摩诃婆罗多 · 章 5.80
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.80.1
यदेतत्कथितं राज्ञा धर्म एष सनातनः ।
यथा च युद्धमेव स्यात्तथा कार्यमरिन्दम ॥ ५.८०.१ ॥
君王所说,正是这永恒的法;若战事必将发生,便应如此行事,hé 降服敌人者。
5.80.2
यदि प्रसममिच्छेयुः कुरवः पाण्डवैः सह ।
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ॥ ५.८०.२ ॥
即便俱卢人愿与般度之子言和,然而,hé 达沙尔诃之子,你仍应促成与他们的战争。
5.80.3
कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम् ।
अवधेन प्रशाम्येत मम मन्युः सुयोधने ॥ ५.८०.३ ॥
克利须那啊,见到般闍利被这样带入议会,不杀死苏由陀那,我对他的怒火怎能平息?
5.80.4
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः ।
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ॥ ५.८०.४ ॥
克利须那啊,若怖军、阿周那以及正法之王坚定的般度之子坚守正法,我便不愿与他们争战;若他们舍弃正法,我才愿与他们交战。
5.80.5
ब्रूहि मद्वचनं कृष्ण सुयोधनमपण्डितम् ।
कृच्छ्रे वने वा वस्तव्यं पुरे वा नागसाह्वये ॥ ५.८०.५ ॥
克利须那啊,请将我的话告诉无智的苏由陀那:他或者要在困苦中住在森林里,或者住在那伽萨赫瓦亚城。
5.80.6
सत्यमाह महाबाहो सहदेवो महामतिः ।
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ॥ ५.८०.६ ॥
大臂者啊,大智的萨哈德瓦说的是实话:唯有杀死难敌,他的怒火与我的怒火才能平息。
5.80.7
न जानासि यथा दृष्ट्वा चीराजिनधरान्वने ।
तवापि मन्युरुद्धूतो दुःखितान्प्रेक्ष्य पाण्डवान् ॥ ५.८०.७ ॥
你不知道,当你在森林中看见身披树皮与鹿皮、满怀悲伤的般度之子时,你心中也燃起了怒火。
5.80.8
तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः ।
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ॥ ५.८०.८ ॥
因此,那位在战场上刚猛的英雄、摩德利之子所说的话,正是所有战士的意见,哦,人中最优者。
5.80.9
एवं वदि वाक्यं तु युयुधाने महामतौ ।
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ॥ ५.८०.९ ॥
当大智的尤尤陀那如此说话时,四面八方响起了战士们极其骇人的狮子吼。
5.80.10
सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन् ।
साधुसाध्विति शैनेयं हर्षयन्तो युयुत्सवः ॥ ५.८०.१० ॥
所有渴望战斗的英雄都完全认可了那番话,齐声喊道:“说得好,说得好!”,使希尼之后人大为欢喜。