Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.101

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.101.1

आर्जुनं समरे शूरं विनिघ्नन्तं महारथान् ।
अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ॥ ६.१०१.१ ॥

桑闍耶啊,英勇的阿周那在战场上杀死大车战士,阿兰布沙如何与他交战?

6.101.2

आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा ।
तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे ॥ ६.१०१.२ ॥

摧毁敌方英雄的萨布德拉,如何与阿尔希亚什林吉交战?请如实告诉我战场上发生的一切。

6.101.3

धनंजयश्च किं चक्रे मम सैन्येषु संयुगे ।
भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥ ६.१०१.३ ॥

在战斗中,我的军队之间,达那嘉耶做了什么?或者车战者中最优秀的毗摩,或罗刹瘦身者做了什么?

6.101.4

नकुलः सहदेवो वा सात्यकिर्वा महारथः ।
एतदाचक्ष्व मे सत्यं कुशलो ह्यसि सञ्जय ॥ ६.१०१.४ ॥

或者那黑天、偕天,以及大车战士萨提亚基做了什么?桑闍耶啊,你很有智慧,请如实告诉我。

6.101.5

हन्ते तेऽहं प्रवक्ष्यामि संग्रामं रोमहर्षणम् ।
यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥ ६.१०१.५ ॥

陛下,我将向您讲述罗刹之王与苏跋陀罗之子之间那场令人毛骨悚然的战斗。

6.101.6

अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥ ६.१०१.६ ॥

阿周那、毗摩森那,以及般度之子那拉和萨诃提婆,在战斗中如何展现勇猛——

6.101.7

तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः ।
अद्भुतानि विचिन्राणि चक्रुः कर्माण्यभीतवत् ॥ ६.१०१.७ ॥

同样,以毗湿摩和德罗纳为首的你方所有人,像无所畏惧一样,施展了奇妙而多样的功业。

6.101.8

अलम्बुसस्तु समरे अभिमन्युं महारथम् ।
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ॥ ६.१०१.८ ॥

然而阿兰布沙在战场上发出巨大的吼声,一再恐吓大车战士阿毗曼尤。

6.101.9

अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ।
अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ॥ ६.१०१.९ ॥

他疾速冲上前,说道:“站住,站住!”阿毗曼尤也迅速前进,像狮子一样一再吼叫。

6.101.10

आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् ।
ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ॥ ६.१०१.१० ॥

于是,那人与罗刹二人,在战斗中急速靠近那位大弓箭手阿尔希亚辛里伽,他是(阿毗曼尤)父亲的死敌。

6.101.11

रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ ।
मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ॥ ६.१०१.११ ॥

两位最优秀的车战士,驾着各自的战车,宛如天神与檀那婆。精通幻术的罗刹之首、持有神圣武器的法尔古尼之子(阿周那)也在那里。

6.101.12

ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः ।
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ॥ ६.१०१.१२ ॥

大王啊,那位克里希那一族的后裔,在战斗中用三支锐利的箭射穿了阿尔希亚辛里伽,接着又用五支箭射中了他。

6.101.13

अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः ।
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ॥ ६.१०१.१३ ॥

阿兰布沙亦怒不可遏,以九支疾箭猛烈刺入迦尔什尼胸中,如刺棒刺入大象。

6.101.14

ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।
अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ॥ ६.१०१.१४ ॥

于是那迅捷的夜行者在战场上以千箭折磨阿周那之子,婆罗多啊。

6.101.15

अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः ।
बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ॥ ६.१०१.१५ ॥

于是愤怒的阿毗曼纽以九支弯节利箭射穿罗刹王宽阔的胸膛。

6.101.16

ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु ।
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ॥ ६.१०१.१६ ॥

那些箭迅速穿透他的身体,射入要害;他全身被箭所穿,那位罗刹中的上士却光彩照人。

6.101.17

पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ।
स संदधानश्च शरान्हेमपुङ्खान्महाबलः ॥ ६.१०१.१७ ॥

大王啊,犹如被盛开的紫荆树覆盖的山峰;那大力者搭上金羽之箭。

6.101.18

विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ।
ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ॥ ६.१०१.१८ ॥

罗刹中的上士如燃烧的山峰般光彩照人。随后,大王啊,怒不可遏、不能忍耐的阿尔希耶尚耆——

6.101.19

महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः ।
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ॥ ६.१०१.१९ ॥

与因陀罗相等的黑天之子以箭遮蔽了他。他射出的锐利箭矢如同阎摩的权杖。

6.101.20

अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् ।
तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ॥ ६.१०१.२० ॥

它们穿透阿毗曼尤之后,没入大地表面。阿周那所射的饰金之箭亦复如此。

6.101.21

अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ।
सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ॥ ६.१०१.२१ ॥

它们穿透阿兰布沙之后,没入大地表面。而苏跋陀罗之子在战场上以关节弯曲的箭射向这罗刹。

6.101.22

चक्रे विमुखमासाद्य बलं शक्र इवाहवे ।
विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ॥ ६.१०१.२२ ॥

如同因陀罗在战场上追上军队使之回转,他使罗刹军溃退。那在战场上背转身去的罗刹,被敌人在战斗中击打着,

6.101.23

प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् ।
ततस्ते तमसा सर्वे वृताश्चासन्महीपते ॥ ६.१०१.२३ ॥

他施展了摧毁敌人的大幻术,即黑暗之幻术。于是,大王啊,他们全都被黑暗笼罩。

6.101.24

नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ।
अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ॥ ६.१०१.२४ ॥

他们在战场上既看不见阿毗曼尤,也看不见自己人,也看不见敌人。阿毗曼尤见到那可怖形态的巨大黑暗,

6.101.25

प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः ।
ततः प्रकाशमभवज्जगत्सर्वं महीपते ॥ ६.१०१.२५ ॥

库鲁族的欢喜者放出了极其可怕的太阳神箭。于是,大地之主啊,整个世界都充满了光明。

6.101.26

तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः ।
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ॥ ६.१०१.२६ ॥

他摧毁了那恶毒罗刹的幻术。那位大力的人中之最,怒火中烧,向罗刹王发起攻击。

6.101.27

छादयामास समरे शरैः सन्नतपर्वभिः ।
बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ॥ ६.१०१.२७ ॥

他在战斗中以弯曲节结的箭矢将其遮蔽,那罗刹所施放的许多其他幻术也一并被遮蔽。

6.101.28

सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ।
हतमायं ततो रक्षो वध्यमानं च सायकैः ॥ ६.१०१.२८ ॥

精通一切兵器、灵魂无量的法尔古尼抵挡了它;于是幻术被摧毁,那罗刹被箭矢射中,

6.101.29

रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात् ।
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ॥ ६.१०१.२९ ॥

他便弃下战车,在巨大恐惧中逃走。当那狡诈的罗刹战士迅速被击败之时,

6.101.30

आर्जुनिः समरे सैन्यं तावकं संममर्द ह ।
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥ ६.१०१.३० ॥

阿周那之子在战斗中踩踏了你的军队,如同被情欲蒙蔽双眼的野生象王践踏布满莲花的池塘。

6.101.31

ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाऽभिविद्रुतम् ।
महता शरवर्षेण सौभद्रं पर्यवारयत् ॥ ६.१०१.३१ ॥

于是,శantanu之子毗湿摩见军队四散奔逃,便以大量箭雨包围了苏跋陀罗之子。

6.101.32

कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथः ।
एवं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥ ६.१०१.३२ ॥

如笼中困兽般包围那位英雄,持大车的德罗陀罗之子般的大车武士们在战斗中以众多箭矢猛烈射击他。

6.101.33

स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।
सदृशो वासुदेवस्य विक्रमेण बलेन च ॥ ६.१०१.३३ ॥

这位英雄勇武与其父相当,在那些大车武士中,其威力与力量都与瓦苏提婆(克里希那)相似。

6.101.34

उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥ ६.१०१.३४ ॥

他在战斗中以多种方式完成了既配得上父亲、也配得上舅舅的功绩;他是所有持械者中最杰出的。

6.101.35

ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान् ।
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥ ६.१०१.३५ ॥

于是英雄德南闍耶杀戮你的士兵,怀着护卫儿子的愿望,愤怒地在战斗中来到毗湿摩身边。

6.101.36

तथैव समरे राजन्पिता देवव्रतस्तव ।
आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥ ६.१०१.३६ ॥

同样,大王,你的父亲提婆跋多在战斗中走近了般度之子,犹如罗睺接近太阳一样。

6.101.37

ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर ।
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥ ६.१०१.३७ ॥

于是,人主啊,你的儿子们与战车、象兵和马兵一同在战场上包围了毗湿摩,从四面八方保护他。

6.101.38

तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् ।
रणाय महते युक्ता दंशिता भरतर्षभ ॥ ६.१०१.३८ ॥

同样,国王啊,般度之子们披甲备战,准备大战,将持财(阿周那)团团围住,婆罗多族的雄牛啊。

6.101.39

शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् ।
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥ ६.१०१.३९ ॥

国王啊,于是沙罗伯多(克里巴)用二十五支箭将站在毗湿摩面前的阿周那完全覆盖。

6.101.40

प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः ।
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥ ६.१०१.४० ॥

于是萨提亚基上前,为了般度之子所钟爱者的利益,以锐利的箭射穿了他,如同老虎扑向大象。

6.101.41

गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः ।
हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः ॥ ६.१०१.४१ ॥

乔达摩(克里巴)也急速地、极为愤怒地,用九支饰有鹤羽的箭射中了摩陀婆(萨提亚基)的胸膛。

6.101.42

शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान् ।
गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम् ॥ ६.१०१.४२ ॥

于是,沙伊涅耶(萨提亚基)也愤怒而迅捷,弯弓迅速搭上一支必将置乔达摩于死地的箭。

6.101.43

तमापतन्तं वेगेन शक्राशनिसमद्युतिम् ।
द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः ॥ ६.१०१.४३ ॥

德罗纳之子怒不可遏,将疾速扑来、光彩如因陀罗雷霆的箭一劈为二。

6.101.44

समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः ।
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥ ६.१०१.४४ ॥

于是车战勇士中的最佳者 Śaineya 舍弃了 Gautama,在战场上向德罗纳之子猛扑过去,犹如罗睺在天空扑向月亮。

6.101.45

तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत ।
अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥ ६.१०१.४५ ॥

婆罗多之子啊,德罗纳之子将他的弓斩为两段;随后,又以箭射击这位失去弓的人。

6.101.46

सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् ।
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥ ६.१०१.४६ ॥

他又取来另一张弓,能够摧敌且承受重力;大王啊,他以六十支箭射中德罗纳之子的双臂与胸膛。

6.101.47

स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः ।
निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः ॥ ६.१०१.४७ ॥

他身受箭伤,痛苦不堪,片刻昏厥,坐在战车底板上,紧抓着旗杆。

6.101.48

प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् ।
वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत् ॥ ६.१०१.४८ ॥

随后苏醒过来的勇猛德罗纳之子,怒火中烧,在战场上以铁箭射中了毗湿尼族的萨谛耶基。

6.101.49

शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् ।
वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥ ६.१०१.४९ ॥

他刺穿了舍奈耶,钻入大地之中,如同春天里强健的小蛇钻入洞穴。

6.101.50

अथापरेण भल्लेन माधवस्य ध्वजोत्तमम् ।
चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह ॥ ६.१०१.५० ॥

接着,德罗纳之子又以另一支钵罗射断了摩陀婆的上好旗帜,并发出狮子般的吼声。

6.101.51

पुनश्चैनं शरैर्घोरैश्छादयामास भारत ।
निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥ ६.१०१.५१ ॥

婆罗多的后代啊,他又以可怕的箭矢遮蔽了他,如同夏末的云遮蔽太阳,伟大的君王啊。

6.101.52

सात्यकोऽपि महाराज शरजालं निहत्य तत् ।
द्रौणिमभ्याकिरत्तूर्णं शरजालैरनेकधा ॥ ६.१०१.५२ ॥

伟大的君王啊,萨提亚基也摧毁了那张箭网,迅速以多种方式用箭网覆盖德罗纳之子。

6.101.53

तापयामास च द्रौणिं शैनेयः परवारहा ।
विमुक्तो मेघजालेन यथैव तपनस्तथा ॥ ६.१०१.५३ ॥

敌方战士的杀灭者舍奈耶灼烧了德罗纳之子,如同摆脱云网的太阳炽热照耀。

6.101.54

शराणां च सहस्रेण पुनरेव समुद्यतः ।
सात्यकिश्छादयामास ननाद च महाबलः ॥ ६.१०१.५४ ॥

以千支箭再次奋起,大力的萨提亚基遮蔽了他,并发出怒吼。

6.101.55

दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम् ।
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥ ६.१०१.५५ ॥

见其子如被罗睺所吞的月亮,威猛的婆罗堕遮(德罗纳)便向施尼之子(萨蒂亚基)冲去。

6.101.56

विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे ।
परीप्सन्खसुतं राजन्वार्ष्णेयेनाभिपीडितम् ॥ ६.१०१.५६ ॥

大王啊,他想保护被伐栗尼(萨蒂亚基)在大战中紧逼的儿子,便以极锐利的箭射中了对方。

6.101.57

सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम् ।
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥ ६.१०१.५७ ॥

然而萨蒂亚基在战斗中舍弃了那位师子之子大勇士,以二十支四面而至的箭射中了德罗纳。

6.101.58

तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः ।
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥ ६.१०१.५८ ॥

与此同时,灵魂无量、使敌人痛苦的贡蒂之子(阿周那)愤怒地以大勇士之姿在战场上冲向德罗纳。

6.101.59

ततो द्रोणश्च पार्थश्च समेयातां महामृधे ।
यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥ ६.१०१.५९ ॥

于是,大王啊,德罗纳与帕尔塔在大战中相遇,如水星与金星在天空相会。