摩诃婆罗多 · 章 6.103
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.103.1
मध्यंदिनो महाराज संग्रामः समपद्यत ।
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥ ६.१०३.१ ॥
大王啊,正午时分,毗湿摩与苏摩迦人之间爆发了毁灭世界的可怕战斗。
6.103.2
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् ।
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ॥ ६.१०३.२ ॥
恒河之子毗湿摩,车战者中的第一人,以利箭将般度军队成百上千地击散。
6.103.3
संममर्द च तत्सैन्यं पिता देवव्रतस्तव ।
मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम् ॥ ६.१०३.३ ॥
大王啊,你的父亲提婆跋罗多蹂躏了那支军队,犹如狮子扑入鹿群,将其践踏。
6.103.4
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा ।
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥ ६.१०३.४ ॥
猛光、尸肯丁、毗罗吒,以及德鲁波陀,在战场上靠近毗湿摩,用箭射伤了这位大车战者。
6.103.5
धृष्टद्युम्नं ततो विद्ध्वा विराटं च शरैस्त्रिभिः ।
द्रुपदस्य च नाराचं प्रेषयामास भारत ॥ ६.१०३.५ ॥
随后,他以各三箭射中猛光与毗罗吒,又向德鲁波陀射出一支铁箭,婆罗多的后裔啊。
6.103.6
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना ।
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥ ६.१०३.६ ॥
大王啊,被折磨敌人的毗湿摩所射伤的大弓手们在战场上愤怒起来,犹如被踩在脚下的毒蛇。
6.103.7
शिखण्डी तं च विव्याध भरतानां पितामहम् ।
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥ ६.१०३.७ ॥
尸existing 也射中了婆罗多族的祖父,但不坠者(阿周那)心中视他为女身,并未向他射击。
6.103.8
धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् ।
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ६.१०३.८ ॥
而在战斗中因愤怒而如火燃烧的达瑞什塔笃姆那,以三支箭射中祖父的双臂与胸膛。
6.103.9
द्रुपदः पञ्चविंशत्या विराटो दशमिः शरैः ।
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥ ६.१०३.९ ॥
德鲁帕达以二十五支箭射中毗湿摩,毗罗吒以十支,尸吉赞迪以二十五支箭射中毗湿摩。
6.103.10
सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः ।
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥ ६.१०३.१० ॥
大王啊,他身受重创,浸透在血流之中,犹如春天里开满斑斓花朵的红色无忧树。
6.103.11
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः ।
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥ ६.१०३.११ ॥
恒河之子以每人三支笔直的箭回击他们,啊,尊者,并以一支新月形箭斩断了德鲁帕达的弓。
6.103.12
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः ।
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥ ६.१०३.१२ ॥
他又拿起另一张弓,以五支箭射中毗湿摩,并在战阵前方以三支极锐利的箭射中他的御者。
6.103.13
तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः ।
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥ ६.१०३.१३ ॥
大王,同样,还有比摩、德罗波蒂的五个儿子、俱颾王女的五位兄弟,以及萨特瓦塔族的萨谛奇。
6.103.14
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया ।
प्रति रक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे ॥ ६.१०३.१४ ॥
依照坚战的命令,他们在战场上以德里什塔祖姆那为首,冲向恒河之子毗湿摩,以保护自己人。
6.103.15
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः ।
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥ ६.१०३.१५ ॥
同样,你的所有部下都准备保卫毗湿摩,与各自的军队一起冲向般度军队,人主啊。
6.103.16
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् ।
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥ ६.१०३.१६ ॥
你的部下与他们之间爆发了一场极其惨烈、混乱的大战,使阎摩的国度因人、马、车和象而扩大。
6.103.17
रथी रथिनमासाद्य प्राहिणोद्यमसादनम् ।
तथेतरान्समासाद्य नरनागाश्वसादिनः ॥ ६.१०३.१७ ॥
一名车将遇到另一名车将,便将他送往阎摩之处;其他人也同样遇到步卒、象骑和马骑,将他们送往那里。
6.103.18
अनयन्परलोकाय शरैः सन्नतपर्वभिः ।
शरैश्च विविधैर्घोरैस्तत्रतत्र विशांपते ॥ ६.१०३.१८ ॥
他们用弯曲节端的箭将他们送往另一个世界,人主啊,而且在这里那里还用各种可怕的箭。
6.103.19
रथास्तु रथिभिर्हीना हतसारथयस्तथा ।
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥ ६.१०३.१९ ॥
战车失去了战士,御者也已被杀,马匹在溃逃中四散,他们在战场上向四面八方逃去。
6.103.20
मृद्गन्तस्ते नरान्राजन्हयांश्च सुबहून्रणे ।
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥ ६.१०३.२० ॥
大王啊,在战场上,可以看见他们踩踏许多人与马,在风中摇摆,如同乾闼婆城。
6.103.21
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः ।
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः ॥ ६.१०३.२१ ॥
战士们失去了战车,却身披铠甲、光彩照人,戴着耳环和头巾,个个都佩戴着项链与臂钏。
6.103.22
देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि ।
ऋद्ध्या वैश्रवणां चाति नयेन च बृहस्पतिम् ॥ ६.१०३.२२ ॥
他们个个如同天神之子,在战场上的勇武与因陀罗相等;财富超过毗沙门,智谋甚至超过歌神brihaspati。
6.103.23
सर्वलोकेश्वराः शूरास्तत्रतत्र विशांपते ।
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥ ६.१०३.२३ ॥
人主啊,那些统治一切世界的英雄,在四处溃散奔逃,看上去竟如同普通人一般。
6.103.24
दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः ।
मृद्गन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ॥ ६.१०३.२४ ॥
人中之雄啊,失去了优秀御象人的大象,践踏着自己的军队,在各种喧嚣中奔跑,猛然扑向他们。
6.103.25
चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष ।
छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः ॥ ६.१०३.२५ ॥
尊者啊,盾牌、五彩拂尘和旗幡,白伞和金柄拂尘,四面八方(军队都装饰着)。
6.103.26
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश ।
नवमेघप्रतीकाशा जलदोपमनिःस्वनाः ॥ ६.१०३.२६ ॥
乘着破碎的(战车)四散奔逃,在十方都可看见,如新云一般,发出如雨云般的轰鸣。
6.103.27
तथैव दन्तिभिर्हीना गजारोहा विशांपते ।
प्रधावन्तोऽन्वदृश्यन्त तव तेषां च संकुले ॥ ६.१०३.२७ ॥
同样,失去大象的象夫们,哦人主,在你的人与他们的人混乱之中奔逃。
6.103.28
नानादेशसमुत्थांश्च तुरगान्हेमभीषितान् ।
वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥ ६.१०३.२८ ॥
来自各地、饰以黄金、疾如风的马匹,我看到成百上千。
6.103.29
अश्वारोहान्हतैरश्वैर्गृहीतासन्समन्ततः ।
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥ ६.१०३.२९ ॥
骑兵因战马被杀而四面受困;我们看到在战斗中逃跑和被驱赶的人。
6.103.30
गजो गजं समासाद्य द्रवमाणं महाहवे ।
ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा ।
तथैव च रथान्राजन्प्रममर्द रणे गजः ॥ ६.१०३.३० ॥
一头大象在大战中遇到另一头逃跑的大象,将其踩碎,迅速前行,践踏步兵和马匹;同样,哦国王,在战斗中大象也踩碎了战车。
6.103.31
रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि ।
व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे ॥ ६.१०३.३१ ॥
战车也冲上前去,在战场上碾碎了倒在地上的马匹,大王,还有马匹和人……
6.103.32
एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम् ।
दृश्यन्तेस्म महाबाहो तत्रतत्र महाबलाः ॥ ६.१०३.३२ ॥
如此,他们以多种方式彼此碾压,大王;大臂者啊,到处都能看见那些大力的战士……
6.103.33
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये ।
प्रावर्तत नदी घोरा शोमितान्त्रतरङ्गिणी ॥ ६.१०३.३३ ॥
在那残酷的战斗如此进行之际,在巨大的危险中,一条可怕的河流开始奔涌,波涛是鲜血与肠子。
6.103.34
अस्थिसङ्घातसंबाधा केशशैवलाद्वला ।
रथह्रदा शरावर्ता हयमीना दुरासदा ॥ ६.१०३.३४ ॥
骨堆充塞,发为水草,战车为深潭,箭为漩涡,马为游鱼,难以靠近。
6.103.35
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला ।
कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा ॥ ६.१०३.३५ ॥
布满头颅如石,象群如鳄,甲胄与头巾的泡沫汹涌,弓弦之势,剑如龟。
6.103.36
शङ्खनक्रौघसंकीर्णा छत्रकूर्मरथोडुपा ।
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी ।
क्रव्यादहंससंकीर्णा यमराष्ट्रविवर्धनी ॥ ६.१०३.३६ ॥
满是贝壳般的鳄群,伞盖如龟,战车如舟,旗幡如树林丰茂,冲走凡人的河岸,布满食肉的天鹅,增长阎摩的王国。
6.103.37
तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः ।
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महारथाः ॥ ६.१०३.३७ ॥
大王啊,许多英勇的刹帝利和大车战士,抛开恐惧,以战车、象和马作为筏子渡过了那条河。
6.103.38
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् ।
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥ ६.१०३.३८ ॥
正如维塔兰尼河将亡灵冲向阎王之城,它在战场上冲走了被迷惑所笼罩的怯懦之人。
6.103.39
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् ।
दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम् ॥ ६.१०३.३९ ॥
那里的刹帝利们见到如此大的屠杀,纷纷呼喊:因为难敌的过错,刹帝利正走向毁灭。
6.103.40
गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः ।
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥ ६.१०३.४० ॥
人主持国者般度诸子德行高尚,持国王为何对他们生起怨恨?这恶念之人被贪欲所迷惑,才如此行事。
6.103.41
एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् ।
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥ ६.१०३.४१ ॥
如此,颂扬般度五子的各种言语在彼此之间被听到;这些话对你的儿子们来说极其可怕。
6.103.42
ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः ।
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥ ६.१०३.४२ ॥
听到众战士所说的那些话后,你的儿子难敌,是整个世界罪过的根源……
6.103.43
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत ।
युध्यध्वमनहंकराः किं चिरं कुरुथेति च ॥ ६.१०३.४३ ॥
婆罗多啊,他又对毗湿摩、德罗纳、钵罗、沙利耶说:“去掉傲慢而作战。为何迟迟不动?”
6.103.44
इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः ।
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह।
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥ ६.१०३.४४ ॥
杜尤丹那所派遣的诸王便如此作战。于是库鲁族与般度之子开始了战斗。大王啊,那由掷骰子所引起的极其可怕的杀戮,就在那时发生了。
6.103.45
यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः ।
वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम् ॥ ६.१०३.४५ ॥
从前你不加制止,尽管有大德者劝阻。毗其提罗毗尔耶之子啊,请看这极其可怕的果报。
6.103.46
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः ।
रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे ॥ ६.१०३.४६ ॥
大王啊,般度之子与其军队、步兵及随从,在战斗中并不保全自己的性命;俱卢族在战斗中也不保全自己的性命。
6.103.47
एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः ।
दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥ ६.१०३.४७ ॥
因此,人中之虎啊,这种可怕的亲族毁灭正在发生——或是由于天命,或是由于你的不义,大王。