摩诃婆罗多 · 章 5.91
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.91.1
पृथामामन्त्र्य गोविन्दः कृत्वा चाभिप्रदक्षिणम् ।
दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः ॥ ५.९१.१ ॥
克哩陀(即黑天)向普利陀辞行并右绕致敬后,这位降伏敌人的戈文达前往难敌的府邸。
5.91.2
लक्ष्म्या परमया युक्तं पुरन्दरगृहोपमम् ।
विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः ॥ ५.९१.२ ॥
遮那陀那进入了那座极其华丽的府邸,它如同因陀罗(补兰陀罗)的宫殿,陈设着各式各样的座椅。
5.91.3
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ।
ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् ॥ ५.९१.३ ॥
他穿过三重庭院,未被守门人阻拦,于是来到那座高耸的殿堂,它如浓密的云团,又如高耸的山峰。
5.91.4
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ।
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् ॥ ५.९१.४ ॥
这位大名远扬者登上了那座光辉灿烂的宫殿,那里被成千上万的国王与俱卢族人所环绕。
5.91.5
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने ।
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् ॥ ५.९१.५ ॥
他在那里看到坐在座位上的、臂力强大的持国之子,还有难降、迦尔纳,以及苏跋罗之子沙恭尼。
5.91.6
दुर्योधनसमीपे तानासनस्थान्ददर्श सः ।
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः ॥ ५.९१.६ ॥
他看到他们都坐在难敌附近的座位上。当达沙尔哈(黑天)走近时,大名远扬的持国之子看见了他。
5.91.7
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् ।
समेत्य धार्तराष्ट्रेण महामात्येन केशवः ॥ ५.९१.७ ॥
他与大臣们一同起身,向摩图苏陀那致敬;与持国之子及大臣会面后,羯舍婆(接受了这份敬意)。
5.91.8
राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः ।
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् ॥ ५.९१.८ ॥
诸王依年长幼在那里与婆利须尼(黑天)相见;那里有一张黄金制成、装饰精美的床榻。
5.91.9
विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ।
तस्मिन्गां मधुपर्कं चाप्युदकं च जनार्दने ॥ ५.९१.९ ॥
无垢者(黑天)坐在那铺着各色坐褥的床榻上;然后为阇那陀那(黑天)献上了牛、蜜混合物和水。
5.91.10
निवेदयामास तदा गृहान्राज्यं च कौरवः ।
आसनं सर्वतोभद्रं सर्वरत्नविभूषितम् ॥ ५.९१.१० ॥
那时,俱卢(之子)将房屋和王国奉献(给黑天),又献上一座名为“萨尔瓦托跋陀罗”、以各种宝石装饰的座位。
5.91.11
कृष्णार्थमेवं संसिद्धं धार्तराष्ट्रस्य शासनात् ।
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् ॥ ५.९१.११ ॥
如此,为了黑天,依持国之子的命令一切已备妥;那里坐着哥文达,光辉如平和的太阳。
5.91.12
उपासाञ्चक्रिरे सर्वे कुरवो राजभिः सह ।
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् ॥ ५.९१.१२ ॥
诸王与所有俱卢人都来侍奉他。于是国王难敌对胜者中最优秀的婆利须尼……
5.91.13
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ।
ततो दुर्योधनः कृष्णमब्रवीत्कुरुसंसदि ॥ ५.९१.१३ ॥
他邀请迦舍婆用餐,但迦舍婆并不赞同。于是难敌在俱卢众的集会上对黑天说道。
5.91.14
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः ।
कस्मादन्नानि पापानि वासांसि शयनानि च ॥ ५.९१.१४ ॥
这位俱卢子先温和地称呼迦尔纳,然后说道:“这些有罪的食物、衣服和床榻,你为何不接受?”
5.91.15
त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन ।
उभयोश्च ददत्साह्यमुभयोश्च हिते रतः ॥ ५.९१.१५ ॥
“遮那陀那啊,为你准备的东西你却不接受,虽然你帮助双方,并且乐于促成双方的福祉——”
5.91.16
संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव ।
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः ।
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ॥ ५.९१.१६ ॥
“摩陀婆啊,你是持国的亲属,也是他所爱重的人。哥文陀啊,你完全真实地通晓法与利。持轮持杖者啊,我想听听其中的缘由。”
5.91.17
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः ।
उद्यन्मेघस्वनःक काले प्रगृह्य विपुलं भुजम् ॥ ५.९१.१७ ॥
被如此问及后,宏大心胸的哥文陀答话了。他的声音如同升起的雷云在轰鸣,他在适当的时候高高举起了他宽阔的手臂。
5.91.18
अलघूकृतमग्रस्तमनिरस्तमसंकुलम् ।
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ॥ ५.९१.१८ ॥
莲花眼者向国王说出了有理有据、殊胜的话语——朴实、有分量、不被摒弃、没有混乱。
5.91.19
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव ह ।
कृतर्थं मां सहामात्यं समर्चिष्यसि भारत ॥ ५.९१.१९ ॥
使命完成的使者用餐并接受尊崇。婆罗多之子啊,你将与我及大臣们一同受到款待。
5.91.20
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् ।
न युक्तं भवताऽस्मासु प्रतिपत्तुमसांप्तम् ॥ ५.९१.२० ॥
被如此说后,持国之子回答贾纳尔达纳说:你对我们这样做是不恰当的,不合适。
5.91.21
कृतार्थं वाऽकृतार्थं वा त्वां वयं मधुसूदन ।
यतामहे पूजयितुं दाशार्ह न च शक्नुमः ॥ ५.९१.२१ ॥
无论你的使命是否完成,摩图苏达纳啊,我们努力要尊敬你;达沙尔哈啊,但我们却做不到。
5.91.22
न च तत्कारणं विद्मो यस्मान्नो मधुसूदन ।
पूजां कृतां प्रीयमाणो नामंस्थाः पुरुषोत्तम ॥ ५.९१.२२ ॥
摩图苏达纳啊,我们也不知道原因,为何你虽然欢喜,却没有接受我们所奉上的敬意,最尊贵的人啊。
5.91.23
वैरं नो नास्ति भवता गोविन्द न च विग्रहः ।
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ॥ ५.९१.२३ ॥
哥文达啊,我们与你之间既无仇怨,也无争端。你既已仔细思量,就不该说这样的话。
5.91.24
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः ।
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ॥ ५.९१.२४ ॥
被如此说后,贾纳尔达纳回答持国之子。他望着他和大臣们,达沙尔哈的后裔仿佛笑着说道。
5.91.25
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् ।
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन ॥ ५.९१.२५ ॥
无论出于欲望、愤怒、憎恨、为财富、因辩论或贪婪,我绝不会舍弃法。
5.91.26
संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः ।
न च संप्रीयते राजन्न चैवापद्गता वयम् ॥ ५.९१.२६ ॥
无论是以喜悦而食的食物,还是在困厄中食用的食物——大王啊,您并不欢喜,我们也并未陷入困境。
5.91.27
द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् ।
पाण्डवान्द्विषसे राजन्मम प्राणा हि पाण्डवाः ॥ ५.९१.२७ ॥
不应食用仇敌的食物,也不应供养仇敌。大王啊,您憎恨般度之子,而般度之子正是我的生命之气。
5.91.28
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् ।
प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ॥ ५.९१.२८ ॥
大王啊,自出生以来您便无故憎恨般度之子——那些顺从您意、具备一切美德的兄弟们。
5.91.29
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते ।
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ॥ ५.९१.२९ ॥
无故憎恨普利塔之子是不恰当的。谁能说出与坚守法的般度之子相反的话呢?
5.91.30
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु समामनु ।
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ॥ ५.९१.३० ॥
憎恨他们的人便是憎恨我,追随他们的人便是追随我。须知我与奉行法的般度之子已合为一体。
5.91.31
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सति ।
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ॥ ५.९१.३१ ॥
若人因迷惑而随从欲望与愤怒,欲与之对抗,并憎恨有德之人,人们称之为人中最卑劣者。
5.91.32
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते ।
सोजितात्माऽजितक्रोधो न चिरं तिष्ठति श्रिया ॥ ५.९१.३२ ॥
若人因迷惑与贪婪,欲害具有吉祥德性的亲族,其自我未被制服、愤怒未被克服,则不会长久停留于繁荣之中。
5.91.33
अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि ।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ ५.९१.३३ ॥
若人以善意使具德之人顺服自己,即使他们不合其心意,则长久留于声名之中。
5.91.34
सर्वमेतन्न भोक्तव्यमन्नं दुष्टाभिसंहितम् ।
क्षुत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ॥ ५.९१.३४ ॥
凡以恶意备办的食物,皆不可食用;唯有一人饥渴所迫者方可食之——这是我的见解。
5.91.35
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् ।
निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ॥ ५.९१.३५ ॥
对不能忍耐的难敌如此说毕,这位大臂者便从持国诸子那光彩的宅第中走了出去。
5.91.36
निर्याय च महाबाहुर्वासुदेवो महामनाः ।
निवेशाय ययौ वेश्य विदुरस्य महात्मनः ॥ ५.९१.३६ ॥
大臂、大心的婆苏提婆(黑天)出去后,前往大德维都拉的住所。
5.91.37
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः ।
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ॥ ५.९१.३७ ॥
德罗纳、克里帕、毗湿摩,随后巴利迦与俱卢族人前去会见住在维杜罗家中的那位大臂者。
5.91.38
त ऊचुर्माधवं वीरं कुरवो मधुसूदनम् ।
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ॥ ५.९१.३८ ॥
俱卢族人对英雄摩陀婆、摩图苏陀那说:瓦尔什涅耶,我们把带着珍宝的家奉献给您。
5.91.39
तानुवाच महातेजाः कौरवान्मधुसूदनः ।
सर्वे भवन्ते गच्छन्तु सर्वा मेऽपचितिः कृता ॥ ५.९१.३९ ॥
光辉的摩图苏陀那对那些俱卢族人说:你们都去吧;我已经对你们尽了全部敬意。
5.91.40
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् ।
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ॥ ५.९१.४० ॥
俱卢族人离去之后,维杜罗殷勤地以一切所欲之物礼敬那位不可战胜的达舍阿尔诃。
5.91.41
ततः क्षत्राऽन्नपानानि शुचीनि गुणवन्ति च ।
उपाहरदनेकानि केशवाय महात्मने ॥ ५.९१.४१ ॥
于是维杜罗为大心的克舍婆奉上许多洁净而上好的饮食。
5.91.42
तैतर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः ।
वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि ॥ ५.९१.४२ ॥
摩图苏陀那黑天先以这些食物使婆罗门满足,又将大量财富施予通晓吠陀者。
5.91.43
भुक्तवत्सु द्विजाग्र्येषु निषण्णेषु वरासने ।
शुचिः सुप्रयतो भून्वा विदुरोऽन्नमुपारत् ॥ ५.९१.४३ ॥
当最优秀的再生者用餐完毕、坐于上好的座位上时,清净而自律的维杜罗奉上了食物。
5.91.44
श्रद्धया परया युक्त इदं वचनमब्रवीत् ।
संवृतैस्तुष्य गोविन्द एतन्नः धनम्।
अन्यथा हि विशेषेण कस्त्वामर्चितुमर्हति ॥ ५.९१.४४ ॥
他怀着最高的虔诚说道:“哥文达啊,请以这简朴的食物为乐吧,这便是我们的财富。否则,谁能特别地礼敬您呢?”
5.91.45
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः ।
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥ ५.९१.४५ ॥
随后,他与随从一同,如因陀罗在摩录多之间,食用了维杜罗那清净而上好的食物。
5.91.46
तं भुक्तवन्तं विविधाः सुशब्दाः सूतमागधाः ।
अभितुष्टुवुरासीनं दाशार्हमपराजितम् ॥ ५.९१.४६ ॥
当饮食完毕、端坐的那位不败的达沙尔哈(克里希那)时,各种声音悦耳的苏多与摩伽陀人赞颂了他。