Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.96

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.96.1

तस्मिन्नभिहिते वाक्ये केशवेन महात्मना ।
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ॥ ५.९६.१ ॥

伟大的克舍瓦说完这番话后,会场中的所有与会者都僵立不动,汗毛倒竖。

5.96.2

कस्स्विदुत्तरमेतेषां वक्तुमुत्सहते पुमान् ।
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ॥ ५.९६.२ ॥

“谁敢回答他们呢?”诸王心中都这样思量。

5.96.3

तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु ।
जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ॥ ५.९६.३ ॥

当诸王都沉默不语时,雅摩达格尼(持斧罗摩)在俱卢人的集会上说了这番话。

5.96.4

इमां मे सोपमां वाचं श्रृणु सत्यामशङ्कितः ।
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ॥ ५.९६.४ ॥

请毫无疑虑地听我这番带有譬喻的真实之言;听后若认为是好的,便取其中的善益。

5.96.5

राजा दम्भोद्भवो नाम सार्वभौमः पुराऽभवत् ।
अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ॥ ५.९६.५ ॥

往昔有一位名为“达姆博德跋”的转轮王,我们听说他统治了整个大地。

5.96.6

स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् ।
ब्राह्मणान्क्षत्रियान्वैश्यान्पृच्छन्नास्ते महारथः ॥ ५.९६.६ ॥

这位勇猛的大车战士每天夜尽天明时起身,便去询问婆罗门、刹帝利和吠舍。

5.96.7

अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि ।
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वाऽपि शस्त्रभृत् ॥ ५.९६.७ ॥

战场上是否有人胜过我,或与我相当,无论他是首陀罗、吠舍、刹帝利,还是持械的婆罗门?

5.96.8

इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् ।
दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन् ॥ ५.९६.८ ॥

国王如此说着,遍历这片大地,因极大的傲慢而昏醉,不把任何他人放在心上。

5.96.9

तं च वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः ।
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ॥ ५.९६.९ ॥

那些学识渊博、无畏、不卑躬、四方无惧的婆罗门,屡次阻止那位不停自夸的国王。

5.96.10

निषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् ।
अतिमानं श्रिया मत्तं तमूचुर्ब्राह्मणास्तदा ॥ ५.९६.१० ॥

虽被屡次阻止,他仍不停地询问再生族。那时,婆罗门们对那位因富贵而昏醉、极度傲慢的国王说道。

5.96.11

तपस्विनो महात्मानो वेदप्रत्ययदर्शिनः ।
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ॥ ५.९६.११ ॥

苦行者、具大德的吠陀真理见证者——再生族们,在国王说话时怒火中烧。

5.96.12

अनेकजयिनौ शङ्ख्ये यौ वै पुरुषसत्तमौ ।
तयोस्त्वं न समो राजन्भवितासि कदाचन ॥ ५.९६.१२ ॥

那二位在战场上多次获胜,是人中最优者。国王啊,你永远不会与他们相等。

5.96.13

एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् ।
क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ ॥ ५.९६.१३ ॥

国王听了这话,又问那些婆罗门:“那两位英雄在哪里?他们生于何处?所作何事?他们是谁?”

5.96.14

नरो नारायणश्चैव तापसाविति नः श्रुतम् ।
आयातौ मानुषे लोके ताभ्यां युद्ध्यस्व पार्थिव ॥ ५.९६.१४ ॥

“我们听说那那罗与那罗延是两位苦行者,他们已降临人间。大王啊,你就与他们交战吧。”

5.96.15

श्रूयेते तौ महात्मानौ नरनारायणावुभौ ।
तपो घोरमनिर्देश्यं तप्येते गन्धमादने ॥ ५.९६.१५ ॥

“人们听说那两位大德,那罗与那罗延,正在乾陀摩陀那山上行一种可怕、难以言说的苦行。”

5.96.16

स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् ।
अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ ॥ ५.९६.१६ ॥

“那国王率领六军组成的大军,心中不甘,便出发前往那两位不败者所在之处。”

5.96.17

स गत्वा विषमं घोरं पर्वतं गन्धमादनम् ।
मार्गमाणोऽन्वगच्छत्तौ तापसौ वनमाश्रितौ ॥ ५.९६.१७ ॥

“他来到险峻可怖的乾陀摩陀那山,寻找那两位住在林中的苦行者,并跟随他们而去。”

5.96.18

तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ ।
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ ॥ ५.९६.१८ ॥

“他看见那两位人中最上的人,因饥渴而消瘦,青筋毕露,被寒冷、风和烈日折磨得憔悴。”

5.96.19

अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम् ।
तमर्चित्वा मूलफलैरासनेनोदकेन च ॥ ५.९६.१९ ॥

他们走近他,拥抱他,询问他的安康。以根茎、果实、座位和水来款待他之后,

5.96.20

न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति ।
ततस्तामानुपूर्वी स पुनरेवान्वकीर्तयत् ॥ ५.९६.२० ॥

两人邀请国王说:“该做什么?请吩咐。”于是他按次序把一切又重新叙述了一遍。

5.96.21

बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः ।
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् ॥ ५.९६.२१ ॥

我以双臂征服了大地,杀尽了所有敌人。渴望与你们二人交战,我来到了这座山。

5.96.22

आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति ।
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम ॥ ५.९६.२२ ॥

请以此款待我,这是我久已所盼。王中之最,此修行处已远离愤怒与贪欲。

5.96.23

न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः ।
अन्यत्र युद्धमाकाङ्क्ष बहवः क्षत्रियाः क्षितौ ॥ ५.९६.२३ ॥

此修行处没有战斗;这里何来兵器,何来欺诈?请到别处寻求战斗,大地上有许多刹帝利武士。

5.96.24

उच्यमानस्तथाऽपि स्म भूय एवाभ्यभाषत ।
पुनः पुनः क्षाम्यमाणः सान्त्व्यमानश्च भारत ॥ ५.९६.२४ ॥

虽然人们这样对他说,他仍再次开口。婆罗多之后裔啊,虽然一再被恳求、被安抚,他依然继续说下去。

5.96.25

दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ।
ततो नरस्त्विषीकाणां मुष्टिमादाय भारत ॥ ५.९६.२५ ॥

檀波陀婆渴望战斗,不断挑战那两位苦行者。于是,婆罗多之子啊,那人抓起一把芦苇,

5.96.26

अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय ।
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् ॥ ५.९६.२६ ॥

他说:来吧,作战吧,爱好战斗的刹帝利啊!拿起你所有的武器,布置你的军队。

5.96.27

अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् ।
यदाह्वयसि दर्पेण ब्राह्मणप्रमुखाञ्जनान् ॥ ५.९६.२७ ॥

从此刻起,我将消除你对战斗的信念,因为你出于傲慢挑战以婆罗门为首的人们。

5.96.28

यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे ।
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ॥ ५.९६.२८ ॥

如果你认为用这件武器对付我们是恰当的,苦行者啊,那么我就用这件武器与你作战,因为我是为战斗而来的。

5.96.29

इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् ।
दम्भोद्भवस्तापसं तं जिवांसुः सहसैनिकः ॥ ५.९६.२९ ॥

说完这话,檀波陀婆想要杀死那位苦行者,便和他的军队突然从四面八方以箭雨将他覆盖。

5.96.30

तस्य तानस्यतो घोरानिषून्परतनुच्छिदः ।
कदर्थीकृत्य स मुनिरिषीकाभिः समार्पयत् ॥ ५.९६.३० ॥

那位圣者使他射来的那些可怕的、能穿透敌人身体的箭失去效力,然后用芦苇反击。

5.96.31

ततोऽस्मौ प्रासृजद्धोरमैषीकमपराजितः ।
अस्त्रमप्रतिसन्धेयं तदुद्भुतमिवाभवत् ॥ ५.९६.३१ ॥

于是那位不败者向他射出一支可怕的芦苇箭,那是一种无法抵挡的神箭,显得奇异非凡。

5.96.32

तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया ।
निमित्तवेधी स मुनिरीषीकाभिः समार्पयत् ॥ ५.९६.३२ ॥

这位以幻术瞄准射击的圣人,用芦苇箭射穿了他们的眼睛、耳朵和鼻子。

5.96.33

स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् ।
पादयोर्न्यपतद्राजा स्वस्ति मेस्त्विति चाब्रवीत् ॥ ५.९६.३३ ॥

见天空被芦苇箭覆盖而一片洁白,国王便跪倒在他脚下,说:“愿我平安。”

5.96.34

तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् ।
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ॥ ५.९६.३४ ॥

他对他说:“国王啊,要做求庇护者的庇护所,敬重婆罗门,做一个心怀正法之人;不要再这样做了。”

5.96.35

नैतादृक्पुरुषो राजन्क्षत्रधर्ममनुस्मरन् ।
मनसा नृपशार्दूल भवेत्परपुरञ्जयः ॥ ५.९६.३५ ॥

国王啊,一个铭记刎士之法的人,心中也不会这样做。王中之虎啊,他应当是征服敌城之人。

5.96.36

मा च दर्पसमाविष्टः वा तत्ते राजन्समाहितम् ।
कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान् । ॥ ५.९६.३६ ॥

也不要被傲慢所控制。国王啊,你应当做到的是:有智慧,无贪欲,无我慢,自我克制。

5.96.37

दान्तः क्षान्तो मृदुः सौम्य प्रजाः पालय पार्थिव ।
मास्म भूयः क्षिपेः कंचिदविदित्वा बलाबलम्। ॥ ५.९६.३७ ॥

要克己、忍耐、温和而慈善;国王啊,请守护你的臣民。不知强弱之时,切莫再攻击任何人。

5.96.38

अनुज्ञातः स्वस्ति गच्च मैवं भूयः समाचरेः ।
कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ॥ ५.९६.३८ ॥

得到允许后,平安地走吧;不要再这样行事。依我们二人之言,要恳切地向婆罗门询问你的安好。

5.96.39

ततो राजा तयोः पादावभिवाद्य महात्मनोः ।
प्रत्याजगाम स्वपुरं धर्मं चैवाचरद्भृशम् ॥ ५.९६.३९ ॥

于是国王向那两位大德的足下行礼,回到自己的城市,并且极其虔诚地奉行法。

5.96.40

सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा ।
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ॥ ५.९६.४० ॥

那桩由那罗在往昔所作的极大功业,以及众多德行,使那罗延成为最殊胜者。

5.96.41

तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते ।
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम् ॥ ५.९६.४१ ॥

因此,在最好的弓甘狄拔上尚未搭上箭矢之前,国王啊,请舍弃骄慢,去见财主(阿周那)。

5.96.42

काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा ।
सन्तानं नर्तकं घोरमास्यमोदकमष्टमम् ॥ ५.९६.४२ ॥

迦古提迦、鹦鹉、天、眼威胁,以及子嗣、舞者、可怖、口甜食,第八个。

5.96.43

एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः ।
उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः ॥ ५.९६.४३ ॥

被这些所击中的众人皆走向死亡;他们如疯狂般挣扎,失去知觉,心神昏乱。

5.96.44

स्वपन्ति च प्लवन्ते च च्छर्दयन्ति च मानवाः ।
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च ॥ ५.९६.४४ ॥

人们昏睡、踉跄、呕吐;不停地小便,哭泣,也会大笑。

5.96.45

कामक्रोधौ लोभमोहौ मदमानौ तथैव च ।
मात्सर्याहङ्कुती चैव क्रमादेत उदाहृताः ॥ ५.९६.४५ ॥

欲与怒,贪与痴,醉与慢,以及嫉妒与我慢——这些依次被说明。

5.96.46

निर्माता सर्वलोकानामीश्वरः सर्वकर्मवित् ।
यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि ॥ ५.९६.४६ ॥

他是一切世界的创造者,主宰者,知晓一切行为;那纳罗衍那是他的亲人,阿周那在战场上对他而言难以抵挡。

5.96.47

कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत ।
वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि ॥ ५.९६.४७ ॥

婆罗多之子啊,三界之中谁敢战胜他——那位英雄、猴旗者、胜利者,在战斗中无人能与他相比?

5.96.48

असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः ।
त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम् ॥ ५.९६.४८ ॥

普利塔之子身上有无数美德,而遍主(克里希那)又胜过他。你自己也已再次深知昆蒂之子达难阁耶。

5.96.49

नरनारायणौ यौ तौ तावेवार्जुनकेशवौ ।
विजानीहि महाराज प्रवीरौ पुरुषोत्तमौ ॥ ५.९६.४९ ॥

那二位,即那罗与那罗延,正是阿周那与克舍婆。大王,你要知道,他们是两位大勇士,人中至尊。

5.96.50

यद्येतदेवं जानासि न च मामभिशङ्कसे ।
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ॥ ५.९६.५० ॥

若你既如此知晓,又不怀疑我,那就以高尚之心,婆罗多啊,与般度诸子言和吧。

5.96.51

अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति ।
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ॥ ५.९६.५१ ॥

若你认为这样更好,我们之间不会生出分裂,那么,婆罗多之最,你且平息下来,不要把心思放在战争上。

5.96.52

भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि ।
तत्तथैवास्तु भद्रं ते स्वार्थमेवोपचिन्तय ॥ ५.९६.५२ ॥

库鲁之最,你们的家族在大地上备受尊崇。就这样吧,愿你吉祥。只需思量你自己的利益。