Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.90

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.90.1

अथोपगम्य विदुरमपराह्णे जनार्दनः ।
पितृष्वसारं स पृथामभ्यगच्छदरिन्दमः ॥ ५.९०.१ ॥

午后,降敌者 Janārdana 来到毗杜罗身边,随后前往他父亲的姐妹 Pṛthā 处。

5.90.2

सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् ।
कण्ठे गृहीत्वा प्राक्रोशत्स्मरन्ती तनयान्पृथा ॥ ५.९०.२ ॥

看到如晴日般光辉的 Kṛṣṇa 走来,Pṛthā 抱住他的脖子,想起自己的儿子们,放声哭泣。

5.90.3

तेषां सत्ववतां मध्ये गोविन्दं सहचारिणम् ।
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्मृथा ॥ ५.९०.३ ॥

在那些坚毅的人中间,Pṛthā 久别重逢,见到她的伴侣、Vṛṣṇi 的后裔 Govinda,不禁落泪。

5.90.4

साऽब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् ।
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ॥ ५.९०.४ ॥

她对已受款待而端坐的诸勇士之主 Kṛṣṇa 说话,声音哽咽,口干舌燥。

5.90.5

एते बाल्यान्प्रभृत्येव गुरुशुश्रूषणे रताः ।
परस्परस्य सुहृदः संमताः समचेतसः।
निकृत्या भ्रंशिता राज्याञ्जनार्हा निर्जनं गताः ॥ ५.९०.५ ॥

他们自幼便致力于侍奉长者,彼此为友,受人敬重,心志平和。被诡计夺去王国后,虽配得上民众的尊敬,却还是前往了荒凉之地。

5.90.6

विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ।
त्यक्त्वा प्रियमुखे पार्था रुदतीमपहाय माम् ॥ ५.९०.६ ॥

Pṛthā 的诸子,能自制愤怒与喜悦,敬重婆罗门,说话诚实——哦,面容可爱的人啊!——他们抛下哭泣的我而去。

5.90.7

अहार्षुश्च वनं यान्तः समूलं हृदयं मम ।
अतदर्हा महात्मानः कथं केशव पाण्डवाः ॥ ५.९०.७ ॥

他们前往森林时,连根夺走了我的心。啊,克沙瓦,伟大的般度之子怎配承受这一切?

5.90.8

ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ।
बाला विहीनाः पित्रा ते मया सततलालिताः ॥ ५.९०.८ ॥

亲爱的,在那充满狮子、老虎和大象的大森林中,他们住了下来——那些失去父亲的孩子,我一向疼爱有加。

5.90.9

अपश्यन्तश्च पितरौ कथमुषूर्महावने ।
शङ्खदुन्दुभिनिर्घोषैर्भृदङ्गैर्वेणुनिस्वनैः ॥ ५.९०.९ ॥

不见父母,他们如何在那大森林中生活?那里没有海螺与鼓声,也没有摩noisy笛声的悦耳之音。

5.90.10

पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ।
ये स्म वारणशब्देन हयानां हेषितेन च ॥ ५.९०.१० ॥

啊,克沙瓦,般度之子自幼便被象的吼叫与马的嘶鸣唤醒。

5.90.11

रथेनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे ।
शङ्खभेरीनिनादेन वेणुवीणानुनादिना ॥ ५.९०.११ ॥

那时在宫中,他们被战车车轮的轰鸣、海螺与大鼓的喧响,以及笛与琵琶的回响唤醒。

5.90.12

पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ।
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः ॥ ५.९०.१२ ॥

与吉祥的“puṇyāha”颂声交织,受到再生者的尊敬,同时以衣物、珠宝和饰品供养再生者。

5.90.13

गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ।
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः ॥ ५.९०.१३ ॥

伟大的婆罗门以吉祥之言称颂,值得礼敬者以赞美之辞使他们欢欣。

5.90.14

प्रासादाग्नेष्वबोध्यन्त राङ्खवाजिनशायिनः ।
क्रूरं च निनदं श्रुत्वा श्वापदानां महावने ॥ ५.९०.१४ ॥

在宫殿火旁,卧于毛毯与鹿皮之上的人们惊醒了,听到大森林中野兽凶猛的吼叫。

5.90.15

न स्मोपयान्ति निद्रां ते नतदर्हा जनार्दन ।
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ॥ ५.९०.१५ ॥

哦,Janārdana,他们并不入睡,因为他们不配如此;在鼓与摩陀罗鼓的声响中,在海螺与笛子的鸣响中。

5.90.16

स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ।
वन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् ॥ ५.९०.१६ ॥

哦,Madhusūdana,他们是怎样被女子的甜美歌声,以及颂扬他们的歌人、赞者与御者唤醒的呢?

5.90.17

महावनेष्वबोध्यन्त श्वापदानां रुतेन च ।
ह्रीमात्सत्यधृतिर्दान्तो भूतानामनुकम्पिता ॥ ५.९०.१७ ॥

在大森林中,他们被野兽的吼叫惊醒:谦逊、坚守真实与决心、自制、怜悯众生。

5.90.18

कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ।
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च ॥ ५.९०.१८ ॥

他制伏欲望与憎恨,遵行善人之道,如安巴利沙、曼陀多、耶耶提与那呼沙那样。

5.90.19

भरतस्य दिलीपस्य शिबेरौशीनरस्य च ।
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् ॥ ५.९०.१९ ॥

他承担着古代王仙们难以承受的重担:婆罗多、迪利波、诗毗以及乌系那罗之子。

5.90.20

शीलवृत्तोपसंपन्नोः धर्मज्ञः सत्यसङ्गरः ।
राजा सर्वगुणोपेतस्त्रौलोक्यस्यापि यो भवेत् ॥ ५.९०.२० ॥

具备良好品行与德性、知晓法度、信守真诚誓言、拥有一切美德的国王,甚至可以成为三界之主。

5.90.21

अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ।
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः ।
प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥ ५.९०.२१ ॥

无敌者,心性正法,光辉如纯金,在法、学问与德行上为诸俱卢之最,相貌可爱,手臂修长——克利希那啊,坚战究竟如何?

5.90.22

यः स नागायुतप्राणो वातरंहा महाबलः ।
सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः ॥ ५.९०.२२ ॥

他的生命力如同万头大象,疾如风,大力,满怀愤怒——那位般度之子始终是兄长所爱,也常为兄长行悦意之事。

5.90.23

कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन ।
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ॥ ५.९०.२३ ॥

杀死迦婆那族人者,摩陀婆啊,那位英雄也杀死了暴怒的希丁跋与跋迦。

5.90.24

पराक्रमे शक्रसमो मातरिश्वसमो बले ।
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ॥ ५.९०.२४ ॥

勇猛如因陀罗,力量如风神,愤怒如大自在天——毗摩是诸战士中最杰出者。

5.90.25

क्रोधं बलममर्षं च यो निधाय परंतपः ।
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ॥ ५.९०.२५ ॥

那位焚烧敌人的般度之子,压抑愤怒、力量与不忿,克制己心,虽不忿却仍听从兄长的号令。

5.90.26

तेजोराशिं महात्मानं वरिष्ठमभितौजसम् ।
भीमं प्रदर्शनेनापि भीमसेनं जनार्दन ॥ ५.९०.२६ ॥

哦,阇那陀那,那光辉之聚、大心、最优秀、威力超群的毗摩,即毗摩娑那,只需见其形貌便可认出。

5.90.27

तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ।
आस्ते परिघबाहुः स मध्यमः पाण्डवो बली ॥ ५.९०.२७ ॥

请告诉我,哦,婆利须尼的后裔,今日狼腹如何?那位中间的般度之子,有着如铁杵般手臂的强者,他如今怎样?

5.90.28

अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा ।
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ॥ ५.९०.२८ ॥

那与阿周那相争的阿周那正是此人。哦,克利须那,双臂者总与千臂者相争,哦,羯舍婆,甚至与已逝去者相争。

5.90.29

क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः ।
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ॥ ५.९०.२९ ॥

一次发动便射出五百支箭的人,在弓箭之术上与国王迦尔塔维里耶相当的般度之子。

5.90.30

तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे ।
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ॥ ५.९०.३० ॥

光辉如太阳,自制如大仙,忍耐如大地,勇力如摩亨陀罗。

5.90.31

आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन ।
आहृतं येन वीर्येण कुरूणां सर्वराजसु ॥ ५.९०.३१ ॥

摩图苏陀那啊,库鲁族凭借何等勇力,获得了对一切诸王的伟大、光辉而著名的至上王权。

5.90.32

यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते ।
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ॥ ५.९०.३२ ॥

诸般尊长者,一切般度子皆仰赖其臂力;彼乃诸车战士中之最上者,般度之子,勇力真实。

5.90.33

यं गत्वाऽभिमुखः सङ्ख्ये न जीवन्तश्चिदाव्रजेत् ।
यो जेता सर्वभूतानामजेयो जिष्णुरच्युत ॥ ५.९०.३३ ॥

与之阵前相对者,生者鲜能归返;彼胜一切众生,不可战胜,乃是胜者——阿求多啊。

5.90.34

योऽपाश्रयः पाण्डवानां देवानामिव वासवः ।
स ते भ्राता सखा चैव कथमद्य धनञ्जयः ॥ ५.९०.३४ ॥

彼为般度子的依靠,如因陀罗之于诸天——正是你的兄弟与朋友达那闍耶;如今他怎样了?

5.90.35

दयावान्सर्वभूतेषु ह्रीनिषेवो महास्रवित् ।
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे ॥ ५.९०.३५ ॥

悲悯一切众生,知惭而守谦,博通大典,温和柔顺,行法正直,为我所爱。

5.90.36

सहदेवो महेष्वासः शूरः समितिशोभनः ।
भ्रातृणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ॥ ५.९०.३६ ॥

偕提婆,大弓手,英勇,于集会与战阵中皆显光彩——克里希纳啊,他专心侍奉诸兄,精通法与利,乃是青年。

5.90.37

सदैव सहदेवस्य भ्रातरो मधुसूदन ।
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ॥ ५.९०.३७ ॥

摩图苏陀那啊,萨诃提婆的兄弟们始终尊敬那位品行善良的大德之人的德行。

5.90.38

ज्येष्ठोपचायिनं वीरं सहदेवं युधां पतिम् ।
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ॥ ५.९०.३८ ॥

请向我描述萨诃提婆——那侍奉长兄的英雄、诸战士之主、侍奉我的人,瓦尔什涅耶啊,摩德利之子。

5.90.39

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।
भ्रातॄणां चैव सर्वेषां प्रियः प्राणो बहिश्चरः ॥ ५.९०.३९ ॥

这位柔美、年轻、勇敢而可爱的般度之子,是所有兄弟的心头所爱,犹如他们体外流动的生命之气。

5.90.40

चित्रयोधी च नकुलो महेष्वासो महाबलः ।
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ॥ ५.९०.४० ॥

克里希那啊,身怀多种战技、大弓手、大力的那古拉是否安好?我那在安乐中长大的孩子?

5.90.41

सुखोचितमदुःखार्हं सुकुमारं महारथम् ।
अपि जातु महाबाहो पश्येयं नकुलं पुनः ॥ ५.९०.४१ ॥

那位配得安乐而不该受苦、柔美的大车将那古拉啊——大臂者,我还能再见到他吗?

5.90.42

पक्ष्मसंपातजे काले नकुलेन विनाकृता ।
न लभामि धृतिं वीर साऽद्य जीवामि पश्य माम् ॥ ५.९०.४२ ॥

没有那古拉,即便是眼睫一瞬的时间,我也不能得到安定。英雄啊,那时的我如今仍活着——请看看我吧。

5.90.43

सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन ।
कुलीना रूपसंपन्ना सर्वैः समुदिता गुणैः ॥ ५.९०.४३ ॥

世尊闍那陀那(Janārdana),德罗波蒂(Draupadī)对我而言比所有儿子都更亲爱。她出身高贵,容貌端庄,具备一切美德。

5.90.44

पुत्रलोकात्पतिलोकं वृण्वाना सत्यवादिनी ।
प्रियान्पुत्रान्परित्यज्य पाण्डवाननुरुध्यते ॥ ५.९०.४४ ॥

德罗波蒂选择夫君的世界而非儿子的世界,这位诚实的女子舍弃了心爱的儿子,追随般度五子。

5.90.45

महाभिजनसंपन्ना सर्वकामैः सुपूजिता ।
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ॥ ५.९०.४५ ॥

阿周那的主啊(Acyuta),德罗波蒂出身大族,诸般所愿皆受敬重,乃是女主,一切吉祥的源泉,怎会落到这般境地?

5.90.46

पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः ।
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ॥ ५.९०.४६ ॥

德罗波蒂与五位英勇的夫君结为一体,他们如烈火般炽烈,出手凌厉,又是大弓箭手的妻子,如今却成了苦难的分担者。

5.90.47

चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम ।
पुत्रादिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ॥ ५.९०.४७ ॥

降伏敌人者啊,这是第十四年,我没有见到诚实的德罗波蒂,她与儿子们等人一同憔悴消瘦。

5.90.48

न नूनं कर्मभिः पुण्यैरश्रुते पुरुषः सुखम् ।
द्रौपदी चेत्तथावृत्ता नाश्रुते सुखमव्ययम् ॥ ५.९०.४८ ॥

的确,人不会因善业而获得幸福;若德罗波蒂竟落得如此境地,那她便未得到不朽的幸福。

5.90.49

न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः ।
भीमसेनो यमौ वापि यदपश्यं सभागताम् ॥ ५.९०.४९ ॥

我看见克里希纳被带入大会时,无论是比毗婆咀(阿周那)、坚战、怖军,还是那对孪生兄弟,似乎都不是她所爱的人。

5.90.50

न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् ।
स्त्रीधर्मिणीं द्रौपदीं यच्छ्वशुराणां समीपगाम् ॥ ५.९०.५० ॥

从前没有任何事比这更让我痛苦:忠于妻子本分的德劳帕蒂被带到了公公们的身边。

5.90.51

आनायितामनार्येण क्रोधलोभानुवर्तिना ।
सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ॥ ५.९०.५१ ॥

她被那追随忿怒与贪婪的卑劣之人带来,身着一件衣裳进入大会,所有俱卢人都注视着她。

5.90.52

तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः ।
कृपश्च कसोमदत्तश्च निर्विष्णाः कुरवस्तथा ॥ ५.९०.५२ ॥

那里有持国王、大王、巴利迦、克里巴和索摩达多;俱卢人同样也都沮丧不已。

5.90.53

तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम् ।
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ॥ ५.९०.५३ ॥

在那次大会上,在所有人之中,我敬重刹帝(维杜罗);因为人是凭品行而成为高尚之人的,而不是凭财富,也不是凭学问。

5.90.54

तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः ।
क्षत्तुःक शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति ॥ ५.९०.५४ ॥

克里希纳啊!那位大智、深沉、高尚的刹帝(维杜罗)的品德便是他的装饰;他矗立着,支撑着诸世界。

5.90.55

सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् ।
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयम् ॥ ५.९०.५५ ॥

她既悲痛又欢喜,见到前来的戈文达,便把各种各样的苦难全都诉说了一遍。

5.90.56

पूर्वैराचरितं यत्तत्कुराजभिररिन्दम ।
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ॥ ५.९०.५६ ॥

降伏敌人者啊,先祖与库鲁诸王所行的掷骰赌博和猎鹿,或许曾给他们带来快乐。

5.90.57

तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ ।
धार्तराष्ट्रैः परिक्लिष्टा यथा न कुशलं तथा ॥ ५.९०.५७ ॥

使我痛苦的是,在库鲁诸人面前的集会上,黑天女(德劳帕蒂)被持国之子如此折磨,这并不好。

5.90.58

निर्वासनं च नगरात्प्रव्रज्या च परन्तप ।
नानाविधानां दुःखानामावासोऽस्मि जनार्दन ॥ ५.९०.५८ ॥

降伏敌人者啊,被逐出城市,流落他乡;杰那尔达那啊,我已成为种种苦难的居所。

5.90.59

अज्ञातचर्या बालानामवरोधश्च माधव ।
न मे क्लेशतमं तत्स्यात्पुत्रैः सह परन्तप ॥ ५.९०.५९ ॥

摩陀婆啊,隐姓埋名地生活,以及孩子们受到的拘束;降伏敌人者啊,与儿子们在一起,对我来说不会是最大的痛苦。

5.90.60

दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् ।
दुःखादपि सुखं नः स्याद्यदि पुण्यफलक्षयः ॥ ५.९०.६० ॥

我们被难敌欺骗,今天已是第十四年;若功德之果已尽,那么即便从痛苦中,我们也可能得到快乐。

5.90.61

न मे विशेपो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः ।
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् ।
अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह ॥ ५.९०.६१ ॥

我对般度之子与持国之子从无分别。以此真实,克里希那啊,我对你——摧毁敌人、光辉圆满者——说:愿我脱离此战,与般度之子们一同得见(他们)。

5.90.62

नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम् ।
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् ॥ ५.९०.६२ ॥

他们是无法战胜的,因为他们所拥有的一切都是这样的。但我要责备的是父亲本人,而不是我自己,也不是苏由陀那。

5.90.63

येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता ।
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तिकां ॥ ५.९०.६३ ॥

是父亲把正在玩球的我这个小女孩,像财物一样,仿佛出于命运的安排,交给了贡提菩阇。

5.90.64

अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने ।
साऽहं पित्रा च निकृता श्वशुरैश्च परन्तप।
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ॥ ५.९०.६४ ॥

朋友(舒罗色那)把他的朋友之女给了大德的贡提菩阇。我被父亲和公公们欺骗了,啊,焚烧敌人者。克里希那啊,我极为悲伤:我这一生的果报是什么?

5.90.65

यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः ।
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् । ॥ ५.९०.६५ ॥

夜里在萨维亚萨钦(阿周那)的产房中对我说话的那声音:“你的儿子将成为大地的征服者,他的名声将触及天空。”

5.90.66

हत्वा कुरून्महाजन्ये राज्यं प्राप्य धनञ्जयः ।
भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ॥ ५.९०.६६ ॥

在大杀戮中杀死俱卢人并得到王国后,贡提之子达那闍耶将与兄弟们一同举行三次祭祀。

5.90.67

नाहं तामभ्यसूयामि नमो धर्माय वेधसे ।
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ॥ ५.९०.६७ ॥

我不责怪她。敬礼法与创造者。永远敬礼伟大的黑天,因为法维持众生。

5.90.68

धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत ।
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ॥ ५.९०.६८ ॥

瓦尔什尼之裔啊,若有法,如所言之语,那么黑天啊,你也会将一切成就。

5.90.69

न मां माधव वैधव्यं नार्थनाशो न वैरिता ।
तथा शोकाय दहति यथा पुत्रैर्विना भवः ॥ ५.९०.६९ ॥

啊,摩陀婆,寡居、财富的损失、敌意都不如没有儿子的生活那样焚烧我、使我悲伤。

5.90.70

याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् ।
धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे।
इतश्चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् ॥ ५.९०.७० ॥

当我见不到持甘狄拔弓、诸持械者中最优秀的达那闍耶时,我的心哪里还有安宁?自这第十四年起,我未曾见到坚战。

5.90.71

धनञ्जयं च गोविन्द यमौ तं च वृकोदरम् ।
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः ॥ ५.९०.७१ ॥

哥文达啊,达那闍耶、那对双生子,以及那狼腹(怖军)——人们为他们举行丧礼,仿佛他们的生命已经失去。

5.90.72

अर्थतस्ते मम मृतास्तेषां चाहं जनार्दना ।
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् ॥ ५.९०.७२ ॥

嗟乎,生者,他们对我而言确已死去,我对他们亦然。摩陀婆啊,请告诉正法之心的国王坚战。

5.90.73

भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ।
पराश्रया वासुदेव या जीवति घिगस्तु ताम् ॥ ५.९०.७३ ॥

你的法大大减损;我儿,不要徒劳行事。瓦苏提婆啊,依赖他人而活的人,当受唾弃。

5.90.74

वृत्तेः कार्पण्यलब्धाया अप्रतिष्ठैव ज्यायसी ।
अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम् ॥ ५.९०.७४ ॥

因怯懦所得之行为而蒙受的耻辱,确实更为沉重。随后请告诉财主(阿周那)以及常常准备好的狼腹(怖军)。

5.90.75

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ।
अस्मिंश्चेदागते काले मिथ्या चातिक्रमिष्यति ॥ ५.९०.७५ ॥

刹帝利所生之所为,其时今已至。若此时既至而徒然过去……

5.90.76

लोकसंभाविताः संतः सुनृशंसं करिष्यथ ।
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः ॥ ५.९०.७६ ॥

诸位为世所尊敬的善人,你们将行极残忍之事。与残忍相连的你们,我将弃绝你们永世之久。

5.90.77

काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् ।
माद्रीपुत्रौ च व्यक्तव्यौ क्षत्रधर्मरतौ सदा ॥ ५.९०.७७ ॥

时机既至,即使生命也当舍弃。那些常乐于刹帝利法的摩德利两子,也当显现出来。

5.90.78

विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ।
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ॥ ५.९०.७८ ॥

宁可选择以勇力所得的享受,甚至胜过生命;以勇力获得的财富,属于依刹帝利之法而生活的人。

5.90.79

मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ।
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ॥ ५.९०.७९ ॥

人心常以此为乐,人中之最尊者啊。大臂者,去告诉所有持武器者中的最优者吧。

5.90.80

अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर ।
विदितौ हि तवात्यन्तं क्रुद्धौ तौ तु यथान्तकौ ॥ ५.९०.८० ॥

去见英雄般坚的般度之子阿周那,追随德罗波蒂的道路吧。你很清楚,那两人一旦愤怒,便如同死神一般。

5.90.81

भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ।
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता ॥ ५.९०.८१ ॥

婆摩与阿周那甚至能使诸神抵达至高之境。而对他们的轻蔑,正是克里希那被带入议会。

5.90.82

दुःशासतश्च कर्णश्च परुषाण्यभ्यभाषताम् ।
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् ॥ ५.९०.८२ ॥

难降与迦尔纳说了苛刻的话,难敌走近了心志高昂的婆罗贤那(婆摩)。

5.90.83

पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् ।
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः ॥ ५.९०.८३ ॥

在诸位库卢首领注视之下,他将看到自己所作之果。一旦结下仇怨,狼腹(婆摩)便不会平息。

5.90.84

सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति ।
यावदन्तं न नयति शात्रवाञ्चत्रुकर्शनः ॥ ५.९०.८४ ॥

即使经过很长时间,毗摩的仇恨也不会平息,直到他使敌人走向终结——那位征服敌人的人。

5.90.85

न दुःखं राज्यहरणं न च द्यूते पराजयः ।
प्रव्राजनं तु पुत्राणां न मे तद्दुःखकारणम् ॥ ५.९०.८५ ॥

失去王国并非痛苦,骰子游戏中的失败也不是;但儿子们的流放并不是我那份痛苦的原因。

5.90.86

यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता ।
अशृणोत्परुषा वाचः किं नु दुःखतरं ततः ॥ ५.९०.८६ ॥

然而那位丰满的黑皮肤女子,身着单薄衣裳走进议会,听到了粗暴的言语——还有什么比这更痛苦的呢?

5.90.87

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा ।
नाभ्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥ ५.९०.८७ ॥

那位遵守妇道、身材美好、始终奉行刹帝利之法的女子——黑天女虽有夫主,那时却没有去投靠她的夫主,她是贞节的妻子。

5.90.88

यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन ।
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ॥ ५.९०.८८ ॥

您是我及我的儿子们的依怙,哦,摩豆苏陀那;还有最强者中最优秀的罗摩,以及大车战士普罗延娜。

5.90.89

साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम ।
भीमे जीवति दुर्धर्षे विजये चापलायिनि ॥ ५.९०.८९ ॥

哦,人中最上者,只要不可战胜的毗摩还活着,从不逃避的胜利者也在,我便能忍受这样的痛苦。

5.90.90

तत आश्वासयामास पुत्राधिभिरभिप्लुताम् ।
पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ॥ ५.९०.९० ॥

于是,般度之子的朋友舍利(克里希那)安慰了为儿子们忧虑、悲伤不已的姑母普利塔。

5.90.91

का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः ।
शूरस्य राज्ञो दुहिता आजमीढकुलं गता ॥ ५.९०.९१ ॥

姑母,世间有谁是像您这样的贤淑女子?您是舜罗王的女儿,嫁入了阿迦弥荼家族。

5.90.92

महाकुलीना भवती ह्रदाद्ध्रदमिवागता ।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥ ५.९०.९२ ॥

您出身高贵的家族,嫁入新家如同从一湖游到另一湖。您是一切吉祥的主母,深受夫君尊敬。

5.90.93

वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः ।
मुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ॥ ५.९०.९३ ॥

您是英雄之母,英雄之妻,具备一切美德。大智慧的人啊,像您这样的女子才配承受苦乐。

5.90.94

निद्रातन्द्रे क्रोधहर्षौ क्षुत्पिपासे हिमातपौ ।
एतानि पार्था निर्जित्य नित्यं वीरसुखे रताः ॥ ५.९०.९४ ॥

般度之子们战胜了睡眠与懈怠、愤怒与喜悦、饥饿与干渴、寒冷与炎热,始终乐于英雄的快乐。

5.90.95

त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः ।
न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ॥ ५.९०.९५ ॥

般度之子们舍弃了世俗的享乐,始终热爱英雄的快乐,不会满足于少许;他们精力旺盛,力量强大。

5.90.96

अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः ।
उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् ॥ ५.९०.९६ ॥

坚毅者取极端,喜好乡间安逸者取中道;他们承受至高的艰难,也享受最合人性的享乐。

5.90.97

अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः ॥ ५.९०.९७ ॥

坚毅者在两端中欢喜,不在中间欢喜。他们说,到达终点即是快乐,两端之间的距离即是痛苦。

5.90.98

अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया ।
आत्मानं ते कुशलिनं निवेद्याहुरनामयम् ॥ ५.९०.९८ ॥

般度五子与黑天女一同向您恭敬致礼;他们告知自己平安,并说自己无病无恙。

5.90.99

अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् ।
ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ॥ ५.९०.९९ ॥

您很快就会见到般度五子——无病无恙,诸事圆满,是一切世界的主宰,敌人已被消灭,被吉祥所环绕。

5.90.100

एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् ।
पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ॥ ५.९०.१०० ॥

如此得到安慰的贡蒂回答了生主(Janārdana);她被对儿子们的忧虑所压倒,压制住由无知所生的黑暗。

5.90.101

यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन ।
यथायथा त्वं मन्येथाः कुर्याः कृष्ण तथातथा ॥ ५.९०.१०१ ॥

凡对他们有益的,啊大臂者,杀摩图者(Madhusūdana);黑天,你如何认为,便如何去做。

5.90.102

अविलोपेन धर्मस्य अनिकृत्या परन्तप ।
प्रभावज्ञाऽस्मि ते कृष्ण सत्यस्याभिजनस्य च ॥ ५.९०.१०२ ॥

催敌者啊,克里希那,我不违背法,无欺诈,我知晓你的威力、真理与高贵的出身。

5.90.103

व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा ।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ॥ ५.९०.१०३ ॥

在朋友之间的裁决上,在智慧与勇力上,你就是我们家族的法,你就是真理,你就是伟大的苦行。

5.90.104

त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् ।
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ॥ ५.९०.१०४ ॥

你是守护者,你是伟大的梵,一切都安立于你。正如你所说,这一切在你身上将会成真。

5.90.105

कुरूणां पाण्डवानां च लोकानां चापराजित ।
सर्वस्यैतस्य वार्ष्णेय गतिस्त्वमसि माधव।
प्रभावो बुद्धिवीर्यं च तादृशं तव केशव ॥ ५.९०.१०५ ॥

无敌者啊,你是俱卢族、般度族以及一切世界的归宿,毗湿尼族的摩陀婆啊。克沙婆啊,你的威力、智慧与力量正是如此。

5.90.106

तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् ।
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति ॥ ५.९०.१०६ ॥

他向她告别,并将她置于右侧绕行致敬后,大臂的戈文达便向难敌的宫室出发了。