摩诃婆罗多 · 章 5.83
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.83.1
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला ।
उपवासतपःशीला सदा स्वस्त्ययने रता ॥ ५.८३.१ ॥
那位从童年起便养育我们的柔弱女子,喜好斋戒苦行,总是投身于吉祥的祭仪之中。
5.83.2
देवतातिथिपूजासु गुरुशुश्रूषणे रता ।
वत्सला प्रियपुत्रा च माताऽस्माकं जनार्दन ॥ ५.८३.२ ॥
我们的母亲,致力于礼拜神明与宾客、侍奉尊长,慈爱而拥有心爱的儿子们,啊,遮那陀那!
5.83.3
सुयोधनभयाद्या नो त्रायतामित्रकर्शन ।
महतो मृत्युसंबाधुद्दुस्तरान्नौरिवार्णवात् ॥ ५.८३.३ ॥
啊,降伏敌人者!愿她救我们脱离苏约达那的恐惧和大死亡的困境,如同船只渡过难以逾越的大海。
5.83.4
अस्मत्कृते च सततं यया दुःखानि माधव ।
अनुभूतान्यदुःखार्हां तां स्म पृच्छेरनामयम् ॥ ५.८३.४ ॥
啊,摩陀婆!她为了我们而不断承受苦难,本不该受苦——你务必要问候她的平安。
5.83.5
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् ।
अभिवाद्य स्वजेथास्त्वं पाण्डवान्परिकीर्तयन् ॥ ५.८३.५ ॥
请好好安慰她,她为儿子的悲痛所淹没;向她行礼,并一边问候,一边提及般度诸子的名字。
5.83.6
ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम ।
निराकाराऽतदर्हा च पश्यन्ती दुःखमश्रुते ॥ ५.८३.६ ॥
啊,降伏敌人者!自出嫁之日起,她便因公公们而承受苦难;她本不应受此,却在目睹苦难之中继续承受苦痛。
5.83.7
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः ।
यदहं मातरं क्लिष्टां सुखं दद्यामरिन्दम ॥ ५.८३.७ ॥
克里希那啊,那逆转悲苦的时刻会否到来,使我能够给受苦的母亲带来幸福?敌人的制伏者啊!
5.83.8
प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम् ।
रुदतीमपहायैनामगच्छाम वयं वनम् ॥ ५.८३.८ ॥
我们出发流亡之时,那位对儿子满怀牵挂的可怜母亲追着我们奔跑。我们舍下哭泣的她,前往森林。
5.83.9
सा नूनं म्रियते दुःखैः सा चेज्जीवति केशव ।
तथा पुत्राधिभिर्गाढमार्तामर्चय सत्कृत ॥ ५.८३.९ ॥
克舍婆啊,她若还活着,必定正因悲苦而濒临死亡。因此,请以敬意礼敬这位因挂念儿子而深受煎熬的母亲。
5.83.10
अभिवाद्याऽथ सा कृष्ण त्वया मद्वचवाद्विभो ।
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोधिकाः ॥ ५.८३.१० ॥
克里希那啊,全能者啊,请依我的话,恭敬地向她致意;也请向俱卢族的持国王以及年长的诸王致意。
5.83.11
भीष्मं द्रोणं कृपं चैव महाराजं च वाह्लिकम् ।
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ॥ ५.८३.११ ॥
请分别向毗湿摩、德罗纳、克里巴、大王跋利迦、德罗纳之子、苏摩达多以及所有婆罗多人致意。
5.83.12
यथावयो यथास्थानं प्रपद्यस्व जनार्दन ।
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्।
अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन ॥ ५.८३.१२ ॥
克里希那啊,请按年龄与地位逐一亲近并敬重他们。摩图苏陀那啊,请以兄长之礼敬重维杜罗:他是大智者,是俱卢族的谋士,智慧深不可测,通晓要害之事。
5.83.13
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः ।
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ॥ ५.८३.१३ ॥
说罢,尤迪斯提拉在众王之中向羯沙words告别;得到允许后,他把克里希纳置于右侧绕行一周,然后返回。
5.83.14
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् ।
अब्रवीत्परवीरघ्रं दाशार्हमपराजितम् ॥ ५.८३.१४ ॥
正要离去时,毗跋蹉(阿周那)对他的朋友、人中雄牛、杀敌英雄、不可战胜的达沙尔诃(克里希纳)说道。
5.83.15
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये ।
अर्धराज्यस्य गोविद विदितं सर्वराजसु ॥ ५.८३.१५ ॥
啊,大能者,我们先前在议事中就半个王国所定下的约定,哥文达啊,已为所有国王所知。
5.83.16
तच्चेद्दद्यादखङ्गेन सत्कृत्यानवमत्य च ।
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ॥ ५.८३.१६ ॥
若他不动刀兵,以敬重而不轻慢的态度将其交出,那将使我欢喜,啊,大臂者,他们也将摆脱巨大的恐惧。
5.83.17
अतश्चेदन्यथाकर्ता धार्तराष्ट्रोऽनुपायवित् ।
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ॥ ५.८३.१७ ॥
因此,若持国之子不知正道而行事相反,那么,啊,阇那陀那,我必定会终结刹帝利们。
5.83.18
एवमुक्ते पाण्डवेन समहृष्यद्वृकोदरः ।
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ॥ ५.८३.१८ ॥
般度之子如此说罢,狼腹(阿周那之兄,即毗摩)大为欢喜;因愤怒所驱,他一再颤抖,般度之子也颤抖起来。
5.83.19
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रजन् ।
धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ॥ ५.८३.१९ ॥
昆提之子颤抖着大声喊叫,哦,国王。听到阿周那的话,他心中充满了极大的喜悦。
5.83.20
तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः ।
वाहनानि च सर्वामि शकृन्मूत्रे प्रमुस्रुवुः ॥ ५.८३.२० ॥
听到他的那声吼叫,弓箭手们剧烈颤抖,所有的坐骑都排出了粪便和尿液。
5.83.21
इत्युक्त्वा केशवं तत्र तथा चोह्वा विनिश्चयम् ।
अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ॥ ५.८३.२१ ॥
他这样对克沙瓦说了,并在那里考虑了决定,得到允许后,拥抱着阁那陀那返回了。
5.83.22
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः ।
तूर्णमभ्यगमद्धृष्टः शैब्यसुग्रीववाहनः ॥ ५.८३.२२ ॥
当所有国王都返回之后,以叉拔与须羯哩婆为坐骑的阁那陀那欢喜地迅速前行。
5.83.23
ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ॥ ५.८३.२३ ॥
被达鲁迦驱策的婆薮提婆的那些马,沿着道路前行,仿佛要吞没天空。
5.83.24
अथापश्यन्महाबाहुर्ऋषीनध्वनि केशवः ।
ब्राह्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ॥ ५.८३.२४ ॥
于是,臂力强大的克沙瓦看见路两旁站立的仙人,他们因婆罗门之光而辉耀。
5.83.25
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः ।
यथावृत्तानृषीन्सर्वानभ्यभाषत पूजयन् ॥ ५.८३.२५ ॥
他迅速下车,恭敬地向众仙人行礼,依照他们来时的样子,一一致敬并与他们交谈。
5.83.26
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः ।
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ।
पितृदेवातिथिभ्यश्च कच्चित्पूता स्वनुष्ठिताः ॥ ५.८३.२६ ॥
诸界是否安好?法是否得到良好的遵行?婆罗门的三种种姓是否安居于统治之下?对祖先、诸神和客人的清净祭祀是否都得到了妥善的举行?
5.83.27
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः ।
भगवन्तः क्व संसिद्धाः कोऽवधिर्भवतामिह ॥ ५.८३.२७ ॥
他向他们致以敬意后,摩图苏陀那说道:“诸位尊者,成就者们,你们从何处而来?你们在此的目的是什么?”
5.83.28
किं वा कार्यं भगवतामहं किं करवाणि यः ।
केनार्थेनोपप्तंप्राप्ता भगवन्तो महीतलम् ॥ ५.८३.२८ ॥
“诸位尊者,你们有何事务?我可以为你们做什么?你们因何目的降临到这大地之上?”
5.83.29
एवमुक्ताः केशवेन मुनयः शंसितव्रताः ।
नारदप्रमुखाः सर्वे प्रत्यनन्दन्त केशवम् ॥ ५.८३.२९ ॥
克舍婆如此发问之后,以那里的仙人为首、以那些誓愿受称赞的仙人们,皆回应并欢迎了克舍婆。
5.83.30
अधश्शिराः सर्पमाली महर्षिः स हि देवलः ।
अर्वावसुः सुजानुश्च मैत्रेयः शुनको बली ॥ ५.८३.३० ॥
面朝下的仙人、颈挂蛇鬘的大仙德瓦拉,阿尔瓦婆苏、苏遮努、弥醯丽耶,以及强健的首那伽。
5.83.31
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनस्तथा ।
आपोदधौम्यो धौम्यश्च आणिमाण्डव्यकौशिकौ ॥ ५.८३.३१ ॥
巴伽、达尔毗耶、粗头,同样还有黑岛(克里希那·二宫),阿波陀温耶与陀温耶,阿尼曼陀婆耶与憍尸迦。
5.83.32
दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः ।
मौञ्जायनो वायुभक्षः पाराशर्योऽथ शालिकः ॥ ५.८३.३२ ॥
缚带头巾者、三时浴者、食叶者、瓮膝者、芒佉衍那、食风者、波罗奢罗耶与沙利迦。
5.83.33
शीलवानशनिर्धाता शून्यपालोऽकृतव्रणः ।
श्वेतकेतुः कहोलश्च रामश्चैव महातपाः ॥ ५.८३.३३ ॥
持戒者、霹雳、创造者、空守、无伤者、白耳、羯贺罗,以及大苦行者罗摩。
5.83.34
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम् ।
परिष्वज्य च गोविन्दं सुरासुरपतेः सखा ॥ ५.८३.३४ ॥
与诸天阿修罗之主(因陀罗)为友的耶摩陀耶尼走近,拥抱了摩图苏陀那(毗湿奴/黑天)俱宾陀,对他说:
5.83.35
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः ।
राजर्षयश्च दाशार्ह मानयन्ति तपस्विनः ॥ ५.८३.३५ ॥
达萨尔哈啊,天界仙人、行善的婆罗门、博学者、王仙与苦行者都尊重你。
5.83.36
दैवासुरस्य द्रुष्टारः पुराणस्य महामते ।
समेत पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः।
सभासदश्च राजानस्त्वां च सत्यं जनार्दनम् ॥ ५.८३.३६ ॥
大智者啊,天神与阿修罗之战的古老见证者,从四方聚集的刹帝利王者、议会成员与诸王都想见你;你是真实的生主(黑天)。
5.83.37
एतन्महत्प्रेक्षणीयं द्रुष्टुमिच्छाम केशव ॥ ५.८३.३७ ॥
克舍婆啊,我们想要看这盛大而值得一观的景象。
5.83.38
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव ।
त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप ॥ ५.८३.३८ ॥
摩陀婆啊,我们希望听到你在库鲁人之中、在众王之中所说的、与法和利相关的言语,哦,敌人的焚烧者。
5.83.39
सभायां मधुरा वाचः शुश्रूषन्तस्त्वयेरिताः ।
कुरूणां प्रतिवाचश्च श्रोतुमिच्छाम माधव ॥ ५.८३.३९ ॥
我们渴望听到你在集会上说的甜美言语以及库鲁人的回应,摩陀婆啊,我们想要听闻。
5.83.40
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः ।
त्वं च यादवशार्दूल सभायां वै समेष्यथ ॥ ५.८३.४० ॥
毗湿摩、德罗纳等人,以及大智慧的维杜罗,还有你,雅达瓦中的猛虎,都将在集会上相会。
5.83.41
तव वाक्यानि दिव्यानि तथा तेषां च माधव ।
श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च।
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् ॥ ५.८३.४१ ॥
我们想听你和他们那神圣、真实而有益的言语,摩陀婆啊,哦,哥温陀。你已被问及,哦,大臂者;我们将再次见到你。
5.83.42
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् ।
आसीनमासने दिव्ये बलतेजःसमाहितम् ॥ ५.८३.४२ ॥
去吧,英雄,不受阻碍;我们将看到你来到集会,坐在神圣的座位上,具备力量与光辉。
5.83.43
प्रयान्तं देवकीपुत्रं परवीररुजो दश ।
महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥ ५.८३.४३ ॥
十位大车战士,是敌方英雄的折磨者,手持兵器,跟随着正在离去的提婆吉之子、大臂者。
5.83.44
पदातीनां सहस्रं च सादिनां च परन्तप ।
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोपरे ॥ ५.८३.४४ ॥
噢,敌人的焚灭者,国王啊,一千名步兵和骑兵,丰盛的食物,以及成百的其他侍从也一同前往。