Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.92

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.92.1

तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् ।
नेदं सम्यग्व्यवसितं केशवागमनं तव ॥ ५.९२.१ ॥

夜里,他吃过饭、安定下来之后,毗దura对他说:“你关于केशव前来的决定并不恰当。”

5.92.2

अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन ।
मानघ्नो मानकामश्च वृद्धानां शासनातिगः ॥ ५.९२.२ ॥

他,哦,阇那陀那,越过财利与法,愚昧而易怒;他毁灭他人的荣誉,贪求自己的荣誉,违背长者的教诲。

5.92.3

धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः ।
अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन ॥ ५.९२.३ ॥

他越过法典,迷惑而心怀恶念,已超出约束。哦,阇那陀那,这位愚昧的持国之子无法被引向善道。

5.92.4

कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्किता ।
अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः ॥ ५.९२.४ ॥

他受欲望驱使,自以为聪明,背叛朋友,猜疑一切。他不行动,忘恩负义,抛弃了法,说的是讨人喜欢的谎言。

5.92.5

मूढश्वाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः ।
कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः ॥ ५.९२.५ ॥

他迷惑,智慧未成熟,不能主宰自己的感官。他追随欲望,在一切应尽之事上都没有坚定的决心。

5.92.6

एतैश्चान्यैश्च बहुभिर्दोषैरेव समन्वितः ।
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ॥ ५.९२.६ ॥

他具有这些以及许多其他缺点,即使你说出善言,他也会因冲动而不接受。

5.92.7

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे ।
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ॥ ५.९२.७ ॥

他极度依赖毗湿摩、德罗纳、克里巴、迦尔纳、德罗纳之子与胜车;他的心不愿趋向和平。

5.92.8

निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन ।
भीष्मद्रोणमुखान्पार्था न शक्ताः प्रतिवीक्षितुम् ॥ ५.९२.८ ॥

克里希那啊,可以确定,以毗湿摩和德罗纳为首、加上迦尔纳的持国之子,普利塔之子无法与之正面抗衡。

5.92.9

सेनासमुदयं कृत्वा पार्थिवं मधुसूदन ।
कृतार्थं मन्यते बाल आत्मानमविचक्षणाः ॥ ५.९२.९ ॥

摩陀苏陀那啊,聚集了诸王的军队,那无见识的愚人便自以为事已成功。

5.92.10

एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् ।
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ॥ ५.९२.१० ॥

可以确定,唯有迦尔纳一人能够战胜敌人;因此,他不会为恶念的持国之子而趋向和平。

5.92.11

संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव ।
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ॥ ५.९२.११ ॥

克舍婆啊,持国诸子之间的共识也就在于此;而你正为和平而努力,渴望兄弟之间的和睦。

5.92.12

न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् ।
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ॥ ५.९२.१२ ॥

他们已决定不把应属于般度之子的部分归还;因此对他们说的话将是徒劳的。

5.92.13

यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ॥ ५.९२.१३ ॥

摩图苏陀那啊,若善言与恶言同等,智者便不应在那里徒然多言,如同在聋人中歌唱的歌者。

5.92.14

अविजानत्सु मूढेषु निर्मर्यादेषु माधव ।
तत्त्वं वाक्यं ब्रुवन्निन्द्यश्चण्डालेषु द्विजो यथा ॥ ५.९२.१४ ॥

摩陀婆啊,在不懂真理、愚昧而无礼的人中间,说真话的人也会遭受非难,如同婆罗门在旃陀罗之中。

5.92.15

सोऽयं बलस्थो मूढश्चन करिष्यति ते वचः ।
तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव ॥ ५.९२.१५ ॥

这位倚仗力量的愚人不会听从你的话;你对他说的话终将落空。

5.92.16

तेषां समुपविष्टानां सर्वेषां पापचेतसाम् ।
तव मध्यावतरणं मम कृष्ण न रोचते ॥ ५.९२.१६ ॥

克里希那啊,当他们这些心怀恶念之人都聚坐在一起时,你走入他们中间,我并不赞同。

5.92.17

दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम् ।
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ॥ ५.९२.१७ ॥

克里希那啊,在许多心术不正、无礼而心怀邪恶的人中间,你说出相反的话,我并不赞同。

5.92.18

अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः ।
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ॥ ५.९२.१८ ॥

他不曾侍奉长者,被财富之傲慢所迷惑,又因年少之骄矜和愤怒,将不会接受你的善意。

5.92.19

बलं बलवदप्यस्य यदि वक्ष्यसि माधव ।
त्वय्यस्य महती शङ्का न करिष्यति ते वचः ॥ ५.९२.१९ ॥

摩陀婆啊,即使你说他的力量强大,你的话也不会让他心生大疑。

5.92.20

नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः ।
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ॥ ५.९२.२० ॥

檀那啊,即使因陀罗与众天神,今日于战中也不能做到此事——持国的诸子都已如此决定。

5.92.21

तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु ।
समर्थमपि ते वाक्यमसमर्थं भविष्यति ॥ ५.९२.२१ ॥

他们既然如此,追随欲望与愤怒,即使你有理之言也会变得无效。

5.92.22

मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो ।
रथाश्वयुक्तस्य बलस्य मूढः।
दुर्योधनो मन्यते बीतभीतिः ।
कृत्स्ना मयेयं पृथिवी जितेति ॥ ५.९२.२२ ॥

愚昧的难敌站立在象军之中,率领着车马相连的大军,无所畏惧地想:“这整个大地已经被我征服了。”

5.92.23

आशंसते वै धृतराष्ट्रस्य पुत्रो ।
महाराज्यमसपत्नं पृथिव्याम्।
तस्मिञ्शमः केवलो नोपलभ्यो ।
बद्धं सन्तं मन्यते लब्धमर्थम् ॥ ५.९२.२३ ॥

持国之子确实希望在大地上获得无敌的大王国;在其中,单凭和平是找不到的。他把被束缚的人当作已经得到的利益。

5.92.24

पर्यस्तेयं पृथिवी कालपक्वा ।
दुर्योधनार्थे पाण्डवान्योद्धुकामाः ।
समागताः सर्वयोधाः पृथिव्यां ।
राजानश्च क्षितिपालैः समेताः ॥ ५.९२.२४ ॥

这大地因时机成熟而被四面包围;为了难敌的缘故,众战士和诸王都想与般度之子交战,与大地的统治者们聚集一处。

5.92.25

सर्वे चैते कृतवैराः पुरस्ता-
त्त्वया राजानो हृतसाराश्च कृष्ण ।
तवोद्वेगात्संश्रिता धार्तराष्ट्रा-
न्सुसंहताः सह कर्णेन वीराः ॥ ५.९२.२५ ॥

克里希那啊,这些国王先前都与你结怨,并已被你夺去力量。因惧怕你,那些英雄与迦尔纳一同投靠了持国之子,并且紧密团结在一起。

5.92.26

न तन्मतं मम दाशार्हवीर ॥ ५.९२.२६ ॥

达萨尔哈的英雄啊,这不是我的意见。

5.92.27

तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् ।
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ॥ ५.९२.२७ ॥

克制敌人者啊,你将如何走入那些坐在一起、心怀恶念的众多人之中,走进你敌人的中央呢?

5.92.28

सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः ।
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ॥ ५.९२.२८ ॥

大臂者啊,你在各方面,即便诸神也难以抵挡。杀敌者啊,我知道你的威力、勇武与智慧。

5.92.29

या मे प्रीतिः पाण्डवेषु भूयःक सा त्वयि माधव ।
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ॥ ५.९२.२९ ॥

摩陀婆啊,我对般度之子的那份爱,同样也在你身上。我怀着爱、深深的敬重与友情而说这些话。

5.92.30

या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा ।
सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनां ॥ ५.९२.३० ॥

莲花眼者啊,我因见到你而生的爱,又何必向你说明呢?你正是一切有身者的内在自我。