Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.97

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.97.1

जामदग्न्यवचः श्रुत्वा कण्वेऽपि भगवानृषिः ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ ५.९७.१ ॥

婆罗多族集会中,闻听邪摩陀诃尼(持斧罗摩)之言后,尊贵的仙人迦纳瓦也对难敌说了这番话。

5.97.2

अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः ।
तथैव भगवन्तौ तौ नरनारायणावृषी ॥ ५.९७.२ ॥

不灭不坏的梵天是世界的祖父;同样,那两位尊贵的仙人那罗与那罗延也是如此。

5.97.3

आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः ।
अजथ्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ॥ ५.९७.३ ॥

在所有阿底提耶中,唯有毗湿奴是永恒的;他不生、不坏、常住,是主宰与统治者。

5.97.4

निमित्तमरणाश्चान्ये चन्द्रसूर्यौ मही जलम् ।
वायुरग्निस्तथाऽऽकाशं ग्रहास्तारागणास्तथा ॥ ५.९७.४ ॥

其他事物有因缘而灭之者:日月、大地、水、风、火、虚空,以及行星与星群,皆是如此。

5.97.5

ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा ।
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ॥ ५.९७.५ ॥

在世界毁灭的终结之时,它们都离开三界,走向毁灭;然后又一次次被创造出来。

5.97.6

मुहूर्तमरणास्त्वन्ये मानुषा मूगपक्षिणः ।
तैर्यग्योन्याश्च ये चान्ये जीवलोकचरास्तथा ॥ ५.९७.६ ॥

而另一些则在顷刻间死去:人类、兽类与禽鸟;与它们一同,那些生于畜生胎中的,以及其他行走于生命世界中的,也是如此。

5.97.7

भूयिष्ठेन तु राजानः श्रियं भुक्त्वाऽऽयुषः क्षये ।
तरुणाः प्रतिपद्यन्ते भोक्तुं सुकृतदुष्कृते ॥ ५.९७.७ ॥

君王在寿命终结时享尽富贵,便再次获得青春,以享受善恶行为的果报。

5.97.8

स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हसि ।
पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धरान् ॥ ५.९७.८ ॥

因此你应当与法之子在此讲和;愿般度之子与库鲁族共同守护大地。

5.97.9

बलवानहमित्येव न मन्तव्यं सुयोधन ।
बलवन्तो बलिभ्यो हि दृश्यन्ते पूरुषर्षभ ॥ ५.९७.९ ॥

苏耶驮那,你不应这样想:‘我是强者。’因为强者也被更强者所战胜,人中之牛啊。

5.97.10

न बलं बलिनां मध्ये बलं भवति कौरव ।
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः । ॥ ५.९७.१० ॥

在强者之中,力量未必就是力量,考罗婆啊;因为般度的儿子们都是强者,他们的勇武如同天神。

5.97.11

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ॥ ५.९७.११ ॥

此处人们也讲述这个古老的故事:摩多利想为女儿寻找合适的夫婿,愿意将她许配出去。

5.97.12

मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः ।
तस्यैकैव कुले मन्या रूपतो लोकविश्रुता ॥ ५.९७.१२ ॥

摩多利是三界之主的御者;在他的家族中,他只被认为有一个女儿,她的美貌闻名三界。

5.97.13

गुणकेशीति विख्याता नाम्ना सा देवरूपिणी ।
श्रिया च वपुषा चैव स्त्रियोऽन्याःसाऽतिरिच्यते ॥ ५.९७.१३ ॥

她名为古那开西,形貌如天神;论光彩与身体之美,她超过其他所有女子。

5.97.14

तस्याः प्रदानसमयं मातलिः सह भार्यया ।
ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ॥ ५.९७.१४ ॥

大王啊!马塔利知道她的出嫁之时已到,便专注于此,与妻子一同深思熟虑。

5.97.15

धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् ।
नराणां मृदुसत्वानां कुले कन्याप्ररोहणम् ॥ ५.९७.१५ ॥

真是可耻啊!那些品行轻浮、傲慢而有名声、性情柔弱之人,在其家族中竟让少女长大成人!

5.97.16

मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।
कुलत्रयं संशयितं कुरुते कन्यका सताम् ॥ ५.९७.१६ ॥

少女出嫁之处,母族与父族,即三族,都陷入疑虑;少女对善人便是如此。

5.97.17

देवमानुषलोकौ द्वौ मानुषेणैव चक्षुषा ।
अपगाह्यैव विचितौ न च मे रोचते वरः ॥ ५.९७.१७ ॥

我已用凡人的眼睛仔细搜寻了神界与人界两个世界,却没有一个求婚者能让我满意。

5.97.18

न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् ।
अरोचयद्वरकृते तथैव बहुलानृषीन् ॥ ५.९७.१८ ॥

为了择婿,她既不喜欢诸神,也不喜欢提提耶,不喜欢乾闼婆,也不喜欢人类;同样,她也不喜欢许多仙人。

5.97.19

भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया ।
मातलिर्नागलोकाय चकार गमने मतिम् ॥ ५.९७.१९ ॥

随后,他在夜里与妻子苏达玛商议后,决定前往那伽界。

5.97.20

न मे देवमनुष्येषु गुणकेश्याः समो वरः ।
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ॥ ५.९७.२० ॥

在神与人之中,我看不到与古那柯希容貌相当的良配;那伽之中必定会有一位。

5.97.21

इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम् ।
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ॥ ५.९७.२१ ॥

他这样向苏达玛告别,右绕她一周,亲吻少女的头顶,然后进入了大地之中。