Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.107

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.107.1

युध्यतामेव तेषां तु भास्करेऽस्तमुपागते ।
सन्ध्या समभवद्धोरा नापश्याम ततो रणम् ॥ ६.१०७.१ ॥

他们正在作战时,太阳落山了。可怕的黄昏降临,我们便看不见战场了。

6.107.2

ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत ।
वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम् ॥ ६.१०७.२ ॥

于是国王坚战见黄昏降临,也见自己的军队被毗湿摩击杀,弃置兵器,惊恐失措,啊,婆罗多之后裔!

6.107.3

स्वसैन्यं च परावृत्तं पलायनपरायणम् ।
भीष्मं च युधि संरब्धं पीडयन्तं महारथम् ॥ ६.१०७.३ ॥

他看见自己的军队掉头溃逃,又见毗湿摩在战中震怒,这位大车将正在逼迫他们。

6.107.4

सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् ।
निशामुखं च संप्रेक्ष्य घोररूपं भयानकम्।
चिन्तयित्वा ततो राज्ञामपहारमकारयत् ॥ ६.१०७.४ ॥

他看见索摩迦人被击败,大车将们士气低落,又望见夜幕降临那可怖、骇人的景象,沉思之后便下令让诸王的军队撤退。

6.107.5

ततोऽपहारं सैन्यानां चक्रे राजा युधिष्ठिरः ।
तथैव तव सैन्यानामपहारे ह्यभूत्तदा ॥ ६.१०७.५ ॥

于是国王坚战使军队撤退;同样,那时您的军队也撤退了。

6.107.6

ततोऽपहारं सैन्यानां कृत्वा तत्र महारथाः ।
न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः ॥ ६.१०७.६ ॥

于是撤回军队后,那里的大车将们,啊,俱卢中最优秀者,在战中负伤、遍体鳞伤,各自退入营中。

6.107.7

भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः ।
नालभन्त तदा शान्तिं भीष्मबाणप्रपीडिताः ॥ ६.१०७.७ ॥

般度之子沉思毗湿摩在战场上的功业,被其箭矢所苦,当时无法获得平静。

6.107.8

भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयान् ।
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥ ६.१०७.८ ॥

毗湿摩亦在战中与俱生者一同击败般度之子,受你的儿子们尊崇与礼拜,婆罗多之后。

6.107.9

न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः ।
ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥ ६.१०७.९ ॥

他们与俱卢人一同,面带喜色,从四面入驻。于是夜幕降临,令一切众生迷惑。

6.107.10

तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह ।
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥ ६.१०७.१० ॥

在那可怕的夜幕初临之时,般度之子与毗瑟尼族以及难以战胜的俱生者一同坐下商议。

6.107.11

आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः ।
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥ ६.१०७.११ ॥

众多大力者,心神不乱,善于以谋略做出决断,商议自身的最高利益与当下时机所需。

6.107.12

ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप ।
वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे ॥ ६.१०७.१२ ॥

于是国王坚战商议良久,王啊,注视着婆苏提婆,说出了这番话。

6.107.13

कृष्ण पश्य माहात्मानं भीष्मं भीमपराक्रमम् ।
गजं नलवनानीव विमृद्गन्तं बलं मम ॥ ६.१०७.१३ ॥

克里希那啊,看那伟大的毗湿摩,威力可怖,正践踏我的军队,如同大象践踏芦苇丛。

6.107.14

न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् ।
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥ ६.१०७.१४ ॥

我们甚至不敢直视这位伟大的人,他在军队中舔舐一切,如同烈焰冲天的大火。

6.107.15

यथा घोरो महानागस्तक्षको वै विषोल्बणः ।
तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान् ॥ ६.१०७.१५ ॥

如同毒性凶猛的大蛇德叉迦,在战场上愤怒的毗湿摩手持锐利兵器,威力赫赫。

6.107.16

गृहीतचापः समरे प्रमुञ्चन्निशिताञ्छरान् ।
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥ ६.१०७.१६ ॥

手持弓箭、在战斗中射出利箭的愤怒阎摩,或手持金刚杵的天王,尚可战胜。

6.107.17

वरुणः पाशभृच्चापि सगदो वा धनेश्वरः ।
न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे ॥ ६.१०७.१७ ॥

执索的水神伐楼那,或持杖的财神俱毗罗,尚可战胜;然而极度愤怒的毗湿摩,在大战中却无法战胜。

6.107.18

सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे ।
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥ ६.१०७.१८ ॥

克里希那啊,事已至此,我沉没在忧伤的海洋中。因为我自己智力的薄弱,我在战斗中走向了毗湿摩。

6.107.19

वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम् ।
न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नः सदा ॥ ६.१०७.१९ ॥

无敌者啊,我将前往森林;那里才是我的福祉。克里希那,我不喜欢战斗,因为毗湿摩总是打击我们。

6.107.20

यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् ।
एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान् ॥ ६.१०७.२० ॥

如同扑向熊熊烈火的飞蛾,以一种方式走向死亡,我也是这样,来到毗湿摩面前,(走向死亡)。

6.107.21

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातरश्चैव मे शुराः सायकैर्भृशपीडिताः ॥ ६.१०७.२१ ॥

瓦尔什尼的后裔啊,为了王国,我这勇猛的战士被引向了毁灭;我那英勇的兄弟们也被箭矢深深伤害。

6.107.22

मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः ।
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥ ६.१०७.२२ ॥

因为我的缘故,出于兄弟之情,他们失去王国而进入森林;也因为我的缘故,摩杜苏陀那啊,克里希纳(黑公主)同样陷入了深深的困苦。

6.107.23

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ।
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥ ६.१०७.२३ ॥

我非常珍视生命,因为今天的生命难得。以余下的生命,我将奉行至高的法。

6.107.24

यदि तेऽहमनुग्राह्यो भ्रातृभिः स केशव ।
स्वधर्मस्याविरोधेन हितं व्याहर केशव ॥ ६.१०७.२४ ॥

若我因兄弟之故值得你的恩惠,那么,克沙瓦啊,请在不违背自身法的前提下,对我说有益的话吧,克沙瓦啊。

6.107.25

एवं श्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् ।
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥ ६.१०७.२५ ॥

闻其言已,黑天出于怜悯,详尽地回答,安慰坚战。

6.107.26

धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर ।
यस्य ते भ्रातरः शूरा दुर्जयाः सत्रुसूदनाः ॥ ६.१०७.२६ ॥

法之子,守誓者,莫生忧愁;你的兄弟们都是勇士,不可战胜,是敌人的毁灭者。

6.107.27

अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ ।
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिविश्वरौ ॥ ६.१०७.२७ ॥

阿周那与毗摩森那,光辉与风火相等,乃摩德丽之二勇猛之子,如诸天一般,是不可战胜的主宰。

6.107.28

मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव ।
त्वप्रयुक्तो महाराज किं न कुर्यां महाहवे ॥ ६.१०७.२८ ॥

或者任用我吧,般度之子!出于情谊,我将与毗湿摩交战。大王,受你驱使,在这场大战中我有什么不敢做的呢?

6.107.29

हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् ।
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥ ६.१०७.२९ ॥

若法尔古那(阿周那)不愿,我将在战场上挑战人中之牛毗湿摩,并在持国之子们注视下杀死他。

6.107.30

यदि भीष्मे हते वीरे जयं पश्यसि पण्डव ।
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥ ६.१०७.३० ॥

般度之子,若英雄毗湿摩被杀后你见到胜利,那么今日我将以一辆战车杀死库鲁的长者、祖父。

6.107.31

पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे ।
विमुञ्चन्तं महास्त्रामि पातयिष्यामि तं रथात् ॥ ६.१०७.३१ ॥

大王啊,请看我在战场上的勇猛,如同摩亨陀罗(因陀罗)一般。我将投出大神兵,把他从战车上击落。

6.107.32

यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः ।
मदर्था भवदर्था ये ये मदीयास्तवैव ते ॥ ६.१०७.३२ ॥

凡是般度之子的敌人,无疑也是我的敌人。为我而行的人与为你而行的人,凡属于我的,也正属于你。

6.107.33

तव भ्राता मम सखा संबन्धी शिष्य एव च ।
मांसान्युत्कृत्य दास्यामि फल्गुनार्थे महीपते ॥ ६.१०७.३३ ॥

他是你的兄弟,我的朋友、亲属,也是我的弟子。大地之主啊,为了法尔古那,我将割下自己的血肉交出。

6.107.34

एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् ।
एष नः समयस्तात तारयेम परस्परम् ॥ ६.१०७.३४ ॥

愿这位人中之虎也为我舍弃生命。这就是我们的约定,亲爱的,让我们彼此拯救。

6.107.35

स मां नियुङ्क्ष्व राजेन्द्र यावत्सज्जो भवाम्यहम् ।
प्रतिज्ञातमुपप्लाव्ये यत्तत्पार्थेन पूर्वतः ॥ ६.१०७.३५ ॥

诸王之王啊,在我准备好之前,让他来对付我。这就是普利塔之子先前在邬波那婆耶所立的誓言。

6.107.36

पातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ ।
परिरक्ष्यमिदं तावद्वचः पार्थस्य धीमतः ॥ ६.१०७.३६ ॥

当着乌卢迦的面说:“我将击落甘伽之子(毗湿摩)。”暂且守护好智者普利塔之子的这句话。

6.107.37

अनुज्ञातेन पार्थेन मया कार्यं न संशयः ।
अथवा फल्गुनस्यैष भारः परिमितो रणे ॥ ६.१०७.३७ ॥

若得阿周那允许,我必定完成此事,毫无疑问。或者,在战场上,这一重担只为法尔古那(阿周那)所定。

6.107.38

स हनिष्यति संग्रामे भीष्मं परपुरंजयम् ।
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ॥ ६.१०७.३८ ॥

他将在战斗中杀死征服敌城的毗湿摩。因为准备好作战的般度之子,甚至能完成不可能之事。

6.107.39

त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ।
निहन्त्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ॥ ६.१०७.३९ ॥

在战斗中,阿周那甚至能杀死与提泰耶和檀那婆联合而列阵的诸天神,何况毗湿摩呢,人主啊!

6.107.40

विपरीतो महावीर्यो गतसत्वोऽल्पजीवनः ।
भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ॥ ६.१०७.४० ॥

沙檀努之子毗湿摩,大有威力,如今已站在对立一方;他的力量已耗尽,寿命将尽。他必定不明白应当做什么。

6.107.41

एवमेतन्महाबाहो यथा वदसि माधव ।
सर्वे ह्येते न पर्याप्तास्तव वेगविधारणे ॥ ६.१०७.४१ ॥

大臂的摩陀婆啊,正如你所说;这些人都不足以抵挡你的冲击。

6.107.42

नियतं समावाप्स्यामि सर्वमेतद्यथेप्सितम् ।
यस्य मे पुरुषव्याघ्र भवान्पक्षे व्यवस्थितः ॥ ६.१०७.४२ ॥

人中虎啊,既然你坚定地站在我这一边,我必定能按照我所愿望的获得这一切。

6.107.43

सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर ।
त्वया नाथेन गोविन्द किमु भीष्मं महारथम् ॥ ६.१०७.४३ ॥

胜者中的至尊啊,戈文达,有你作我的庇护,我即便在战场上也能战胜包括因陀罗在内的诸神,何况那位大车战士毗湿摩呢?

6.107.44

न तु त्वामनृतं कर्तुमुत्सहे स्वात्मगौरवात् ।
अयुध्यमानाः सहाय्यं यथोक्तं कुरु माधव ॥ ६.१०७.४४ ॥

然而,出于对自身尊严的珍视,我不敢对你说谎;摩陀婆啊,请按照所说的那样,不参战而施以援助吧。

6.107.45

समयस्तु कृतः कश्चिन्मम भीष्मेण संयुगे ।
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन ॥ ६.१०७.४५ ॥

我与毗湿摩曾在战斗中立下某种约定;我将为你的事情出谋划策,但绝不会以任何方式参战。

6.107.46

दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो ।
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ॥ ६.१०७.४६ ॥

主啊,我为难敌而战,这是真的;摩陀婆啊,他正是赐予我王国、也赐予我谋略的人。

6.107.47

तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ।
भवता सहिताः सर्वे प्रयाम मधुसूदन ॥ ६.१०७.४७ ॥

因此,摩杜苏陀那啊,让我们大家与你一同再去找提婆跋多(毗湿摩),去探问我们自己的毁灭之道。

6.107.48

तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् ।
रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय माचिरम् ॥ ६.१०७.४८ ॥

那么,我们大家一同迅速去见人中最上的毗湿摩吧;伐尔什涅亚啊,若你认为可以,我便向你请教此策,请勿迟疑。

6.107.49

स वक्ष्यति हितं वाक्यं सत्यमस्माज्जनार्दन ।
यथा च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥ ६.१०७.४९ ॥

他将如实说出有益的话,嗟哉者,生主。黑天啊,他如何说,我便如何在战斗中行事。

6.107.50

स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः ।
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥ ६.१०७.५० ॥

他将赐予我们胜利,且在谋略上坚守誓愿。我们这些失去父亲的孩子,正是由他抚养长大的。

6.107.51

तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव ।
पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम् ॥ ६.१०७.५१ ॥

摩达婆啊,若我想杀死那位年老的祖父——我父之父,也是我所敬爱的——那么,刹帝利的生计便当受唾弃。

6.107.52

ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् ।
रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम् ॥ ६.१०७.५२ ॥

于是,大王,婆尔什涅耶(黑天)对俱卢之喜的般度之子说:大智慧者啊,诸王之主啊,你的话我甚为喜欢。

6.107.53

देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् ।
गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम् ॥ ६.१०७.५३ ॥

提婆跋多·毗湿摩精通武艺,即使一瞥也能焚烧。应当前去问那位流入大海之河(恒河)的儿子,他自己的死亡之道。

6.107.54

वक्तमर्हति सत्यं स त्वया पृष्टो विशेषतः ।
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ॥ ६.१०७.५४ ॥

他有资格说出真相,尤其是当你询问时。我们去那里询问俱卢的祖父吧。

6.107.55

गत्वा शान्तनवं वृद्धं मन्त्रं पृच्छाम भारत ।
स नो दास्यति मन्त्रं यं तेन योत्स्यामहे परान् ॥ ६.१०७.५५ ॥

婆罗多之子啊,让我们去请教年迈的桑塔努之子,求他的计策。他会给我们那个计策,我们将凭此与敌人作战。

6.107.56

एवमामन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज ।
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ॥ ६.१०७.५६ ॥

这样互相告别之后,那些英勇的般度五子,啊般度的长子,全都一同前去;威力强大的瓦苏提婆也去了。

6.107.57

विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ।
प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे ॥ ६.१०७.५७ ॥

他们卸下兵器与甲胄,向毗湿摩的住所走去;进入之后,他们向毗湿摩低头致敬。

6.107.58

पूजयन्तो महाराज पाण्डवा भरतर्षभम् ।
प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः ॥ ६.१०७.५८ ॥

大王啊,般度五子敬重婆罗多族的雄牛,向他低头致敬,并投奔毗湿摩寻求庇护。

6.107.59

तानुवाच महाबाहुर्भीष्मः कुरुपितामहः ।
स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ॥ ६.१०७.५९ ॥

大臂的俱卢祖父毗湿摩对他们说:'瓦尔什尼之子,欢迎你;财富征服者,欢迎你。'

6.107.60

स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ।
किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनं ॥ ६.१०७.६० ॥

欢迎法之子、怖军,以及阎摩的两个儿子。今天我能为你们做什么事,以增添你们的喜悦呢?

6.107.61

युद्धादन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ ।
सर्वात्मनापि कर्तास्मि यदपि स्यात्सदुष्करम् ।
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनःपुनः ॥ ६.१०७.६१ ॥

“孩子们啊,除了战争之外,你们都应安心,不要疑虑。即使再困难的事,我也会全力以赴去做。”对如此一再满怀深情说话的甘伽之子(毗湿摩)说道:

6.107.62

उवाच राजा दीनात्मा प्रीतियुक्तमिदं वचः ।
कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि ॥ ६.१०७.६२ ॥

国王心怀忧伤,满怀深情地说道:“全知者啊,我们如何能获胜?我们如何能得到王国?”

6.107.63

प्रजानां संशयो न स्यात्कथं तन्मे बद प्रभो ।
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः ॥ ६.१०७.६३ ॥

“主啊,请告诉我,如何才能使民众不生疑虑。请您亲自告诉我们消灭(敌人)的方法。”

6.107.64

भवन्तं समरे वीर विषहेम कथं वयम् ।
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ॥ ६.१०७.६४ ॥

“英雄啊,在战场上我们如何能抵挡你?库鲁的祖父啊,你身上连最细微的缝隙也没有。”

6.107.65

मण्डलेनैव धनुषा दृश्यसे संयुगे सदा ।
आददानं संदधानं विकर्षन्तं धनुर्न च ॥ ६.१०७.६५ ॥

“在战斗中,你总是只见你把弓在圆圈中挥动;却不见你取箭、搭箭或拉弓。”

6.107.66

पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम् ।
रथाश्वनरनागानां हन्तारं परवीरहन् ॥ ६.१०७.६६ ॥

“大臂者啊,我们看见你在战车上如同另一个太阳——你是车、马、人、象的毁灭者,是敌方英雄的杀手。”

6.107.67

कोऽथवोत्सहते जेतुं वां पुमान्भरतर्षभ ।
वर्षता शरवर्षाणि महान्ति पुरुषर्षभ ॥ ६.१०७.६७ ॥

婆罗多的雄牛啊,人中的雄牛啊!谁敢战胜你们二人,你们正在倾泻大量箭雨?

6.107.68

क्षयं निता हि पृतना संयुगे महती मम ।
यथा युधि जयेम त्वां यथा राज्यं भृशं मम ॥ ६.१०७.६८ ॥

我的大军在战斗中已被引向毁灭。请告诉我们如何在战争中战胜你,以及如何使我的王国得到极大的保障。

6.107.69

मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह ।
ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज ॥ ६.१०७.६९ ॥

“祖父啊,请告诉我,我军的安危何在。”于是,檀努之子、般度的先祖毗湿摩对般度之子们说道。

6.107.70

न कथंचन कौन्तेय मयि जीवति संयुगे ।
जयो भवति सर्वज्ञ सत्यमेतद्ब्रवीमि ते ॥ ६.१०७.७० ॥

昆提之子啊,只要我在战场上活着,胜利绝不会降临于你们。全知者啊,这是我对你说的真话。

6.107.71

निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः ।
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ॥ ६.१०७.७१ ॥

般度之子们啊,只有在战斗中击败我,你们才能在战争中获胜。若你们渴望胜利,就迅速向我发起攻击吧。

6.107.72

अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ।
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् ।
हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥ ६.१०७.७२ ॥

普利塔之子们啊,我允许你们,随意攻击吧。我认为这正是你们应当的善举,因为你们很了解我。我一死,一切都将毁灭;就这样做吧。

6.107.73

ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि ।
भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम् ॥ ६.१०७.७३ ॥

请告诉我们一个能在战斗中获胜的办法,当您在战场上愤怒地手持棍杖,如同死神一般。

6.107.74

शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा ।
न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥ ६.१०७.७४ ॥

手持金刚杵的因陀罗、伐楼那和阎摩都可以被战胜,但您在战场上即便是因陀罗率领的天神与阿修罗也无法战胜。

6.107.75

सत्यमेतन्महाबाहो यथा वदसि पाण्डव ॥ ६.१०७.७५ ॥

大臂的般度之子啊,你所说的确实如此。

6.107.76

नाहं जेतुं रणे शक्यः सेन्द्रैरपि सुरासुरैः ।
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः ॥ ६.१०७.७६ ॥

当我手持武器、在战斗中奋力作战、握着上好的弓时,即便是因陀罗率领的天神与阿修罗也无法战胜我。但若我放下武器,这些大车战士便可能杀死我。

6.107.77

निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे ।
द्रवमाणे च भीते च तवास्मीति च वादिनि ॥ ६.१०७.७७ ॥

放下武器、倒地、卸下铠甲与旗帜、奔逃或恐惧、并说“我是您的”的人。

6.107.78

स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज ।
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रिणि ।
अप्रसूते च षण्डे च न युद्धं रोचते मम ॥ ६.१०७.७८ ॥

法之子啊,我不愿与被女人战胜的人作战,也不愿与以女人为先、把女人置于首位的人,或女子、或冠以女子之名的人,残疾者,只有一子者,未生育者,或宦官作战。

6.107.79

इमं मे शृणु राजेन्द्र संकल्पं पूर्वचिन्तितम् ।
असंकल्पध्वजं दृष्ट्वा न युध्येयं कदाचन ॥ ६.१०७.७९ ॥

王中之王啊,请听我早已思虑的这个决心:见到旗帜不具决心者,我绝不会与之作战。

6.107.80

य एष द्रौपदो राजंस्तव सैन्ये महारथः ।
शिखण्डी समरामर्षी शूरश्च समितिंजयः ॥ ६.१०७.८० ॥

陛下,您军中有这位大车战士,德劳波蒂之子湿婆坎迪,他在战斗中愤怒,英勇,是战场的胜利者。

6.107.81

यथाऽभवच्च स्त्रीपूर्वं पश्चात्पुंस्त्वं समागतः ।
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥ ६.१०७.८१ ॥

他先前是女子,后来才成为男子;这一切您也都确实知道。

6.107.82

अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डीनम् ।
मामेव विशिखैस्तीक्ष्णैरभिद्रवतु दंशितः ॥ ६.१०७.८२ ॥

愿英勇的阿周那让湿婆坎迪走在前面,披甲而急切,在战场上用利箭单独攻击我。

6.107.83

असंकल्पध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः ।
न प्रहर्तुमभीप्सामि गृहीतेषु कथंचन ॥ ६.१०७.८३ ॥

对于那位旗帜不具决心者,尤其是先前为女子的人,无论他以何种方式出现在我面前,我都不愿攻击。

6.107.84

तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः ।
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ॥ ६.१०७.८४ ॥

婆罗多族的雄牛啊,愿般度之子财天(阿周那)抓住那个空隙,迅速从四面八方用箭射伤我。

6.107.85

न तं पश्यामि लोकेष मां हन्याद्यः समुद्यतम् ।
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ॥ ६.१०७.८५ ॥

我在诸世界中看不到能在我进攻时杀死我的人,除了大福的克里希纳或般度之子达难闍耶。

6.107.86

पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः ।
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम् ॥ ६.१०७.८६ ॥

今日让般尸罗(Pārṣata,即湿婆坎丁)站在我面前,让手持良弓、备战于阵中的比波蒂苏(阿周那)将我击倒;如此你的胜利必然确定。

6.107.87

एतत्कुरुष्व कौन्तेय यथोक्तं मम सुव्रत ।
ततो जेष्वसि संग्रामे धार्तराष्ट्रान्समागतान् ॥ ६.१०७.८७ ॥

般度之子(鞠底之子),按我所说的去做,善誓者啊;那样你便能在战场上击败聚集而来的持国诸子。

6.107.88

तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति ।
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥ ६.१०७.८८ ॥

于是,得到许可的般度之子们向俱卢的祖父、大德的毗湿摩致敬,然后返回自己的营地。

6.107.89

तथोक्तवति गाङ्गेये परलोकाय दीक्षिते ।
अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत् ॥ ६.१०७.८९ ॥

甘伽之子如此说罢,他已为后世之路而受戒。悲痛煎熬的阿周那含羞说道:

6.107.90

गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता ।
पितामहेन संग्रामे कथं योद्धास्मि माधव ॥ ६.१०७.९० ॥

摩陀婆啊,我怎能在战场上与我的老师、俱卢中的长者、智慧明达的祖父交战呢?

6.107.91

क्रीडता हि मया बाल्ये वासुदेव महामनाः ।
पांसुरूषितगात्रेण महात्मा परुषीकृतः ॥ ६.१०७.९१ ॥

瓦苏提婆啊!我童年嬉戏时,曾对那位心胸宽广的大德,身上满是尘土的他,出言粗暴。

6.107.92

यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज ।
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥ ६.१०७.९२ ॥

哥陀的长兄啊!我童年时曾爬上他的膝头,并称他为'父亲'——那位大德般度之父。

6.107.93

नाहं तातस्तव पितुस्तातोऽस्मि तव भारत ।
इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥ ६.१०७.९३ ॥

婆罗多啊!那位童年时对我说'我不是你的父亲,我是你父亲的父亲'的人——我怎能杀他?

6.107.94

कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना ।
जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥ ६.१०७.९४ ॥

我的军队任其被歼灭吧;我不与那位大德作战。无论胜利或死亡——克里希纳啊,你以为如何?

6.107.95

कथमस्माद्विधः कृष्ण जानन्धर्मं सनातनम् ।
न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे ॥ ६.१०७.९५ ॥

克里希纳啊!像我这样知晓永恒法的人,怎能打击那位已放下兵器的年迈祖父?

6.107.96

प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे ।
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥ ६.१०७.९६ ॥

胜者啊!你曾在战斗中立誓要杀死毗湿摩,站在刹帝利的本分上——般度之子啊,你怎能不杀他?

6.107.97

पातयैनं रथात्पार्थ क्षत्रियं युद्धदुर्मदम् ।
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥ ६.१०७.९७ ॥

普利塔之子啊,把这位因战斗而傲慢的刹帝利从战车上推下。若不在战斗中杀死恒河之子,你将无法获胜。

6.107.98

दृष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते ।
यद्दृष्टं हि पुरा पार्थ तत्तथा न तदन्यथा ॥ ६.१०७.९८ ॥

此事早已为诸神所见,对于无力违抗的你来说,它必将发生。普利塔之子啊,先前所见之事就是如此,不会有别的。

6.107.99

न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् ।
त्वदन्यः शक्नुयाद्योद्धुमपि वज्रधरः स्वयम् ॥ ६.१०७.९९ ॥

除你之外,无人能与这难以抵挡、如张口之阎摩的毗湿摩交战,即便是手持金刚杵的因陀罗本人也不能。

6.107.100

जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम ।
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥ ६.१०७.१०० ॥

坚定地杀死毗湿摩吧。请听我这番话,正如往昔大智慧的brihaspati对帝释天所说。

6.107.101

ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम् ।
आततायिनमायान्तं हन्याद्धातकमात्मनः ॥ ६.१०७.१०१ ॥

即便是年长、年老且具备德行之人,若作为侵犯者、杀害自身者前来,也应当将其杀死。

6.107.102

शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय ।
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥ ६.१०७.१०२ ॥

财富征服者啊,这是为刹帝利确立的永恒法:应当作战、守护,并在无嫉妒之心中行祭祀。

6.107.103

शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् ।
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥ ६.१०७.१०३ ॥

克里希那啊,湿婆坚定会成为毗湿摩之死的原因;毗湿摩一见到般遮罗王子,总会退避。

6.107.104

ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम् ।
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥ ६.१०७.१०४ ॥

我们将湿海丁置于其前,以此计谋击倒恒河之子;这是我的想法。

6.107.105

अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः ।
शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत् ॥ ६.१०७.१०५ ॥

我将以箭矢阻挡其他大弓箭手,而勇士中最优秀的湿海丁只与毗湿摩交战。

6.107.106

श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् ।
कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत ॥ ६.१०७.१०६ ॥

我听闻库鲁中最杰出者的话:我不会杀湿海丁,因为此人先前是少女,后来变成了男子。

6.107.107

अर्जुनस्य वचः श्रुत्वा भीष्मस्य वधसंयुतम् ।
जहृषुर्हृष्टरोमाणः सकृष्णाः पाण्डवास्तदा ॥ ६.१०७.१०७ ॥

听到阿周那关于杀毗湿摩的话,般度之子与克里希那一同欣喜万分,汗毛竖起。

6.107.108

इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः ।
अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः।
शयनानि यथा स्वानि भेजिरे पुरुषर्षभाः ॥ ६.१०७.१०८ ॥

如此决定之后,般度之子与摩陀婆一同向这位大德告辞,心怀喜悦地离去;那些人中雄牛各自前往自己的卧处。