摩诃婆罗多 · 章 5.95
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.95.1
तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु ।
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ॥ ५.९५.१ ॥
众王端坐沉默之时,声如鼓鸣、齿白如玉的黑天开口说道。
5.95.2
जीमूत इव धर्मान्ते सर्वां संश्रावयन्सभाम् ।
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ॥ ५.९५.२ ॥
如同祭礼终了时的云雨,让全场都能听见,摩陀婆望着持国王开口说道。
5.95.3
कुरूणां पाण्डवानां च शमः स्यादिति भारत ।
अप्रणशेन वीराणामेतद्याचितुमागतः ॥ ५.९५.३ ॥
婆罗多啊,愿俱卢与般度之间和睦安宁;我来此请求,但愿英雄们不致灭亡。
5.95.4
राजन्नान्यत्प्रवक्तव्यं तव नैःश्रेयसं वचः ।
विदितं ह्येव ते सर्वं वेदितव्यमरिन्दम ॥ ५.९५.४ ॥
大王啊,除此利益之言,不应再向你说别的;降伏敌人者啊,你早已全都知晓。
5.95.5
इदं ह्यद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव ।
श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः ॥ ५.९५.५ ॥
大地之主啊,今日此族在诸王之中最为尊贵,具备学问与德行,并且充满一切美德。
5.95.6
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत ।
तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ॥ ५.९५.६ ॥
婆罗多啊,慈悲、怜悯、悲悯、不害、正直、宽恕与真实,这些在俱卢族中尤为突出。
5.95.7
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति ।
त्वन्निमित्तं विशेषेण नेह युक्तमसांप्रतम् ॥ ५.९५.७ ॥
国王啊,在这样伟大的家族仍然存在之时,尤其因为你,在此这样做是不适当的。
5.95.8
त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम ।
मिथ्याप्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ॥ ५.९५.८ ॥
你是库鲁人中最优秀的,是他们的支柱;亲爱的孩子啊,那些在外在与内心都行事虚伪的人。
5.95.9
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः ।
धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥ ५.९५.९ ॥
你的儿子们,库卢的后裔啊,以难敌为首,把法与利置于身后,行事如同残酷之人。
5.95.10
अशिष्टा गतमर्यादा लोभेन हृतचेतसः ।
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ पुरुषर्षभ ॥ ५.९५.१० ॥
心智被贪欲夺走、不守规矩、逾越界限的人,即使对自己最重要的亲族也是如此。这一点你是知道的,人中之牛啊。
5.95.11
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ॥ ५.९५.११ ॥
这场可怕的灾祸正是在库鲁人之中兴起的;库鲁后裔啊,若是对它置之不理,它将毁灭大地。
5.95.12
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत ।
न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ॥ ५.९५.१२ ॥
婆罗多啊,若你愿意,它是可以平息的;婆罗多人中之牛啊,依我看,在此平息并不困难。
5.95.13
त्वय्यधीनः शमो राजन्मयि चैव विशांपते ।
पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ॥ ५.९५.१३ ॥
君王啊,和平取决于你,也取决于我,众生之主。俱卢之裔,请安定你的儿子们;其他人由我来安定。
5.95.14
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः ।
हितं बलवदप्येषां तिष्ठतां तव शासने ॥ ५.९५.१४ ॥
诸王之王啊,你的命令应由你的儿子和亲族执行。对于那些仍处于你统治之下的人,这也是最大的福祉。
5.95.15
तव चैव हितं राजन्पाण्डवानामथो हितम् ।
शमे प्रयतमानस्य तव शासनकाङ्क्षिणः ॥ ५.९५.१५ ॥
君王啊,这对努力求和平的你有益,对渴望服从你统治的般度之子们也有益。
5.95.16
स्वयं निष्फलमालक्ष्य संविधत्स्व विशांपते ।
सहायभूता भरतास्तवैव स्युर्जनेश्वर ॥ ५.९५.१६ ॥
既然看到这是徒劳的,众生之主啊,你应亲自谋划。愿婆罗多后裔成为你的盟友,众人之主啊。
5.95.17
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः ।
न हि शक्यास्तथाभूता यत्नादपि नराधिप ॥ ५.९५.१७ ॥
君王啊,在般度之子的守护下,你应安住于法与利。人主啊,这样的人即便竭力也无法战胜。
5.95.18
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः ।
इन्द्रोपि देवैः सहितः प्रसहेत कुतो नृपाः ॥ ५.९५.१८ ॥
你受到伟大的般度之子守护,即便般度之子也无法战胜你。与诸神同在的因陀罗又如何能战胜你呢,更何况诸王。
5.95.19
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥ ५.९५.१९ ॥
婆瘏摩与德罗纳、克利巴与迦尔纳、毗毗姆沙提、阿湿缚他摩、毗迦尔纳、苏摩达多与跋利迦所在之处。
5.95.20
सैन्धवश्च कलिङ्गश्च काम्भोजश्च सुदक्षिणः ।
युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ॥ ५.९५.२० ॥
信度王、羯陵伽王、迦until 波阁王与苏达克希那,以及坚战、怖军、左撇子(阿周那)和双生子。
5.95.21
सात्यकिश्च महातेजा युयुत्सुश्च महारथः ।
को नु तान्विपरीतात्मा युद्ध्येत भरतर्षभ ॥ ५.९५.२१ ॥
光辉伟大的萨提亚基与大车将尤尤苏。婆罗多族最优秀者啊,心志颠倒的人谁会与他们作战呢?
5.95.22
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्यधृष्यताम् ।
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ॥ ५.९५.२२ ॥
诛灭敌人者啊,你将与俱卢族和般度族一同再次获得世界的主宰权,并使敌人无法战胜你。
5.95.23
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते ।
श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ॥ ५.९५.२३ ॥
大地之主啊,与你相当的守护大地的诸王,以及比他们更高尚的国王,都将与他结盟,焚烧敌人者啊。
5.95.24
स त्वं पुत्रैश्च पौत्रैश्च पितृभिर्भ्रातृभिस्तथा ।
सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुं ॥ ५.९५.२४ ॥
你将由子孙、父辈、兄弟和亲友从四面八方守护,能够安乐地生活。
5.95.25
एतानेव पुरोधाय यत्कृत्य च यथा पुरा ।
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ॥ ५.९५.२५ ॥
以这些人为先导,如同往昔那样行事,大地之主啊,你将享有整个大地。
5.95.26
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत ।
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ॥ ५.९५.२६ ॥
婆罗多啊,与这些般度子孙及你自己的人联合,你将战胜其他敌人;这便是你的全部利益。
5.95.27
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप ।
यदि संपत्स्यसे पुत्रैः सहामात्यैर्नराधिप ॥ ५.९५.२७ ॥
灭敌者啊,若你与诸子及大臣同心,你将享有他们所获得的大地,人主啊。
5.95.28
संयुगे वै महाराज दृश्यते सुमहान्क्षयः ।
क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ॥ ५.९५.२८ ॥
大王啊,战场上可见极大的毁灭;国王啊,在双方的这场毁灭中,你看到了什么样的责任?
5.95.29
पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः ।
यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ॥ ५.९५.२९ ॥
婆罗多之雄牛啊,若般度子孙或你的大力诸子在战场上被杀,国王啊,请说你将得到什么样的快乐。
5.95.30
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः ।
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ॥ ५.९५.३० ॥
般度子孙与你的人都是英雄,精通武器,渴望战斗;请保护他们免于巨大的恐惧。
5.95.31
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे ।
क्षीणानुभयतः शूरान्राथिनो रथिभिर्हतान् ॥ ५.९५.३१ ॥
在战斗中,我们将看不到所有的俱卢和般度族人;双方的英雄与车战勇士将被杀死而衰亡。
5.95.32
समवेताः पृथिव्यां हि राजानो राजसत्तम ।
अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ॥ ५.९५.३२ ॥
诸王之最!地上诸王聚集,陷入愤怒之中,将毁灭这些民众。
5.95.33
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः ।
त्वयि प्रकृतिमापन्ने शेषः स्यात्कुरुनन्दन ॥ ५.९५.३३ ॥
国王啊,保护这个世界,不要让这些民众灭亡;俱卢之喜,若你恢复本性,便会有所留存。
5.95.34
शुक्ला वादन्या ह्रीमन्त आर्याः पुण्याभिजातयः ।
अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ॥ ५.९५.३४ ॥
国王啊,保护这些纯洁、谦逊、高贵、出身于圣洁家族、彼此相助的人,使其免于大恐惧。
5.95.35
शिवेनेमे भूमिपालाः समागम्य परस्परम् ।
सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ॥ ५.९५.३५ ॥
愿这些地上的守护者和睦相会,共同饮食,各自返回自己的家。
5.95.36
सुवाससः स्रग्विणश्च सत्कृता भरतर्षभ ।
अमर्षं च निराकृत्य वैराणि च परन्तप ॥ ५.९५.३६ ॥
婆罗多之牛啊,衣着华美、戴着花环、受到礼遇,抛弃愤怒与仇恨吧,灭敌之人啊。
5.95.37
हार्दं यत्पाण्डवेष्वासीत्प्राप्तोऽस्मिन्नायुषः क्षये ।
तदेव ते भवत्वद्य सन्धत्स्व भरतर्षभ ॥ ५.९५.३७ ॥
你曾对般度诸子怀有的真诚情谊,直到此生终结仍未消失;愿今日它仍属于你。婆罗多中的雄牛,请讲和吧。
5.95.38
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः ।
तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ॥ ५.९५.३८ ॥
你的孩子失去了父亲,全靠你一人抚养长大;请依照正义保护他们,也保护你自己的儿子,婆罗多中的雄牛。
5.95.39
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः ।
मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ॥ ५.९५.३९ ॥
他们理应由你来保护,尤其是在困境之中。婆罗多中的雄牛,愿你的法与财富都不致丧失。
5.95.40
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च ।
भवतः शासनाद्दुःखसमुभूतं सहानुगैः ॥ ५.९५.४० ॥
大王,般度诸子向你行礼并使你欢喜后说道:由你的命令所引起的苦难,他们与随从一同承受了。
5.95.41
द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः ।
त्रयोदशं तथाऽज्ञातैः सजने परिवत्सरम् ॥ ५.९५.४१ ॥
我们在森林中度过了十二年,第十三年则隐姓埋名,混迹于人群之中。
5.95.42
स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः ।
नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ॥ ५.९५.४२ ॥
在那约定的时间,我们曾决心像父亲一样坚定不移。亲爱的,我们并未违背约定的期限;这一点连我们的婆罗门也知道。
5.95.43
तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ ।
नित्यं संक्लेशिता राजन्स्वराज्यांशं लभेमहि । ॥ ५.९५.४३ ॥
婆罗多族的雄牛啊,请坚守我们所共同立下的那份约定。国王啊,我们一直饱受苦难;我们希望得到属于自己王国的那一份。
5.95.44
त्वं धर्ममर्थं संजानन्सम्यङ्वस्त्रातुमर्हसि ।
गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे । ॥ ५.९५.४४ ॥
你深知法与利,理应好好地庇护我们。考虑到你是长辈,我们忍受了许多苦难。
5.95.45
स भवान्मातृपितृव्रदस्मासु प्रतिपद्यताम् ।
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत । ॥ ५.९५.४५ ॥
愿你待我们如母如父。婆罗多啊,师长对弟子的行为更为重要。
5.95.46
वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा ।
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः । ॥ ५.९५.४६ ॥
我们待你如此;你也应同样待我们。既然我们已走上歧途,就应由父亲将我们扶正。
5.95.47
संस्थापय पथिप्वस्मांस्तिष्ठ धर्मे सुवर्त्मनि ।
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ । ॥ ५.९५.४७ ॥
请使我们立于正道;坚守善道之法。婆罗多族的雄牛啊,人们说这个议会是你儿子们的议会。
5.95.48
धर्मज्ञेषु सभासत्सु नेह युक्तमसांप्रतम् ।
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च। ॥ ५.९५.४८ ॥
在这知法的议会成员之中,此事在此不合适、不妥当;在法为非法所胜、真理为虚妄所胜之处,这样做是不对的。
5.95.49
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते। ॥ ५.९५.४९ ॥
在集会中,法被非法所伤之处,与会者便在众人注视下被杀。
5.95.50
नचास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ।
धर्म एतानारुजति यथा नद्यनुकूलजान् ॥ ५.९५.५० ॥
受伤的与会者不拔出其刺;法便摧折他们,正如河流冲倒岸边的树木。
5.95.51
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ।
ते सत्यमाहुर्धर्म्यं च न्याय्यं च भरतर्षभ ॥ ५.९५.५१ ॥
那些见法却沉默静坐冥思的人,婆罗多之牛啊,称之为真实、合法而公正。
5.95.52
शक्यं किमन्यद्वक्तुं ते दानादन्यञ्जनेश्वर ।
ब्रुवन्तु ते महीपालाः सभायां ये समासते ॥ ५.९५.५२ ॥
人主啊,除了布施,还能对你说什么呢?让坐在集会中的诸王对你说吧。
5.95.53
धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्यहम् ।
प्रमुञ्चोमान्मृत्युपाशात्क्षत्रियान्पुरुषर्षभ ॥ ५.९५.५३ ॥
若我在权衡法与利之后说的是真实,那么,人中之牛啊,请将这些刹帝利从死亡之索中解脱。
5.95.54
प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ।
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् ।
ततः सपुत्रः सिद्धार्थो भुङ्क्ष भोगान्परन्तप ॥ ५.९५.५४ ॥
婆罗多中最优秀的人啊,平息你的心,不要受怒火支配。按礼分给般度之子他们应得的父产,然后,焚敌者啊,与诸子一道、成就所愿,享受你的快乐吧。
5.95.55
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा ।
सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ॥ ५.९५.५५ ॥
人主啊,你知道阿賈塔奢睦常安住于善人的法中;他对你和你的儿子所保持的行为,正是如此。
5.95.56
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः ।
इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ॥ ५.९५.५६ ॥
他们被焚、被驱逐,仍再次投靠于你;而将他与其子从因陀罗补罗驱逐出去的,正是你。
5.95.57
स तत्र विवसन्सर्वान्वशमानीय पार्थिवान् ।
त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ॥ ५.९५.५७ ॥
他住在那里,将所有诸王制服,使他们面向你;然而,大王,他从未违背你。
5.95.58
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता ।
राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ॥ ५.९५.५८ ॥
他如此行事之时,苏巴拉之子欲夺取王国、财富与谷物,便施展了极大的诡计。
5.95.59
स तामवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभां गताम् ।
क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः ॥ ५.९५.५९ ॥
他见到克利须那被带到议事堂,已至此境,然而无量心的坚战并未动摇于刹帝利之法。
5.95.60
अहं तु तव तेषां च श्रेय इच्छामि भारत ।
धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ॥ ५.९५.६० ॥
婆罗多之裔啊,我愿你与他们皆得福祉;大王啊,不要使臣民因失去法、利与乐而毁灭。
5.95.61
अनर्थमर्थं मन्वानोऽप्यर्थं चानर्थमात्मनः ।
लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशांपते ॥ ५.९५.६१ ॥
把于自己有害之事当作有利,把有利之事当作有害,请约束那些在贪欲中过度膨胀的儿子,人民之主啊。
5.95.62
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः ।
यत्ते पथ्यतमं राजंस्तस्मिंतिष्ठ परन्तप ॥ ५.९५.६२ ॥
普利塔之子准备侍奉,制伏敌人者准备作战。国王啊,灼敌者,请坚守那对你最有利的事。
5.95.63
तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् ।
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ॥ ५.९५.६३ ॥
诸王都从心底尊重那番话;在那里,没有人敢上前开口说话。