摩诃婆罗多 · 章 6.110
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.110.1
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् ।
शिखण्डिनमथोवाच समभ्योहि पितामहम् ॥ ६.११०.१ ॥
国王啊,阿周那见到毗湿摩在战场上的威勇,便对湿乾底说:“向祖父前进吧。”
6.110.2
न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन ।
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥ ६.११०.२ ॥
“今天你绝不可对毗湿摩心怀畏惧。我将以利箭把他从最好的战车上射落。”
6.110.3
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ ६.११०.३ ॥
婆罗多族的雄牛啊,被阿周那如此吩咐后,湿乾底听了阿周那的话,便冲向恒河之子。
6.110.4
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः ।
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥ ६.११०.४ ॥
国王啊,猛光与大车战士、苏跋陀罗之子听了阿周那的话,心中欢喜,也冲向毗湿摩。
6.110.5
विराटद्रुपदौ वृद्धौ कुन्तिभोजस्य दंशितः ।
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ।
नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ॥ ६.११०.५ ॥
年迈的毗罗吒与德鲁帕达,身披铠甲的坤提婆阇之子,在你的儿子眼前冲向恒河之子。那古拉、萨哈德瓦,以及勇猛的正法王(也冲了上去)。
6.110.6
तथेतराणि सैन्यानि सर्वाम्येव विशांपते ।
समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ ६.११०.६ ॥
人主啊,同样,其余一切军队听了阿周那的话,也一齐冲向恒河之子。
6.110.7
प्रत्युद्ययुस्तावकाश्च समेतांस्तान्महारथान् ।
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ॥ ६.११०.७ ॥
你方的战士也向那些聚集的大车将迎上前去,各依其力量与勇气。请听我讲述。
6.110.8
चित्रसेनो महाराज चेकितानं समभ्यायात् ।
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ॥ ६.११०.८ ॥
大王啊,持国王之子奇多罗塞那迎向前往战场欲寻毗湿摩的赤其坦那,犹如虎崽迎向公牛。
6.110.9
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् ।
त्वरमाणं रणे यत्तं कृतवर्मा न्यवरायत् ॥ ६.११०.९ ॥
大王啊,迦利多跋摩阻住了已逼近毗湿摩、在战场上急切奋进的德里斯塔笈姆那。
6.110.10
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् ।
त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ॥ ६.११०.१० ॥
大王啊,苏摩达多之子急忙赶来阻住了极度愤怒、欲杀恒河之子的毗摩塞那。
6.110.11
तथैव नकुलं शूरं किरन्तं सायकान्बहून् ।
विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ॥ ६.११०.११ ॥
同样,毗迦尔那阻住了正射出无数箭矢的勇士那昆多,因他愿保全毗湿摩的性命。
6.110.12
सहदेवं तथा राजन्यान्तं भीष्मरथं प्रति ।
वारयामास संक्रुद्धः कृपः शारद्वतो युधि ॥ ६.११०.१२ ॥
大王啊,同样,沙罗颠婆之子怒极的克里帕在战斗中阻住了朝毗湿摩战车而来的、灭王者萨哈德瓦。
6.110.13
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् ।
भीष्मस्य निधनप्रेप्सुं दुर्मुखोऽभ्यज्रवद्बली ॥ ६.११०.१३ ॥
强大的杜尔穆卡冲向罗刹巴伊玛赛尼(迦托特迦查),此人行事残酷、力量强大,渴望杀死毗湿摩。
6.110.14
सात्यकिं समरे क्रुद्धमार्स्यशृङ्गिवारयत् ।
भीष्मस्य वधमिच्छन्तं पाण्डवप्रीतिकाम्यया ॥ ६.११०.१४ ॥
阿尔沙悉林伽在战场上阻挡了愤怒的萨谛奇,他为讨好般度之子而想要杀死毗湿摩。
6.110.15
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति ।
सुदक्षिणो महाराज काम्भोज प्रत्यवारयत् ॥ ६.११०.१५ ॥
大王啊,当阿毗曼尤前往毗湿摩的战车时,康薄国的苏达克希那在大王面前阻挡了他。
6.110.16
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ ।
अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥ ६.११०.१६ ॥
于是愤怒的阿湿缚摩拦住了一同前来的两位老者——毗罗吒与德鲁帕达,他们是击溃敌人者,婆罗多啊。
6.110.17
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् ।
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥ ६.११०.१७ ॥
同样,在战场上奋力的婆罗堕遮之子德罗纳,阻挡了渴望杀死毗湿摩的般度之子、法之子长兄。
6.110.18
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् ।
भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश ॥ ६.११०.१८ ॥
大王啊,猛烈的阿周那将尸init- 湿婆(湿弹底)置于前方,渴望毗湿摩,照亮十方而前进。
6.110.19
दुःशासनो महेष्वासो वारयामास संयुगे ।
अन्ये च तावका योधाः पाण्डवानां महारथान् ॥ ६.११०.१९ ॥
大弓手難降那在戰場上阻擋了般度之子的大戰車武士,你的其他戰士也阻擋了他們。
6.110.20
भीष्मस्याभिमुखान्यातान्वारयामासुराहवे ।
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः ॥ ६.११०.२० ॥
那些迎向毗湿摩而来的人,他们在战斗中加以阻挡;而达湿陀衍那则一再地向军队大声呼喊。
6.110.21
अभ्यद्रवत संरब्धो भीष्ममेकं महारथः ।
एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः ॥ ६.११०.२१ ॥
那位愤怒的大戰車武士獨自向毗湿摩猛衝而去。這位般度之子、俱盧族的喜樂阿周那,正在戰場上向毗湿摩前進。
6.110.22
अभ्यद्रवत माभैष्ट भीष्मो हि प्राप्स्यते न वः ।
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ॥ ६.११०.२२ ॥
冲上前去,不要害怕;毗湿摩不会让你们接近阿周那。即使因陀罗也不敢在战场上与阿周那交战。
6.110.23
किमु भीष्मो रणे वीरा गतसत्वोऽल्पजीवितः ।
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ॥ ६.११०.२३ ॥
「勇士們,毗湿摩在戰場上還能做什麼?他的勇氣已經消失,壽命也所剩無幾。」聽到統帥的這些話,般度之子的大戰車武士們——
6.110.24
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति ।
आगच्छतस्तान्समरे वार्योघानचला इव ॥ ६.११०.२४ ॥
他們滿心歡喜地向恆河之子(毗湿摩)的戰車衝去。當在戰場上前來的人逼近時,他們阻擋他們,就像山岳阻擋水流一樣。
6.110.25
अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ।
दुःशासनो महाराज भयं त्यक्त्वा महारथः ॥ ६.११०.२५ ॥
你方欢欣的人中雄牛们阻挡了他们。大王啊,大车将杜尚沙那抛开恐惧,(如此做了)。
6.110.26
भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् ।
तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ॥ ६.११०.२६ ॥
欲取毗湿摩性命者冲向财主(阿周那)。同样,勇敢的般度子孙也冲向甘伽之子(毗湿摩)的车。
6.110.27
अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथाः ।
तत्राद्भुतमपश्याम चित्ररूपं विशांपते ॥ ६.११०.२७ ॥
在战斗中,大车武士们冲向你的儿子们。在那里,我们看见了奇妙、五彩纷呈的景象,人主啊。
6.110.28
दुःशासनरथं प्राप्य यत्पार्थो नात्यवर्तत ।
यथा वारयते वेला क्षुब्धतोयं महार्णवम् ॥ ६.११०.२८ ॥
到达杜尚沙那的车后,普利塔之子无法越过,犹如海岸阻挡波涛汹涌的大海。
6.110.29
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् ।
उभौ तौ रथिनां श्रेष्ठावुभौ भारतदुर्जयौ ॥ ६.११०.२९ ॥
同样,你的儿子阻挡了愤怒的般度之子。他们二人都是车手中的翘楚,对婆罗多人而言不可战胜。
6.110.30
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ।
तथा तौ जातसंरम्भावन्योन्यवधकाङ्क्षिणौ ॥ ६.११०.३० ॥
婆罗多啊,二人光彩与辉煌都如日月一般。二人都满怀怒气,彼此都渴望对方的死亡。
6.110.31
समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा ।
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ॥ ६.११०.३१ ॥
大王啊,在那场大战中,二人相遇,如往昔的摩耶与帝释。难敌之弟难降以三箭射中了般度之子。
6.110.32
वासुदेवं च विंशत्या ताडयामास संयुगे ।
ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ॥ ६.११०.३२ ॥
他在战斗中以二十支箭射中了婆修提婆。于是阿周那怒火中烧,见毗湿尼后裔受伤,
6.110.33
दुःशासनं शतेनाजौ नाराचानां समार्पयत् ।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ ६.११०.३३ ॥
他在战斗中向难降射出百支铁箭;箭穿透其甲胄,在战场上饮尽了鲜血。
6.110.34
यथैव पन्नगा राजंस्तटाकं तृषितास्तथा ।
दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः।
ललाटे भरतश्रेष्ठ शरैः सन्नतपर्वभिः ॥ ६.११०.३४ ॥
大王啊,如渴蛇奔向池塘,愤怒的难降以三箭射穿了普利塔之子。婆罗多中最优秀者啊,他以带弯节的箭射中了他的前额。
6.110.35
ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे ।
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥ ६.११०.३५ ॥
大王啊,那些立于他额上的箭,使般度之子在战场上熠熠生辉,正如须弥山以其极高的峰顶而光耀。
6.110.36
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना ।
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥ ६.११०.३६ ॥
这位大弓箭手般度之子被你的儿子这位射手重重射中,却在战场上闪耀,如开满花的金叶树。
6.110.37
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः ।
पर्वणीव सुसंक्रुद्धो राहुः पूर्णं निशाकरम् ॥ ६.११०.३७ ॥
于是愤怒的般度之子逼迫难降,如同在月食之日盛怒的罗睺逼迫圆月。
6.110.38
पीड्यमानो बलवता पुत्रस्तव विशांपते ।
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥ ६.११०.३८ ॥
陛下,被强者逼迫的您的儿子,在战斗中用以鹤羽、石上磨利的箭射中了阿周那。
6.110.39
तस्य पार्थो धनुश्छित्वा रथं चास्य त्रिभिः शरैः ।
आजघान ततः पश्चात्पुत्रं ते निशितैः शरैः ॥ ६.११०.३९ ॥
阿周那斩断了他的弓,以三箭射中他的战车,然后从后方以利箭射中了你的儿子。
6.110.40
सोऽन्यत्कार्मुकमादाय भीमस्य प्रमुखे स्थितः ।
अर्जुनं पञ्चाविंशत्या बाह्वोरुरसि चार्पयत् ॥ ६.११०.४० ॥
他拿起另一张弓,站在毗摩面前,以二十五箭射中阿周那的双臂和胸膛。
6.110.41
तस्य क्रुद्धो महाराज पाण्डवः शत्रुतापनः ।
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥ ६.११०.४१ ॥
大王,般度之子,敌人的克星,愤怒地向他射出许多如阎摩之杖般可怖的箭。
6.110.42
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव ।
यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ॥ ६.११०.४२ ॥
你的儿子在箭未及身之前便将其斩断,这对奋力作战的阿周那来说似乎是奇迹。
6.110.43
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव ।
ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके ॥ ६.११०.४३ ॥
你的儿子也用锐利的箭射伤了般度之子。于是在战场上愤怒的帕特ha搭箭于弓上,
6.110.44
प्रेषयामास समरे स्वर्णपुङ्खाञ्छिलाशितान् ।
न्यमञ्जंस्ते महाराज तस्य काये महात्मनः ॥ ६.११०.४४ ॥
他在战场上射出以金羽装饰、在石上磨砺的箭。大王啊,它们深深插入了那位伟大者的身体。
6.110.45
यथा हंसा महाराज तटाकं प्राप्य भारत ।
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ॥ ६.११०.४५ ॥
大王啊,婆罗多啊,如同天鹅抵达池塘,你的儿子被那位伟大的般度之子所逼迫。
6.110.46
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत् ।
अगाधे मञ्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥ ६.११०.४६ ॥
他在战场上舍弃帕特ha,迅速奔向毗湿摩的战车;对于在深不可测之水中沉没的他,毗湿摩那时成了一座岛屿。
6.110.47
प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशांपते ।
अवारयत्ततः शूरो भूय एव पराक्रमी ॥ ६.११०.४७ ॥
然后,人主啊,你那勇猛而有力的儿子恢复了神志,又一次阻挡了(敌人)。
6.110.48
शरैः सुनिशितैः पार्थं यथा वृत्रं पुरन्दरः ।
निर्बिभेद महाकायो विव्यथे नैव चार्जुनः ॥ ६.११०.४८ ॥
如同因陀罗射穿了弗栗多,那位巨大身躯者以极锐利的箭射穿了帕特ha;然而阿周那丝毫没有动摇。