摩诃婆罗多 · 章 5.93
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.93.1
विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः ।
इदं होवाच वचनं मधुरं मधुसूदनः ॥ ५.९३.१ ॥
毗杜罗谦逊的话语被听闻后,人中最上的摩度苏陀那说了这些甜美的话。
5.93.2
यथा व्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः ।
सथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत् ॥ ५.९३.२ ॥
如大智慧者与明辨者所言,像你这样的人也应当如此说话,像我这样的朋友亦然。
5.93.3
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते ।
तथा वचनमुक्तोऽस्ति त्वयैतत्पितृमातृवत् ॥ ५.९३.३ ॥
此语与法和利相合且真实,正如适合于你,你如父母般说出了这番话。
5.93.4
सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम् ।
श्रृणुष्वागमने हेतुं विदुरावहितो मम ॥ ५.९३.४ ॥
你对我所说的,真实且恰当。毗杜罗,请专心听我来此的缘由。
5.93.5
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् ।
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् ॥ ५.९३.५ ॥
毗杜罗啊,我明知持国之子的邪恶与刹帝利之间的敌意,今日已来到俱卢族人之处。
5.93.6
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ॥ ५.९३.६ ॥
当整个大地连同马匹、战车与象群都陷入颠覆之时,能将其从死亡的绳索中解救者,将获得最高的法。
5.93.7
धर्मकार्यं यतञ्शक्त्या नो चेत्प्राप्नोति मानवः ।
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥ ५.९३.७ ॥
人若竭尽所能为法行之,却未得其果,他仍获得那份功德,此事毫无疑问。
5.93.8
मनसा चिन्तयन्पापं कर्मणा नातिरोचयन् ।
न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः ॥ ५.९३.८ ॥
心中思念恶事而行动上不予赞同者,不得其果报;知法者如此认为。
5.93.9
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया ।
कुरूणां सृञ्जयानां च सङ्ग्राने विनशिष्यताम् ॥ ५.९३.९ ॥
哦,刹多,我将不带欺诈地努力促成和平,以免库鲁族与斯林扎耶族在战斗中灭亡。
5.93.10
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ॥ ५.९३.१० ॥
这场极可怕的灾难正是在库鲁族之中兴起的,由迦尔纳与难敌所造成;这些人都是他们的后裔与追随者。
5.93.11
व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते ।
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ॥ ५.९३.११ ॥
当朋友在灾难中受苦时,若已尽力请求而仍不前往相助者,智者称之为残忍。
5.93.12
आकेशग्रहणान्मित्रमकार्यात्संनिवर्तयन् ।
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ॥ ५.९३.१२ ॥
即使抓住朋友的头发,也要将其拉回不义之事,并竭尽己力去做,这样的人便不会被任何人指责。
5.93.13
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् ।
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ॥ ५.९३.१३ ॥
此言恰当、吉祥,兼具法与利,且有益。维杜罗啊,持国之子连同其大臣理应接受。
5.93.14
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च ।
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ॥ ५.९३.१४ ॥
确实,这对持国之子、般度之子以及大地上的刹帝利都是有益的。我将不带欺诈地为此努力。
5.93.15
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि ।
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ॥ ५.९३.१५ ॥
即使我为善而努力,难陀奢(难敌)若怀疑我,我心中仍会有爱意,并且得以免于债务。
5.93.16
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते ।
सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः ॥ ५.९३.१६ ॥
当亲族因相互争执而分裂时,若朋友不偏向任何一方,而竭尽全力保持中立,智者并不以他为朋友。
5.93.17
न मां ब्रूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा ।
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ॥ ५.९३.१७ ॥
愿不义、愚昧与非友之人不要对我说:'克里希那虽有能力,却未能阻止愤怒的俱卢与般度。'
5.93.18
उभयोः साधयन्नर्थमहामागत इत्युत ।
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ॥ ५.९३.१८ ॥
我来为双方成就善事,为此尽力之后,便将在世人之中无可指责地离去。
5.93.19
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् ।
न चेदादास्यते बालो दिष्टस्य वशमेष्यति ॥ ५.९३.१९ ॥
我这番合乎法与利、有益安康的话,此愚人若听后仍不接受,便将落入命运的掌控。
5.93.20
अहापयन्पाण्डवार्थं यथाव-
च्छमं कुरूणां यदि चाचरेयम्।
पुण्यं च मे स्याच्चरितं महात्म-
न्मुच्येरंश्च कुरवो मृत्युपाशात् ॥ ५.९३.२० ॥
若我不违背般度诸子之利,如理在俱卢之间确立和平,这将是我的功德;大德啊,俱卢族便能脱离死亡之索。
5.93.21
अपि वाचं भाषमाणस्य काव्यां ।
धर्मरामामर्थवतीमहिंस्राम्।
अवेक्षेरन्धार्तराष्ट्राः शमार्थं ।
मां च प्राप्तं कुरवः पूजयेयुः ॥ ५.९३.२१ ॥
若持国之子为求和平,哪怕只留心听我这番智慧的、充满法、乐与利而不伤害的话,而俱卢族在我到来时尊敬我。
5.93.22
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः ।
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ॥ ५.९३.२२ ॥
即便所有国王联合起来,也无法在我愤怒时站在我面前,正如其他鹿在狮子面前一样。
5.93.23
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा ।
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ॥ ५.९३.२३ ॥
如此说毕,维利什尼族中之雄牛、令药度族喜悦者,便躺卧在触感舒适的床上。