マハーバーラタ · 章 6.109
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.109.1
कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् ।
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥ ६.१०९.१ ॥
パーンチャーラの王子シカンディンは、戦いで怒りに燃えて、誓いに堅い法の人、ガンガーの息子である祖父へどのように突進したのか。
6.109.2
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधाः ।
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥ ६.१०९.२ ॥
あの急迫の時、武器を振りかざし勝利を望んだ大戦車兵たちは、軍中でシカンディンとパーンダヴァの兄弟を守っていたのは誰か。
6.109.3
कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि ।
अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ॥ ६.१०९.३ ॥
シャンタヌの息子、大力のビーシュマは、その第十日目にパーンダヴァおよびスリンジャヤ族と共にどのように戦ったのか。
6.109.4
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना ।
कच्चिन्न रथमद्गोऽस्व धनुर्वाऽशीर्यतास्थतः ॥ ६.१०९.४ ॥
戦いでシカンディンがビーシュマに反撃したことを、私は耐えがたく思う。彼の戦車、象、牛、馬、あるいは弓は、立ったままの間に折れてしまったのではないか。
6.109.5
नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत् ।
युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ।
निघ्नतः समरे शत्रून्शरैः सन्नतपर्वभिः ॥ ६.१०९.५ ॥
バラタ族の雄牛よ。戦いでビーシュマが闘っていた間、彼の弓は折れず、戦車も壊れず、そのような不運も起こらなかった。彼は節の曲がった矢で戦場の敵を打ち倒していたのである。
6.109.6
अनेकशतसाहस्रावकानां महारथाः ।
तथा दन्तिगणा राजन्हायश्चैव सुसञ्जिताः ॥ ६.१०९.६ ॥
王よ、何百何千もの歩兵、大戦車兵、象の群れ、そして馬もまた、そこに見事に整列していた。
6.109.7
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥ ६.१०९.७ ॥
祖父ビーシュマを先頭に立てて、彼らは戦いへと進んだ。
6.109.8
यथाप्रतिज्ञं कौरव्य स चापि समिर्तिजयः ।
पार्यानामकरोद्भीष्मः सततं समिति क्षयम् ॥ ६.१०९.८ ॥
クルの末裔よ、誓いのとおり、戦勝者ビーシュマは戦場でパールタたちを絶え間なく滅ぼした。
6.109.9
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः ।
पाञ्चालाः पाण्डवैः सार्ध सर्वतः पर्यवारयन् ॥ ६.१०९.९ ॥
パーンチャーラ族はパーンダヴァたちと共に、敵を矢で打ち倒しながら戦う大弓の射手を四方から取り囲んだ。
6.109.10
दशमेऽहनि संप्राप्ते ततस्तां रिपुवाहिनीम् ।
कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥ ६.१०९.१० ॥
第十日が訪れると、その敵軍は鋭い矢によって幾百幾千と散らされていた。
6.109.11
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज ।
अशक्नुवन्रणे जेतुं पाशहस्तमिवानतकम् ॥ ६.१०९.११ ॥
パーンドゥの祖先よ、パーンダヴァたちは戦場で大弓の射手ビーシュマを打ち破ることができなかった。手に縄を持つ死神を打ち負かせないように。
6.109.12
अथोपायान्महाराज सव्यसाची धनञ्जयः ।
त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥ ६.१०९.१२ ॥
大王よ、そのとき、両手で弓を引く者サヴヤサーチン、ダナンジャヤ、不敗のビーバトス(アルジュナ)が進み出て、すべての戦車兵を震え上がらせた。
6.109.13
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः ।
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥ ६.१०९.१३ ॥
獅子のように大声で吼え、弓弦を繰り返し鳴らし、矢の奔流を放ちながら、パールタは戦場でカーラ(死神)のように動き回った。
6.109.14
तस्य शब्देन वित्रस्तास्तावका भारतर्षभ ।
सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥ ६.१०९.१४ ॥
バラタの雄牛よ、彼の雄叫びにおまえの兵は怯えた。王よ、獅子に出会った鹿のように、彼らは大きな恐怖から逃げ去った。
6.109.15
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् ।
दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥ ६.१०९.१५ ॥
パーンダヴァが勝利を収め、おまえの軍が苦しむのを見て、ドゥルヨーダナは深く悩み、ビーシュマに語りかけた。
6.109.16
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः ।
दहते मामकान्सर्वान्कृष्णवर्त्मेन काननम् ॥ ६.१०९.१६ ॥
ご覧ください、父上。白馬を駆り、クリシュナを御者とするパーンドゥの子が、森を焼くように私の兵をすべて焼き尽くしています。
6.109.17
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः ।
पण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥ ६.१०९.१७ ॥
ガンガーの子よ、四方に逃げ散る軍勢をご覧ください。戦士の中で最も優れた方よ、パーンダヴァによって戦場で散らされているのです。
6.109.18
यथा पशुगणान्पालः संकालयति कानने ।
तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥ ६.१०९.१८ ॥
牧人が森で牛の群れを散らすように、敵を苦しめる者よ、私のこの軍勢は散らされている。
6.109.19
धनञ्जयशरैर्भग्नं द्रवमाणं ततस्ततः ।
भीमोऽप्येवं दुराधर्पो विद्रावयति मे बलम् ॥ ६.१०९.१९ ॥
無敵のビーマもまた同じように、ダナンジャヤの矢に砕かれて右往左往に逃げる我が軍を追い散らしている。
6.109.20
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ ।
अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम ॥ ६.१०९.२० ॥
サートヤキ、エーキターナ、マードリーの二人のパーンダヴァの息子、そして非常に勇敢なアビマニユも、我が軍を追い払っている。
6.109.21
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः ।
व्यद्रावयेतां सहसा सैन्यं मम महारणे ॥ ६.१०९.२१ ॥
勇士ドリシュタデュムナと羅刹ガトートカチャもまた、この大戦で突然我が軍を散らした。
6.109.22
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महारथैः ।
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥ ६.१०९.२२ ॥
バーラタよ、これらの大戦車兵すべてに討たれつつある軍には、戦場の持ち場にあっても別の救いが見えない。
6.109.23
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रमम् ।
पर्याप्तस्तु भवाञ्शीघ्रं पीडितानां गतिर्भव ॥ ६.१०९.२३ ॥
人中の虎よ、神々に等しい武勇の持ち主よ!あなた以外には十分な者はいない。あなただけで足りる。速やかに苦しむ者の拠り所となれ。
6.109.24
एवमुक्तो महाराज पिता देवव्रतस्तव ।
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥ ६.१०९.२४ ॥
大王よ、このように言われて、あなたの父デーヴァヴラタはしばし考え、自らの決意を固めた。
6.109.25
तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः ।
दुर्योधन विजानीहि स्थिरो भूत्वा विशांपते ॥ ६.१०९.२५ ॥
シャンタヌの子(ビーシュマ)は息子(ドゥルヨーダナ)を励まして言った。「ドゥルヨーダナよ、理解せよ、堅固であれ、人の王よ。」
6.109.26
पातयिष्ये रिपूनन्यान्पाण्डवान्प्रतिपालयन् ।
प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम् ॥ ६.१०९.२६ ॥
「私は他の敵を倒し、パーンダヴァたちを守ろう。」今日、偉大な心のパーンダヴァへの勝利が誓われた。
6.109.27
पूर्वकालं तव मया प्रतिज्ञानं महाबल ।
हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् ॥ ६.१०९.२७ ॥
大力の者よ、以前私はあなたに誓った。偉大な心のクシャトリヤを一万人殺した後に。
6.109.28
संग्रामादपयास्यामि ह्येतत्कर्म समाहितम् ।
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥ ६.१०९.२८ ॥
「私は戦いから退こう。」この行為は前もって定められていた。このように、言われた通りに私はそれを行った。バーラタの雄牛よ。
6.109.29
अद्य चापि महत्कर्म प्रकरिष्ये यथाबलम् ।
अहं वाऽद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान् ॥ ६.१०९.२९ ॥
今日もまた、私は力に応じて大いなる行いをしよう。今日、私は殺されて横たわるか、今日パーンダヴァを殺すかである。
6.109.30
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ।
किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः ॥ ६.१०९.३० ॥
ヴァーサヴァ(インドラ)とともにいる神々でさえパーンダヴァを征服することはできない。ましてや死すべき者の義務に縛られたクシャトリヤでは、大力の者たちよ、なおさらである。
6.109.31
अद्य ते पुरुषव्याघ्र प्रतरिष्ये ऋणं तव ।
भर्तृपिण्डकृतं राजन्निहताः पृतनामुखे ॥ ६.१०९.३१ ॥
人中の虎よ、今日私はあなたの恩義に報います。王よ、主君の糧によって負った恩を、軍の先頭で討ち倒された者たちによって返しましょう。
6.109.32
इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान्प्रवपञ्छरैः ।
आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥ ६.१०९.३२ ॥
バラタ族の最上の者よ、そう言って、矢で クシャトリヤたちを散らしながら、攻めがたい彼はパーンダヴァの軍に迫った。
6.109.33
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भारतर्षभ ।
आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन् ॥ ६.१०९.३३ ॥
バラタの牡牛よ、軍の中央に立ち怒り狂うガーンゲーヤを、毒蛇のように、パーンダヴァたちが食い止めた。
6.109.34
दशमेऽहनि भीष्मस्तु दर्शयञ्शक्तिमात्मनः ।
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥ ६.१०९.३४ ॥
十日目、クル族の歓喜よ、ビーシュマは自らの力を示して、王よ、数十万を殺した。
6.109.35
पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः ।
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥ ६.१०९.३५ ॥
パーンチャーラの中で最も優れた王子たち、大戦車兵たちの輝きを、太陽が光線で水を吸い上げるように、彼は奪い去った。
6.109.36
हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् ।
सारोहाणां महाराज हयानां चायुतं तथा ॥ ६.१०९.३६ ॥
偉大な王よ、速い象一万頭をその乗り手とともに殺し、同じく馬一万頭をも殺した。
6.109.37
पूर्णे शतसहस्रे द्वे पादातानां नरोत्तमः ।
प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥ ६.१०९.३७ ॥
二十万の歩兵が倒れたとき、人中の最上者ビーシュマは煙のない火のように戦場で燃え上がった。
6.109.38
न चैवं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् ।
उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥ ६.१०९.३८ ॥
パーンダヴァ側の誰も彼を直視できなかった。彼は北の道を進む燃える太陽のようであった。
6.109.39
ते पाण्डवेवाः संरब्धा महेष्वासेन पीडिताः ।
वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ॥ ६.१०९.३९ ॥
大弓手に苦しめられたパーンドゥの息子たちとスリンジャヤの大戦車兵たちは怒り、ビーシュマを殺そうと突進した。
6.109.40
स वध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा ।
अवकीर्णो महेष्वासैः शैलो मेघैरिवावृतः ॥ ६.१०९.४० ॥
多くの大弓手に打たれ、矢に覆われたシャーンタヌの子ビーシュマは、雲に包まれた山のように見えた。
6.109.41
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् ।
महत्या सेनया सार्धं ततो युद्धमवर्तत ॥ ६.१०९.४१ ॥
しかしあなたの息子たちはガーンゲーヤを四方から取り囲み、そして大軍とともに戦いが始まった。