摩诃婆罗多 · 章 6.100
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.100.1
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः ।
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ॥ ६.१००.१ ॥
阿毗曼由在战车上英勇光辉,驾着黄褐色的良马,冲向难敌的庞大军队。
6.100.2
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ।
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ॥ ६.१००.२ ॥
他们如云降雨般倾泻箭雨,却无法在战场上阻挡愤怒的苏跋陀罗之子、敌人的摧毁者。
6.100.3
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् ।
निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ॥ ६.१००.३ ॥
库鲁之喜,当他投入充满兵器洪流的无尽军海时,你的战士们在战斗中甚至无法阻挡他。
6.100.4
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः ।
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥ ६.१००.४ ॥
大王啊,他在战场上射出的灭敌之箭,把英勇的刹帝利送往阎摩王的居所。
6.100.5
यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् ।
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥ ६.१००.५ ॥
如阎摩之杖般可怖,如燃烧的毒蛇一般,愤怒的苏跋陀罗之子在战场上射出了箭矢。
6.100.6
सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः ।
गजारोहांश्च सगजान्दारयामास फाल्गुनिः ॥ ६.१००.६ ॥
法尔古尼之子迅速摧毁了战车武士及其战车、骑兵及其战马、象兵及其战象。
6.100.7
तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः ।
पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥ ६.१००.७ ॥
众王见他在战场上的伟大功绩,欢喜不已,向他致敬,并赞扬了法尔古尼(阿周那)。
6.100.8
तान्यनीकानि सौभद्रो द्रावयामास भारत ।
तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ॥ ६.१००.८ ॥
婆罗多啊,娑菩陀罗(阿毗曼尤)驱散了那些军队,如同风在空中把棉絮堆吹向四面八方。
6.100.9
तेन विद्राव्यमाणानि तव सैन्यानि भारत ।
त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ॥ ६.१००.९ ॥
婆罗多啊,你的军队被他驱赶,却找不到庇护者,如同陷入泥沼的岛屿。
6.100.10
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम ।
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥ ६.१००.१० ॥
最优秀的人啊,国王,他驱散了你的全部军队,阿毗曼尤屹立不动,如同无烟的熊熊烈火。
6.100.11
न चैनं तावका राजन्विषेहुररिघातिनम् ।
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ॥ ६.१००.११ ॥
国王啊,你的战士们无法抵挡这位击杀敌人者,正如被命运驱使的飞蛾无法承受熊熊烈火。
6.100.12
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।
अदृश्यत महेष्वासः सवज्र इव वासवः ॥ ६.१००.१२ ॥
般度之子中的大车士、大弓手,击打一切敌人,显得如同手持金刚杵的因陀罗。
6.100.13
हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः ।
तोयदेषु यथा राजन्राजमाना शतह्रदा ॥ ६.१००.१३ ॥
君王啊,他那金背之弓在四方旋转可见,如同雨云中闪耀的百道闪电。
6.100.14
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥ ६.१००.१४ ॥
君王啊,战场上他锋利的箭矢飞射而出,如同从开满花的树林中飞出的蜂群。
6.100.15
तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ॥ ६.१००.१५ ॥
同样,当大度的苏跋德拉之子移动时,人们在他那金饰战车上看不到任何空隙。
6.100.16
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम् ।
सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ॥ ६.१००.१६ ॥
他迷惑了克里帕、德罗纳、德罗尼以及拥有庞大军队的信度王之后,这位大弓箭手迅速而极为娴熟地来回穿梭。
6.100.17
मण्डलीकृतमेवास्य धनुः पश्याम भारत ।
सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम् ॥ ६.१००.१७ ॥
婆罗多啊,我们看见他的弓成圆形,如同太阳之盘,焚烧着你的军队。
6.100.18
तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् ।
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥ ६.१००.१८ ॥
勇猛的刹帝利看见他光芒四射、迅捷而强大,因为他的业绩,认为此世间又有了第二个法尔古那。
6.100.19
तेनार्दिता महाराज भारती सा महाचमूः ।
व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ॥ ६.१००.१९ ॥
大王啊,被他折磨的那支婆罗多大军,像被女色之醉所control一般,四处踉跄徘徊。
6.100.20
द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् ।
नन्दयामास सुहृदो मयं जित्वेव वासवः ॥ ६.१००.२० ॥
他冲散了大军,使大车将们战栗,令朋友们欢喜,正如因陀罗战胜摩耶之时。
6.100.21
तेन निद्राव्यमाणानि तव सैन्यानि संयुगे ।
चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम् ॥ ६.१००.२१ ॥
被他折磨的你的军队在战场上发出可怕的哀号,如同雷云的轰鸣。
6.100.22
तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ ६.१००.२२ ॥
婆罗多啊,听到你军中那可怕的吼声,如同满月潮汐中被风激起的大海之势。
6.100.23
दुर्योधनस्तदा राजन्नार्श्यशृङ्गिमभाषत ।
एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः ॥ ६.१००.२३ ॥
大王啊,那时难敌对仙人阿尔希亚什林基说:“这位大臂的黑天之子,宛如第二个法尔古那(阿周那)。”
6.100.24
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ।
तस्य चान्यत्र पश्यामि संयुगे भेषजं महत् ॥ ६.१००.२४ ॥
他怒气冲冲地冲散军队,如同弗栗多冲散诸神之军;但在战场上,我看到对他有大药,在别处。
6.100.25
ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम् ।
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ॥ ६.१००.२५ ॥
除你之外,罗刹中的最强者、通晓一切学问的人啊,快去在战场上杀死那位英雄,苏婆陀罗之子。
6.100.26
वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः ।
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ॥ ६.१००.२६ ॥
“我们在毗湿摩与德罗纳的率领下,将杀死般度之子。”如此说罢,那强大而威猛的罗刹之王——
6.100.27
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ।
नर्दमानो महानादं प्रावृषीव बलाहकः ॥ ६.१००.२७ ॥
遵从你儿子的命令,他迅速奔赴战场,像雨季的云一样发出巨大的吼声。
6.100.28
तस्य शब्देन महता पाण्डवानां बलं महत् ।
प्राचलत्सर्वतो राजन्वातोद्धूत इवार्णवः ॥ ६.१००.२८ ॥
大王啊,因他巨大的吼声,般度诸子的大军四面八方都震动起来,如同被风吹动的海洋。
6.100.29
बहवश्च महाराज तस्य नादेन भीषिताः ।
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥ ६.१००.२९ ॥
大王啊,许多人被他的吼声吓得丧失了宝贵的性命,倒卧在地上。
6.100.30
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः ।
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥ ६.१००.३० ॥
克里希那之子也满怀欢喜,拿起配有箭的弓,仿佛在车上起舞一般,向那罗刹冲去。
6.100.31
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे ।
नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ॥ ६.१००.३१ ॥
于是那愤怒的罗刹在战场上接近阿周那,驱散了站在不远处的他的军队。
6.100.32
तां वध्यमानां च तथा पाण्डवानां महाचमूम् ।
प्रत्यद्ययौ रणे रक्षो देवसेनां यथा बलः ॥ ६.१००.३२ ॥
看到般度之子那支大军如此被杀,罗刹便在战场上扑向它,正如钵罗(Bala)扑向诸神之军。
6.100.33
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष ।
रक्षसा घोररूपेण वध्यमानस्य संयुगे ॥ ६.१००.३३ ॥
啊,摩利沙,那支军队在战场上被形貌可怖的罗刹所杀,遭到极大的屠戮。
6.100.34
ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम् ।
व्यद्रावयद्रणे रक्षो दर्शयतत्स्वपराक्रमम् ॥ ६.१००.३४ ॥
于是那罗刹以千支箭在战场上驱散了般度之子的那支大军,展示了自己的威力。
6.100.35
सा वध्यमाना च तथा पाण्डवानामनीकिनी ।
रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥ ६.१००.३५ ॥
般度之子的那支军队被形貌可怖的罗刹如此杀戮,在战场上因恐惧而逃散。
6.100.36
प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा ।
ततोऽभिद्रद्राव रणे द्रौपदेयान्महाबलान् ॥ ६.१००.३६ ॥
如象踏莲池,他在战场上碾碎了军队,随后冲向了强大的德劳帕蒂之子们。
6.100.37
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः ।
राक्षसं दुद्रुवुः सङ्ख्ये ग्रहाः पञ्च रविं यथा ॥ ६.१००.३७ ॥
愤怒的那些大弓箭手、德罗波蒂的儿子们,发起攻击,在战场上冲向罗刹,如同五颗行星奔向太阳。
6.100.38
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः ।
यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥ ६.१००.३८ ॥
于是,那位罗刹中的最优者,被那些勇猛的战士所困扰,如同在可怕的劫末被五颗行星所困的月亮。
6.100.39
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः ।
सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ॥ ६.१००.३९ ॥
于是,大力的般罗天德耶迅速用来自四面八方、锋利且尖端未钝的箭射穿了罗刹。
6.100.40
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः ।
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ ६.१००.४० ॥
那位罗刹中的最优者,铠甲被他们射穿,如同大云被太阳的光芒穿透而闪耀。
6.100.41
विषक्तैः सशरैश्चापि तपनीयपरिच्छदैः ।
आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥ ६.१००.४१ ॥
大王啊,他身上插满箭矢,覆盖金饰,如同山峰闪耀的阿尔耶希林伽山般光辉。
6.100.42
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे ।
विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः । ॥ ६.१००.४२ ॥
于是那五位兄弟在大战中,用饰有黄金的锐利箭矢射穿了罗刹之王。
6.100.43
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव ।
अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥ ६.१००.४३ ॥
他被可怕的箭射穿,仿佛被愤怒的毒蛇所咬。大王啊,阿兰布沙如象王一般大怒。
6.100.44
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष ।
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥ ६.१००.४४ ॥
他身受重伤,大王啊,尊者啊,片刻之间陷入了深深的黑暗,被那些大车将所折磨。
6.100.45
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः ।
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ॥ ६.१००.४५ ॥
随后他恢复神志,怒气加倍,用箭斩断了他们的旗帜和弓。
6.100.46
एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव ।
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥ ६.१००.४६ ॥
他以五支箭射中每一人,仿佛在微笑;阿兰布沙,那位大车将,仿佛在车座上舞蹈。
6.100.47
त्वरमाणः सुसंबद्धो हयांस्तेषां महात्मनाम् ।
जघान राक्षसः क्रुद्धः सारथींश्च सहस्रशः ॥ ६.१००.४७ ॥
罗刹急速而又武装齐备,怒气冲冲地杀死了那些大德者的马匹,也成千地杀死了御者。
6.100.48
बिभेद च सुसंरब्धः पुनश्चैनान्सुतांशितैः ।
शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥ ६.१००.४८ ॥
他又极为愤怒,用经车工磨砺、形状各异的箭,成百上千地射穿了他们。
6.100.49
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः ।
अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥ ६.१००.४९ ॥
罗刹使诸大弓手失去战车,随即急速冲上前去,欲将他们杀死。
6.100.50
तानर्दितान्रणे तेन राक्षसेन दुरात्मना ।
दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ॥ ६.१००.५० ॥
阿周那之子见众人被那心怀恶意的罗刹在战场上折磨,便冲向罗刹。
6.100.51
तयोः समभवद्युद्धं वृत्रवासवयोरिव ।
ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ॥ ६.१००.५१ ॥
二人之间展开了一场如同弗栗多与婆薮之间的战斗;你方众人与般度五子都互相注视着。
6.100.52
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् ।
महाबलौ महाराज क्रोधसंरक्तलोचनौ ॥ ६.१००.५२ ॥
二人在大战中相遇,怒火熊熊,彼此都极为强大,大王啊,双眼因愤怒而通红。
6.100.53
परस्परमवेक्षेतां कालानलसमौ युधि ।
आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम् ।
तयोः समागमो घोरो बभूव कटुकोदयः ॥ ६.१००.५३ ॥
二人在战场上如时间之火一般,以双眼相视,如同愤怒的毒蛇。他们的相遇变得骇人,结局苦涩。
6.100.54
यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा ॥ ६.१००.५४ ॥
正如往昔天神与阿修罗之战中,帝释天与商婆罗之间所发生的那样。