喜,惊讶地把一切告诉了难敌。

5.8.16

संप्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् ।
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ॥ ५.८.१६ ॥

当沙利耶极其欢喜、甚至愿意献出性命时,隐藏着的难敌在那里向他展示了自己的舅父。

5.8.17

तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम् ।
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो ध्रियतामिति ॥ ५.८.१७ ॥

摩德罗之王见到他并明白他的用意,欢喜地拥抱他,说:“愿你所求之物得到。”

5.8.18

सत्यवाग्भव कल्याण वरो वै मम दीयताम् ।
सर्वसेनाप्रणेता वै भवान्भवितुमर्हति ॥ ५.८.१८ ॥

“吉祥之人啊,请守信吧;请赐我一个恩惠——你最配做整个军队的统帅。”

5.8.19

यथैव पाण्डवास्तुभ्यं तथैव भवतो ह्यहम् ।
अनुमान्यं च पाल्यं च भक्तं च भज मां विभो ॥ ५.८.१९ ॥

正如般度五子属于您,我也属于您。啊,大能的主,请尊重我、保护我,并眷顾您的信徒我。

5.8.20

कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति ।
कृतमित्येव गान्धारिः प्रत्युवाच पुनःपुनः ॥ ५.८.२० ॥

沙利耶说:“已经办妥了,还能做什么呢?”甘陀利一再回答:“已经办妥了。”

5.8.21

गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ ।
अहं गमिष्ये द्रुष्टुं वै युधिष्ठिरमरिंदमम् ॥ ५.८.२१ ॥

杜尔奥达那,人中雄牛,你回自己的城去吧。我将去见降伏敌人的坚战。

5.8.22

दृष्ट्वा युधिष्ठिरं राजन्क्षिप्रमेष्ये नराधिप ।
अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः ॥ ५.८.२२ ॥

国王啊,见到坚战后我将很快回来,人主啊。人中雄牛的般度之子,一定要去见一见。

5.8.23

क्षिप्रामागम्यतां राजन्पाण्डवं वीक्ष्य पार्थिव ।
त्वय्यधीनाः स्म राजेन्द्र वरदानं स्मरस्व नः ॥ ५.८.२३ ॥

国王啊,请快去见一见般度之子,君主啊。王中之王啊,我们依赖您;请记起您赐予我们的恩惠。

5.8.24

क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप ।
दृष्ट्वा तु पाण्डवान्राजन्न मिथ्या कर्तुमुत्सहे ॥ ५.८.२४ ॥

我很快就会来,愿你平安。国王啊,请回你的城去吧。国王啊,见过般度五子之后,我不愿让自己的话成为虚妄。

5.8.25

पर्यष्वजेतामन्योन्यं शल्यदुर्योधनावुभौ ॥ ५.८.२५ ॥

沙利耶与难敌互相拥抱。

5.8.26

स तथा शल्यमामन्त्र्य पुरायात्स्वकं पुरम् ।
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥ ५.८.२६ ॥

难敌如此与沙利耶告别后,返回自己的城市;沙利耶则前去将他的那一行为告知贡蒂之子。

5.8.27

उपप्लाव्यं स गत्वा तु स्कन्धावारं प्रविश्य च ।
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥ ५.८.२७ ॥

沙利耶到达优波蒲那,进入营地,在那里看见了所有般度之子。

5.8.28

चिरात्तु दृष्ट्वा राजानं मातुलं समितिञ्जयम् ।
आसनेभ्यः समुत्पेतुः सर्वे सहयुधिष्ठिराः ॥ ५.८.२८ ॥

久别之后见到国王、他们的舅舅、战场上的胜利者沙利耶,所有人连同坚战一起从座位上站了起来。

5.8.29

तथा भीमार्जुनौ हृष्टौ स्वस्त्रीयौ च यमावुभौ ।
द्रौपदी च सुभद्रा च अभिमन्युश्च भारत ॥ ५.८.२९ ॥

同样,怖军与阿周那也都欢喜;他姐妹的两个儿子——双生子,以及德罗波蒂、苏跋陀罗与阿毗曼尤也都欢喜,婆罗多的后裔啊。

5.8.30

समेत्य च महापाहुं शल्यं पाण्डुसुतस्तदा ।
पाद्यमर्घ्यं च गां चैव प्रतिग्राह्य पुरोधसा ॥ ५.८.३० ॥

与大臂的沙利耶相见后,般度之子便通过家祭司让他接受了洗足水、敬礼之物和一头牛。

5.8.31

कताञ्जलिरदीनात्मा धर्मात्मा शल्यमब्रवीत् ।
स्वागतं तेऽस्तु वै राजन्नेतदासनमास्यताम् ॥ ५.८.३१ ॥

合掌而立,心志坚定的正法之子对沙利耶说:「大王,欢迎您。这是座位,请就座。」

5.8.32

ततो न्यषीदच्छल्यश्च काञ्चने परमासने ।
तत्र पाद्यथार्घ्यं च न्यवेदयत पाण्डवः ॥ ५.८.३२ ॥

随后沙利耶坐在金制的上等座位上,般度之子在那里向他献上洗足水与敬礼的供品。

5.8.33

दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै ।
अवाप्स्यसि फलं राजन्हत्वा शत्रून्परन्तप ॥ ५.८.३३ ॥

沙利耶说:「大王,破敌者啊,您将通过诛杀敌人,必定获得由持国之子所造成的这场巨大痛苦的果报。」

5.8.34

विदितं ते महाराज लोकतन्त्रं नराधिप ।
तस्माल्लोककृतं किञ्चित्तव तात न विद्यते ॥ ५.८.३४ ॥

沙利耶说:「伟大的大王,人主啊,世间的法则您是知道的;因此,亲爱的孩子,世间所造之物中,没有任何东西是属于您的。」

5.8.35

निवेद्य चार्घ्यं विधिवन्मद्रराजाय भारत ।
कुशलं पाण्डवोऽपृच्छच्छल्यं सर्वसुखावहम् ॥ ५.८.३५ ॥

婆罗多的子孙啊,般度之子依礼向摩德罗王献上敬礼之后,便询问那位带来一切安乐的沙利耶是否安好。

5.8.36

स तैः परिवृतः सर्वैः पाण्डवैर्धर्मचारिभिः ।
आसने चोपविष्टः स शल्यः पार्थमथाब्रवीत् ॥ ५.८.३६ ॥

被所有遵行正法的般度五子环绕,坐在座位上的沙利耶便对普利塔之子说道。

5.8.37

कुशलं राजशार्दूल सर्वत्र कुरुनन्दन ।
अरण्यवासाद्दिष्ट्याऽसि विमुक्तो जयतां वर ॥ ५.८.३७ ॥

王中猛虎,俱卢之喜,一切可安好?幸而你已脱离林中流放,胜者中的最优者啊。

5.8.38

दुष्करं ते कृतं राजन्निर्जने गहने वने ।
भ्रातृभिः सह कौन्तेय कृष्णाया चानयाऽनघ ॥ ५.८.३८ ॥

王啊,在荒僻幽深的森林中,你与诸兄弟及此黑天之女共同完成了艰难之事,俱蒂之子啊,无罪之人。

5.8.39

अज्ञातवासं घोरं च वसता दुष्करं कृतम् ।
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥ ५.८.३९ ॥

在可怖的隐匿生活中,你完成了艰难之事。婆罗多啊,失去王国的人只有悲苦,哪来的快乐呢?

5.8.40

सत्ये तपसि दाने च तव बुद्धिर्युधिष्ठिर ।
क्षमा दमश्चाहिंसा च सत्यं चैव युधिष्ठिर ॥ ५.८.४० ॥

你的心志在于真实、苦行与布施,坚贞啊,俱利修。忍耐、克己、不杀与真实亦然,坚贞啊。

5.8.41

अद्भुतश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठितः ।
मृदुर्वदान्यो ब्रह्मण्यो दान्तो धर्मपरायणः ॥ ५.८.४१ ॥

王啊,一个奇妙的世界再次在你身上确立。你温和、慷慨、敬重婆罗门、克制自律,一心向法。

5.8.42

धर्मास्ते विदिता राजन्बहवो लोकसाक्षिकाः ।
सर्वं जगदिदं तात विदितं ते परन्तप ॥ ५.८.४२ ॥

王啊,你众多的法已为世人所知,世界皆可作证。亲爱的,这整个世界你都了解,灭敌者啊。

5.8.43

मुदितश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठिते ।
दिष्ट्या कृच्छ्रमिदं राजन्पारितं भरतर्षभ ॥ ५.८.४३ ॥

国王啊,当你被确立之后,世界再次欢喜。幸运的是,国王啊,这场艰难已经度过,婆罗多之牛啊。

5.8.44

दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम् ।
निस्तीर्णदुष्करं राजंस्त्वां धर्मनिचयं प्रभो ॥ ५.८.४४ ॥

幸运的是,诸王之主啊,我看见你,这位心地正直的人,与你的随从在一起。国王啊,主啊,你已渡过艰难,是法之聚合。

5.8.45

ततोऽस्याकथयद्राजा दुर्योधनसमागमम् ।
तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥ ५.८.४५ ॥

于是国王把他与难敌相会的事告诉了他。婆罗多啊,他听完了这一切,也听了赐恩之事。

5.8.46

सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना ।
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ॥ ५.८.४६ ॥

国王啊,你以欢喜的内心做得很好。英雄啊,你用言语向难敌许下的诺言,你已践行了。

5.8.47

एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ।
राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम ॥ ५.८.४७ ॥

但我有一愿,大地之主啊,愿你吉祥,在所做之事中。国王啊,即使是不该做的事,你也当去做,善人中的最上者啊。

5.8.48

मम त्ववेक्षया वीर शृणु विज्ञापयामि ते ।
भवानिह महाराज वासुदेवसमो युधि ॥ ५.८.४८ ॥

但出于对我的敬意,英雄啊,请听,我恳求你。伟大的国王啊,在此你在战斗中与婆苏提婆相等。

5.8.49

कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम ।
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥ ५.८.४९ ॥

众王之最啊,当迦尔纳与阿周那的单车决斗发生时,你必须为迦尔纳驾车,这毫无疑问。

5.8.50

तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि ।
तेजोवधश्च ते कार्यः सौतेरस्मञ्जयावह्नः ।
अकर्तव्यमपि ह्येतत्कर्मुमर्हसि मातुल ॥ ५.८.५० ॥

国王啊,如果你希望我所喜爱的事,就应在那里保护阿周那;摧毁御者之子的光辉也是你的责任,这将给我们带来胜利。舅舅啊,虽然此事不应做,你仍应做此事。

5.8.51

श्रृणु पाण्डव भद्रं ते यद्ब्रवीषि महात्मनः ।
तेजोवधनिमित्तं मां सूतपुत्रस्य सङ्गमे ॥ ५.८.५१ ॥

般度之子啊,愿你平安;请听你关于那位大德者所说的话:为了在战斗中摧毁御者之子的光辉,(你要求我这样做)。

5.8.52

अहं तस्य भविष्यामि सङ्घ्रामे सारथिर्ध्रुवम् ।
वासुदेवेन हि समं नित्यं मां सोऽभिमन्यतो ॥ ५.८.५२ ॥

我在战斗中必定会成为他的御者;他总是视我与婆苏提婆相等。

5.8.53

तस्याहं कुरुशार्दूल प्रतीपमहितं वचः ।
ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे ॥ ५.८.५३ ॥

库鲁之虎啊,对那渴望战斗的人,我必定会说出不悦耳、有害的话。

5.8.54

यथा स हृतदर्पश्च हृततेजाश्च पाण्डव ।
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥ ५.८.५४ ॥

般度之子啊,使他失去骄傲与光辉,便容易被杀——这是我据实对你所说的。

5.8.55

एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् ।
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥ ५.८.५५ ॥

亲爱的孩子,你怎样对我说,我就怎样去做。凡是我还能做的,我也都会为你做到你所喜爱的。

5.8.56

यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह ।
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥ ५.८.५६ ॥

你在赌局中与黑天女一同遭受的苦难,以及御者之子所说的粗暴言语。

5.8.57

जटासुरात्परिक्लेशः कीचकाच्च महाद्युते ।
द्रौपद्याऽधिगतं सर्वं दमयन्त्या यथाऽशुभम् ॥ ५.८.५७ ॥

光辉的人啊,贾塔苏罗带来的苦难与迦吉咖所施的折磨,黑公主都已承受,正如达摩衍蒂曾经承受她的不幸。

5.8.58

सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति ।
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥ ५.८.५८ ॥

勇士啊,这一切苦难终将化为幸福。你不应为此愤怒,因为命运更加强大。

5.8.59

दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर ।
देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥ ५.८.५९ ॥

坚战啊,大德之人也会遭受苦难;就连诸神也曾遭遇苦难,大地之主啊。

5.8.60

इन्द्रेण श्रूयते राजन्सभार्येण महात्मना ।
अनुभूतं महद्दुःखं देवराजेन भारत ॥ ५.८.६० ॥

大王啊,据说大德的因陀罗与他的妻子一同经历了巨大的苦难;婆罗多啊,天王承受了那巨大的悲痛。