Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.82

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.82.1

कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः ।
संबन्धी दयितो नित्यमुभयोः पक्षयोरपि ॥ ५.८२.१ ॥

今天你是所有俱卢人最优秀的益友,也始终是双方所爱的亲属。

5.82.2

पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् ।
समर्थः प्रशमं चैव कर्तुमर्हसि केशव ॥ ५.८२.२ ॥

代表般度五子,应向持国百子提出一个有益的和平;哦,羯舍婆,你有能力,促成和平本是你的责任。

5.82.3

त्वमित्तः पुण्डरीकाक्ष सुयोधनममर्षणम् ।
शान्त्यर्थं भ्रातरं ब्रूया यत्तद्वाच्यममित्रहन् ॥ ५.८२.३ ॥

哦,莲花眼者,请你从这里对心怀忿恨的兄弟苏yodhana说出为和平所应说的话;哦,摧毁敌人者。

5.82.4

त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् ।
हितं नादास्यते बालो दिष्टस्य वशमेष्यति ॥ ५.८२.४ ॥

即便你说出与法和利相合、吉祥、有益而有利的话,愚昧的少年也不会接受,他终将落入命运的掌控。

5.82.5

धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् ।
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ॥ ५.८२.५ ॥

怀着那合乎法、对我们有益、对俱卢人也有利的愿望,我将前往国王持国那里。

5.82.6

ततो व्यपेते तमसि सूर्ये विमल उद्गते ।
मैत्रे मुहूर्ते संप्राप्ते मद्वर्चिषि दिवाकरे ॥ ५.८२.६ ॥

那时,黑暗已经散去,清明的太阳升起,吉祥的弥多罗时刻已经到来,光辉的日神升起之时。

5.82.7

कौमुदे मासि रेवत्यां शरदन्ते हिमागमे ।
स्फीतसस्यसुखे काले कल्यः सत्ववतां वरः ॥ ५.८२.७ ॥

在求穆陀月,罗钵提星宿之下,秋末霜降之时,庄稼丰盛、时节喜乐,众强者中最优秀者吉祥安康。

5.82.8

मङ्गल्याः पुण्यनिर्घोषा वाचः श्रृण्वंश्च सूनृताः ।
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ॥ ५.८२.८ ॥

聆听吉祥而有功德之音、真实而悦耳的言语,如因陀罗聆听著名婆罗门与仙人的言语。

5.82.9

कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः ।
उपतस्थे विवस्वन्तं पावकं च जनार्दनः ॥ ५.८२.९ ॥

完成午前之职,沐浴洁净,庄严装饰,遍那(黑天)礼敬太阳与火。

5.82.10

ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च ।
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ॥ ५.८२.१० ॥

抚摸公牛的背部,向婆罗门致敬,右绕火堆,目视前方吉祥之兆。

5.82.11

तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः ।
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ॥ ५.८२.११ ॥

遍那答应了般度之子的请求,便向坐着的、希尼之孙萨蒂亚吉说话。

5.82.12

रथ आरोप्यतां शङ्खश्चक्रं च गदया सह ।
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ॥ ५.८२.१२ ॥

请把海螺与法轮连同钩棒装上战车,还有箭袋、长矛和一切兵器。

5.82.13

दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ॥ ५.८२.१३ ॥

心存邪恶的难敌,以及与沙卢尼同行的迦尔纳;即使敌人弱小,强者也不可轻视他。

5.82.14

ततस्तन्मतमाज्ञाय केशवस्य पुनःसराः ।
प्रसस्त्नुर्योजयिष्यन्तो रथं चक्रगदाभृतः ॥ ५.८२.१४ ॥

于是他们领会了克什沙瓦的意见,手持轮盘与铁杵者上前去套车。

5.82.15

तं दीप्तमिव कालाग्निमाकाशगमिवाशुगम् ।
सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम् ॥ ५.८२.१५ ॥

它如同燃烧的时间之火,又如同在天空中疾行之物,以如日月般光明的两轮装饰。

5.82.16

अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः ।
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ॥ ५.८२.१६ ॥

以半月、月亮、鱼、鹿与鸟、各色花朵,以及宝石珠玉,处处绚丽多彩。

5.82.17

तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् ।
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ॥ ५.८२.१७ ॥

如初升之日,宏大而美观,车身以宝石与黄金装饰得五彩斑斓,有精美的旗帜与华丽的幡旗。

5.82.18

सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् ।
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ॥ ५.८२.१८ ॥

装备精良而不可攻破,以虎皮护卫,能摧毁敌人的名声,增加大族人的欢乐。

5.82.19

वाजिभिः शैब्यसुग्रीवमेधपुष्पबलाहकैः ।
स्नातैः संपादयामासुः संपन्नैः सर्वसंपदा ॥ ५.८२.१९ ॥

他们为马匹沐浴,并以一切华饰装备好,备好了名为Śaibya、Sugrīva、Meghapuṣpa和Balāhaka的马。

5.82.20

महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् ।
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ॥ ५.८२.२० ॥

为了更加彰显克里希那的威严,苏高沙战车插上了飞鸟之王迦卢荼的旗帜。

5.82.21

तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् ।
आरुरोह रथं सौरिर्विमानमिव कामगम् ॥ ५.८२.२१ ॥

舜罗之子登上那辆如须弥山峰、声如云雷与战鼓的战车,如同登上随意而行的天界宫车。

5.82.22

ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः ।
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ॥ ५.८२.२२ ॥

最上人便载上萨提亚基出发,以战车的轰鸣震动大地与天空。

5.82.23

व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत ।
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ॥ ५.८२.२३ ॥

于是乌云散去,片刻之间天气转好;吉祥的风从背后吹来,尘土也平息了。

5.82.24

प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः ।
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ॥ ५.८२.२४ ॥

婆苏提婆出发时,向右回旋、吉祥顺利的鹿与鸟儿都跟随着他。

5.82.25

मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः ।
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ॥ ५.८२.२५ ॥

журавли、百羽鸟和天鹅以带来吉祥之意的鸣声,从四面八方跟随摩图苏登那。

5.82.26

मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः ।
प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ॥ ५.८२.२६ ॥

以咒语供奉的大祭品燃烧的圣火,火焰右旋,变得无烟。

5.82.27

वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः ।
शुकनारदवाल्मीका मरुत्तः कुशिको भृगुः ॥ ५.८२.२७ ॥

婆私吒、婆摩提婆、布利迪于摩那、伽耶、克拉陀、苏迦、那罗陀、跋弥基、摩如多、俱始迦与婆利古。

5.82.28

देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम् ।
प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ॥ ५.८२.२८ ॥

诸天与梵仙一同向右绕行,环绕给予雅度族快乐的克里希那,因陀罗的幼弟。

5.82.29

एवमेतैर्महाभागैर्महर्षिगणसाधुभिः ।
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ॥ ५.८२.२९ ॥

克里希那受到这些大福德、善良的众大仙的礼敬,便向俱卢族的住所出发。

5.82.30

देवताभ्यो नमस्कृत्य ब्राह्मणान्स्वस्ति वाच्य च ।
प्रययौ पुण्डरीकाक्षः सात्यकेन सहाच्युतः ॥ ५.८२.३० ॥

克里希那向诸神行礼,向婆罗门致祝福语,这位莲花眼的不坏者便与萨提亚基一同启程。

5.82.31

तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ॥ ५.८२.३१ ॥

贡蒂之子坚战跟随他离去;怖军与阿周那二人,以及玛德利的两个儿子般度五子也随行。

5.82.32

चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः ।
द्रुपदः काशिराजश्च शिखण्डी च महारथः ॥ ५.८२.३२ ॥

勇猛的遮企单那、遮底王持律王、德鲁波陀、迦尸王,以及大车将士始卡坦丁;

5.82.33

धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह ।
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ॥ ५.८२.३३ ॥

德利斯陀尤姆那与其子,以及毗罗吒与迦迦夜诸王子,武士们一同出发,为那位武士中的雄牛召集军队。

5.82.34

ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः ।
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ॥ ५.८२.३४ ॥

于是,法王坚战跟随戈文达,光辉耀目,在众王面前说出了这些话。

5.82.35

यो वै न कामान्न भयान्न लोभान्नार्थकारणात् ।
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ॥ ५.८२.३५ ॥

若人不因欲望、不因恐惧、不因贪婪、不为财利而随从不义,此人心志坚定,无所贪求。

5.82.36

धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः ।
ईश्वरः सर्वभूतानां देवदेवः सनातनः ॥ ५.८२.३६ ॥

克舍婆精通法义、坚忍而有智慧,遍在于一切众生之中;他是一切众生之主,诸神之神,永恒者。

5.82.37

तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम् ।
संरिष्वज्य कौन्तेयः सन्देष्टुमुपचक्रमे ॥ ५.८२.३७ ॥

拥抱了这位具备一切美德、带有室利瓦特萨标记的人之后,昆提之子开始说话。