Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.81.1

राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् ।
कृष्णा दाशार्हमासीनमब्रवीच्छोककर्शिता ॥ ५.८१.१ ॥

克利须那听了国王那与法与利相合的有益之言,因悲痛而憔悴,对端坐的达沙尔诃说道。

5.81.2

सुता द्रुपदराजस्य स्वसितायतमूर्धजा ।
संपूज्य सहदेवं च सात्यकिं च महारथम् ॥ ५.८१.२ ॥

德鲁帕达王之女,发丝白而长,向萨哈德瓦和大车士萨提奇致敬之后。

5.81.3

भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः ।
अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी ॥ ५.८१.३ ॥

看到平静下来的毗摩森那,心意高尚的她极为苦恼,泪眼盈盈,说出了这些话。

5.81.4

विदितं ते महाबाहो धर्मज्ञ मधुसूदन ।
यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् ॥ ५.८१.४ ॥

大臂者、知法者、摩图苏丹那啊,你知道如何借助欺诈,使般度之子从幸福中坠落。

5.81.5

धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन ।
यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः ॥ ५.८१.५ ॥

生主啊,德里塔拉什特拉之子与大臣们一道,以及国王如何在私下里让桑遮耶听到秘密的谋议。

5.81.6

युधिष्ठिरस्य दाशार्ह तच्चापि विदितं तव ।
यथोक्तः सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया ॥ ५.८१.६ ॥

达夏尔诃啊,关于坚战的那些事你也知道;对桑遮耶所说的一切,你都听到了。

5.81.7

पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते ।
अविस्थलं वृकस्थलं माकन्दीं वारणावतम् ॥ ५.८१.७ ॥

光辉赫赫的大人啊,亲爱的,请把五个村庄给我们:阿维斯塔拉、伐克斯塔拉、摩坎迪和跋罗纳瓦塔。

5.81.8

अवसानं महाबाहो कंचिदेकं च पञ्चमम् ।
इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव ॥ ५.८१.८ ॥

大力臂者啊,一处及第五处作为居所;应当这样告诉难敌,哦,羯舍婆,也告诉他的朋友们。

5.81.9

न चापि ह्यकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः ।
युधिष्ठिरस्य दाशार्ह श्रीमतः सन्धिमिच्छतः ॥ ५.८१.९ ॥

克里希那啊,难敌听了也不听从这话,哦,达沙尔诃之后,光辉的坚战希望和平。

5.81.10

अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः ।
सन्धिमिच्छेन्न कर्तव्यं तत्र गत्वा कथंचन ॥ ५.८१.१० ॥

克里希那啊,若难敌不交出王国而想要和平,那么前往那里之后,决不可以任何方式讲和。

5.81.11

शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह ।
धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् ॥ ५.८१.११ ॥

大力臂者啊,般度之子与苏林阳人联合,必能抵挡持国之子那可怖而愤怒的大军。

5.81.12

न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन ।
तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन ॥ ५.८१.१२ ॥

确实,无论以和解还是以赠予,都无法从他们那里达成任何目的;因此,哦,摩豆苏陀那,你不应当对他们施以怜悯。

5.81.13

साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः ।
योक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता ॥ ५.८१.१३ ॥

哗呀克里希那,对那些既不能以怀柔也不能以施舍平息的敌人,应当施以刑罚,由欲保全自身性命者执行。

5.81.14

तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत ।
त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः ॥ ५.८१.१४ ॥

因此,阿周那中的阿周那啊,大臂者,你应当与般度之子及斯里琼耶人一起,迅速对他们施以重罚。

5.81.15

एतत्समर्थं पार्थानां तव चैव यशस्करम् ।
क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् ॥ ५.८१.१५ ॥

此事适合普利塔之子,也会为你带来荣誉。哗呀克里希那,若如此而行,也会给刹帝利阶层带来幸福。

5.81.16

क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः ।
अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता ॥ ५.८१.१६ ॥

陷于贪欲的刹帝利应由刹帝利杀之;或即使非刹帝利,哦,达沙阿尔哈的后裔,也应由履行本分者杀之。

5.81.17

अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात् ।
गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् ॥ ५.८१.१७ ॥

亲爱的,除了沉溺于一切罪恶的婆罗门;因为婆罗门是一切种姓的师长,最先且最多享用。

5.81.18

यथाऽवध्ये वध्यमाने भवेद्दोषो जनार्दन ।
स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ॥ ५.८१.१८ ॥

哦,札纳尔达纳,正如杀了不该杀的人便有过失,不杀该杀的人也可见有过失;精通法者如此知晓。

5.81.19

यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु ।
पाण्डवैः सह दाशर्हैः सृञ्जयैश्च ससैनिकैः ॥ ५.८१.१९ ॥

克里希那啊,行事须使此过失不沾染你——与般度之子、达沙尔诃族、srinjaya族及其军队同行。

5.81.20

पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन ।
का तु सीमन्तिनी मादृकं पृथिव्यामस्ति केशव ॥ ५.८१.२० ॥

遮那尔达那啊,我将怀着信任再说一遍——克沙瓦啊,大地上谁是像我这样的女子?

5.81.21

सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता ।
धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी ॥ ५.८१.२१ ॥

德鲁帕达王之女,从祭坛中央诞生,达利须达尤姆纳之妹——克里希那啊,你亲爱的挚友。

5.81.22

आजमूढकुलं प्राप्त स्नुषा पाण्डोर्महात्मनः ।
महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् ॥ ५.८१.२२ ॥

嫁入阿遮密陀家族,大士般度的儿媳,与五位因陀罗同样光辉的般度诸子的正妃。

5.81.23

सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः ।
अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः ॥ ५.८१.२३ ॥

我由五位英雄生下五子,皆是大车战士;克里希那啊,正如阿毗摩诃乌是你的,他们依法也是你的。

5.81.24

साऽहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता ।
पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव ॥ ५.८१.२४ ॥

正是我,被人抓住头发,拖入会场,受尽折磨,而般度诸子在旁观看——克沙瓦啊,正当你在世之时。

5.81.25

जीवस्तु पाण्डुपुत्रेषु पञ्चालेष्वथ वृष्णिषु ।
दासीभाताऽस्मि पापानां सभामध्ये व्यवस्थिता ॥ ५.८१.२५ ॥

般度之子、般遮罗人与婆里希尼人尚在人世,我却被当作奴婢,成为恶人的弟媳,被置于议事堂中央。

5.81.26

निरमर्षेष्वचेष्टेषु प्रेक्ष्यमाणेषु पाण्डुषु ।
पाहि मामिति गोविन्द मनसा चिन्तितोसि मे ॥ ५.८१.२६ ॥

般度五子无怒、呆立观看之时,我心中只默念:“哥文达啊,救救我!”

5.81.27

यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत् ।
वरं वृणीष्व पाञ्चालि वरार्हाऽसि मता मम ॥ ५.८१.२७ ॥

当时,尊贵的国王、我的公公对我说:“般遮罗女啊,请选一件恩惠吧,我认为你配得上恩惠。”

5.81.28

अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति ।
मयोक्ते यत्र निर्मुक्ता वनवासाय केशव ॥ ५.८१.२८ ॥

当我说出“愿般度之子不为奴,车马兵器俱在”之后,他们便获释前往林中流放,哦,凯沙瓦。

5.81.29

एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन ।
त्रायस्व पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवान् ॥ ५.८१.२९ ॥

这样的苦难你是知道的,哦,逐恶者。莲花眼者啊,请连同丈夫、族人与亲属一并护佑我们。

5.81.30

नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।
श्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ॥ ५.८१.३० ॥

克里希那啊,我按法不正是毗湿摩与持国二人的儿媳吗?可是我却被强行贬为奴婢。

5.81.31

धिक्पार्थस्य धनुष्मत्तां भीमसेनस्य धिग्बलम् ।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ ५.८१.३१ ॥

耻辱啊,阿周那的弓术;耻辱啊,怖军的力量,因为难敌竟然还活着,哪怕只是一刻,克里希那。

5.81.32

यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि ।
धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् ॥ ५.८१.३२ ॥

如果我值得你的恩惠,如果你对我怀有怜悯,那么克里希那啊,请将你全部的愤怒加于持国之子们身上。

5.81.33

इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् ।
सुनीलमसितापाङ्गी सर्वगन्धादिवासितम् ॥ ५.८१.३३ ॥

说完这些,她拿起了苏达尔沙纳圆盘,握感柔和,边缘锋利,深蓝色,并以各种香气熏染。

5.81.34

सर्वलक्षणसंपन्नं महाभुजगवर्चसम् ।
केशपक्षं वरारोहा गृह्व वामेन पाणिना ॥ ५.८१.३४ ॥

这圆盘具备一切吉祥相,光彩如大蛇,以发为羽,纤腰的女子用左手握住了它。

5.81.35

पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी ।
अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् ॥ ५.८१.३५ ॥

莲花眼、象步的克里希那,走近莲花眼的克里希那,眼中含满泪水,对克里希那说了这番话。

5.81.36

अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः ।
स्मर्तव्यः सर्वकार्येषु परेषां सन्धिमिच्छताम् ॥ ५.८१.३६ ॥

莲花眼者啊,这是你的(发辫),被难降的手拖拽过。无论敌人想要和平与否,在一切事务中都应记住它。

5.81.37

यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ ।
पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः ॥ ५.८१.३७ ॥

克里希那啊,若怖军与阿周那卑微而渴求和议,那么我年迈的父亲将与他的诸子、大车战士们一同作战。

5.81.38

पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन ।
अभिमन्युं पुरस्कृत्य योत्स्यन्ते कुरुभिः सह ॥ ५.८१.३८ ॥

摩图苏陀那啊,我那五位大勇的儿子,将让阿毗曼尤居前,与俱卢族作战。

5.81.39

दुःशासनभुजं श्यामं संछिन्नं पांसुकुण्ठितम् ।
यद्यहं तु न पश्यामि का शान्तिर्हृदयस्य मे ॥ ५.८१.३९ ॥

若我未见那黝黑、被斩断、沾满尘土的难近之臂,我心中何来平安?

5.81.40

त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे ।
विधाय हृदये मन्युं प्रदीप्तमिव पावकम् ॥ ५.८१.४० ॥

我怀着心中的怒火,如熊熊烈火般,等待已过了十三年。

5.81.41

विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् ।
योऽयमद्य महाबाहुर्धर्ममेवानुपश्यति ॥ ५.८१.४१ ॥

我的心被怖军如箭般的言辞刺痛,几乎破碎;因为这位大臂者今日只顾法道。

5.81.42

इत्युक्त्वा बाष्परुद्धेन कण्ठेनायतलोचना ।
रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् ॥ ५.८१.४२ ॥

说完这些,长眼的克里什那一边颤抖,一边哽咽落泪,喉咙被泪水堵住,声音断续哀哀。

5.81.43

स्तनौ पीनायतश्रोणी सहितावभिवर्षती ।
द्रवीभूतमिवात्युष्णं मुञ्चन्ती वारि नेत्रजम् ॥ ५.८१.४३ ॥

她丰满宽阔的胸脯与宽大的臀部一同颤抖,眼中倾泻出滚烫得仿佛熔化一般的泪水。

5.81.44

तामुवाच महाबाहुः केशवः परिसान्त्वयन् ।
अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः ॥ ५.८१.४४ ॥

于是大臂的克舍婆安慰她说:“黑公主啊,不久你将看到婆罗多族的女人们哭泣。”

5.81.45

एवं ता भीरु रोस्त्यन्ति निहतज्ञातिबान्धवाः ।
हतमित्रा हतबला येषां क्रुद्धाऽसि भामिनी ॥ ५.८१.४५ ॥

胆怯的女子啊,光彩照人的女子啊,那些亲属与朋友已被杀害、力量已被摧毁的人们,正是这样哭泣着,而你正对她们愤怒。

5.81.46

अहं च तत्करिष्यामि भीमार्जुनयमैः सह ।
युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् ॥ ५.८१.४६ ॥

我也将与怖军、阿周那及双子一起去做这件事,遵从坚战的命令,并依循天意所定的命运。

5.81.47

धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः ।
शेष्यन्ते निहता भूमौ श्वसृगालादनीकृताः ॥ ५.८१.४७ ॥

若般度的仇敌——被时间催熟的持国之子——不听我的话,他们将被杀死躺在地上,成为狗和豺狼的食物。

5.81.48

चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत् ।
द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् ॥ ५.८१.४८ ॥

即便喜马拉雅山震动,大地裂为百片,天空连同星辰坠落,我的话也绝不会落空。

5.81.49

शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ।
सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् ।
हतामित्राञ्श्रिया युक्तानचिदाद्द्रक्ष्यसे पतीन् ॥ ५.८१.४९ ॥

即使大海干涸,哦,黑天女,我的话也不会落空。我真诚地向你承诺;哦,黑天女,止住你的泪水吧。不久你将看到你的丈夫们,敌人已被杀死,他们享有富足与荣耀。