Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.84

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.84.1

कथं प्रयातो दाशार्हो महात्मा मधुसूदनः ।
कानि वा व्रजतस्तस्य निमित्तानि महौजसः ॥ ५.८४.१ ॥

伟大的达莎尔诃·摩图苏登那如何启程?那位大力者出发时有哪些征兆?

5.84.2

तस्य प्रयाणे यान्यसन्निमित्तानि महात्मनः ।
तानि मे श्रृणु सर्वाणि दैवान्यौत्पातिकानि च ॥ ५.८४.२ ॥

现在听我讲述那位伟大者出发时所有的征兆,有神圣的,也有凶兆的。

5.84.3

अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत ।
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ॥ ५.८४.३ ॥

没有云朵,却响起雷鸣并伴有闪电;随后,浓密的雨云大雨倾盆。

5.84.4

प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः ।
विपरिता दिशः सर्वा न प्राज्ञायत किंचन ॥ ५.८४.४ ॥

以信度河为第七的大河,转身朝东倒流;所有方向都颠倒了,什么也分辨不出。

5.84.5

प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत ।
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ॥ ५.८४.५ ॥

国王啊,火焰熊熊燃起,大地全然震动;井水与水罐接连数百次溢出清水。

5.84.6

तमःसंवृतमप्यासीत्सर्वं जगदिदं तथा ।
न दिशो नादिशो राजन्प्रज्ञायन्तेस्म रेणुना ॥ ५.८४.६ ॥

整个世界也笼罩在黑暗之中;国王啊,因为尘土,方向与次方向都无法辨认。

5.84.7

प्रादुरासीन्महाञ्छब्दः खेशरीरमदृश्यत ।
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ॥ ५.८४.७ ॥

大声骤起,天空中显现一个身形。国王啊,在所有地方,此事皆如奇迹一般。

5.84.8

प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः ।
आरुजन्गणशो वृक्षान्परुषोऽशनिनिःस्वनः ॥ ५.८४.८ ॥

西南方吹来一阵猛烈的风,撼动了哈斯蒂纳普拉,以雷鸣般的声音成群折断树木。

5.84.9

यत्रयत्र च वार्ष्णेयो वर्तते पथि भारत ।
तत्रतत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ॥ ५.८४.९ ॥

婆罗多啊,凡是韦利氏的后裔行于路上之处,微风便和煦宜人,一切都向右旋转。

5.84.10

ववर्ष पुष्पवर्षं च कमलानि च भूरिशः ।
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ॥ ५.८४.१० ॥

花雨纷纷而下,又有大量莲花降落。道路平坦无忧,拔除了古莎草与荆棘。

5.84.11

संस्तुतो ब्राह्मणैर्गीर्भिस्तत्रतत्र सहस्रशः ।
अर्च्यते मधुपर्कैश्च वसुभिश्च वसुप्रदः ॥ ५.८४.११ ॥

婆罗门们以言辞赞颂他,处处成千上万次;他以蜜糖祭品和财物受到礼敬,他正是施予财富者。

5.84.12

तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः ।
स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ॥ ५.८४.१२ ॥

那位心胸宽广、乐于利益一切众生的人,路上聚集的妇女向他撒下芬芳的野花。

5.84.13

स शालिभवनं रम्यं सर्वसस्यसमाचितम् ।
सुख परमधर्मिष्ठमभ्यगाद्भरतर्षभ ॥ ५.८४.१३ ॥

他欢欣地来到那片宜人的地方,那里稻仓林立,百谷丰登,最富于法,婆罗多族的雄牛啊。

5.84.14

पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोपणान् ।
पुराणि च व्यतिकामन्राष्ट्राणि विविधानि च ॥ ५.८४.१४ ॥

望见许多牛羊兴旺、令人心悦的美丽村落,经过城市与各种王国。

5.84.15

नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः ।
नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः ॥ ५.८४.१५ ॥

他们常怀喜悦、心意欢畅,受婆罗多人良好守护,不为敌军所扰,亦不熟悉灾祸。

5.84.16

उपप्लाव्यादथागम्य जनाः पुरनिवासिनः ।
यथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ॥ ५.८४.१६ ॥

于是从优帕拉婆亚而来的城中居民,因渴望见到毗湿伐娑那,聚集站立在一起。

5.84.17

ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् ।
अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम् ॥ ५.८४.१७ ॥

他们全都敬奉这位正走来的主宰,他如燃烧的火焰般光明,值得敬重,作为本地的贵客到来。

5.84.18

वृकस्थलं समासाद्य केशवः परवीरहा ।
प्रकीर्णरश्मावादित्ये व्योम्नि वै लोहितायति ॥ ५.८४.१८ ॥

毗湿伐娑那的敌人英雄的杀者,克沙瓦到达伐里迦斯陀罗时,太阳光芒四散,天空渐渐泛红。

5.84.19

ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः ।
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे वयम् ॥ ५.८४.१९ ॥

于是摩图苏陀那对所有随从说:

5.84.20

तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः ।
क्षणेन चान्नपानानि ररावन्ति समार्जयन् ॥ ५.८४.२० ॥

众人知其所愿,立即搭起营帐,片刻之间便备齐了饮食。

5.84.21

अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि ।
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥ ५.८४.२१ ॥

他迅速下车,依礼洁净身体,吩咐卸下车驾,便坐下行黄昏的敬拜。

5.84.22

दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः ।
मुमोच सर्वं योक्तादि मुक्त्वा चैतानवासृजत् ॥ ५.८४.२२ ॥

达鲁卡也解开马匹,依经典加以照料,卸下全部轭具等物,将它们放开。

5.84.23

तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप ।
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ॥ ५.८४.२३ ॥

君王啊,那村里有些德高望重的婆罗门:高贵、出身良好、知羞耻,奉行婆罗门的生活方式。

5.84.24

तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम् ।
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ॥ ५.८४.२४ ॥

他们走近大德、降伏敌人的希瑞凯沙,依礼以祝福和吉祥之语向他致敬。

5.84.25

ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् ।
न्यवेदयन्त वेश्मानि गुणवन्ति महात्मने ॥ ५.८४.२५ ॥

他们礼敬在一切世界中都受尊崇的达沙尔哈,将精美的居所献给这位大德。

5.84.26

तान्प्रभुः कृतमित्युक्ता सत्कृत्य च यथार्हतः ।
अभ्येत्य चैषां वेश्मानि पुनरायात्सहैव तैः ॥ ५.८४.२६ ॥

主人说“事已办妥”,并按其所应得而礼遇他们,随后前往他们的住所,并与他们一同返回。

5.84.27

सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः ।
भुक्ता च सह तैः सर्वैरवसत्तां क्षपां सुखम् ॥ ५.८४.२७ ॥

在那里,羯舍婆让婆罗门们享用了精心准备的膳食,随后与他们所有人一同用餐,并在那夜欢然留宿于此。