摩诃婆罗多 · 章 6.111
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.111.1
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे ।
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥ ६.१११.१ ॥
在战斗中,大弓手阿尔希亚什林基在那场激战中阻挡了身披铠甲、冲向毗湿摩的萨提亚基。
6.111.2
माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः ।
आजघान रणे राजन्प्रहसन्निव भारत ॥ ६.१११.२ ॥
然而摩陀婆大怒,在战斗中以九支箭射中罗刹,国王啊,仿佛含笑一般,婆罗多啊。
6.111.3
तथैव राक्षसो राजन्माधवं नवभिः शरैः ।
अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुङ्गवम् ॥ ६.१११.३ ॥
同样,罗刹啊国王,以九支箭折磨摩陀婆;王中之王啊,他愤怒地逼迫希尼族的俊杰。
6.111.4
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे ।
राक्षसाय सुसंक्रुद्धो माधवः परवीरहा ॥ ६.१११.४ ॥
希尼族后裔在战斗中大怒,向罗刹射出一阵箭雨;摩陀婆,敌方英雄的杀手。
6.111.5
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् ।
विव्याध विशिखैस्तीक्ष्णैः सिंहनाद ननाद च ॥ ६.१११.५ ॥
于是罗刹以锐利的箭射穿了臂力强大、勇气真实的萨提亚基,并发出狮子般的吼声。
6.111.6
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा ।
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥ ६.१११.६ ॥
然而摩陀婆此时在战斗中被罗刹重重射伤;他坚定心志,这位光辉者大笑,也放声吼叫。
6.111.7
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः ।
ताडयामास समरे तोत्रैरिव महागजम् ॥ ६.१११.७ ॥
于是愤怒的婆伽达多在战场上以利箭射击摩陀婆,如同用刺棒驱打大象。
6.111.8
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः ।
प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥ ६.१११.८ ॥
史尼耶(萨谛奇)舍弃罗刹于战场,车战勇士中的最优者,向普拉格约提沙王射出节部弯曲的箭。
6.111.9
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः ।
चिच्छेद शतधारेण भल्लेन कृतहस्तवत् ॥ ६.१११.९ ॥
普拉格约提沙王以百刃的婆罗箭,如熟练之手一般,斩断了摩陀婆的大弓。
6.111.10
अथान्यद्धनुरादाय वेगवत्परवीरहा ।
भगदत्तं रणे क्रुद्धं विव्याध निशितैः शरैः ॥ ६.१११.१० ॥
随后他取过另一张弓,这位迅捷的敌方勇士摧毁者,在战场上以利箭射穿了愤怒的婆伽达多。
6.111.11
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।
शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ॥ ६.१११.११ ॥
这位大弓手身受重创,舔着嘴角,拿起一柄坚固的铁枪,枪身饰以黄金与青金石。
6.111.12
यमदण्डोपमां घोरां चिक्षेप परमाहवे ।
तामापतन्तीं सहसा तस्य बाहुबलेरिताम् ॥ ६.१११.१२ ॥
在大战中,他掷出一柄如阎摩之杖般可怖的枪;它突然飞来,由他臂膀的力量所驱使。
6.111.13
सात्यकिः समरे राजन्द्विधा चिच्छेद सायकैः ।
ततः पपात सहसा सहोल्केव हतप्रभा ॥ ६.१११.१३ ॥
大王啊,萨提亚基在战斗中用箭将它一分为二。随后它突然坠落,如同失去光辉的流星。
6.111.14
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशांपते ।
महता रथवंशेन वारयामास माधवम् ॥ ६.१११.१४ ॥
人民之主啊,你的儿子见自己的长矛被毁,便以庞大的战车队伍阻挡了摩陀婆(萨提亚基)。
6.111.15
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् ।
दुर्योधनो भृशं क्रुद्धो भ्रातॄन्सर्वानुवाच ह ॥ ६.१११.१५ ॥
杜尔约达那看见毗厮尼族的大车士被如此围困,极为愤怒,便对所有兄弟说道。
6.111.16
तथा कुरुत कौरव्या यथाः वः सात्यको युधि ।
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥ ६.१११.१६ ॥
诸位俱卢子孙啊,请使萨提亚基在战斗中无法活着从这支庞大的战车队伍中脱身。
6.111.17
तस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ।
तथेति च वचस्तस्य परिगृह्य महारथाः ॥ ६.१११.१७ ॥
若他被杀,我想般度诸子的庞大军队也就被歼灭了。那些大车士说“就这样吧”,接受了他的话。
6.111.18
शैनेयं योधयामासर्भीष्मायाभ्युद्यतं रणे ।
अभिमन्युं तदाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे।
काम्भोजराजो बलवान्वारयामास संयुगे ॥ ६.१११.१८ ॥
在战斗中,为毗湿摩而与萨提亚基交战的人阻住了他。随后,强大的劫跋阇国王在战斗中阻止了前来要杀毗湿摩的阿毗摩由。
6.111.19
आर्जुनिं नृपतिर्विद्ध्वा शरैः सन्नतपर्वभिः ।
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृप ॥ ६.१११.१९ ॥
国王以弯曲节部的箭射中阿周那之子,又以六十四支箭射中他,啊,王者。
6.111.20
सुदक्षिणस्तु समरे पुनर्विव्याध तं पञ्चभिः ।
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥ ६.१११.२० ॥
然而须陀克希那在战斗中又以五箭射中他,以九箭射中他的御者,意欲取毗湿摩之命。
6.111.21
तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे ।
यदाभ्यधावद्गाङ्गेयं शिखण्डी शत्रुकर्शनः ॥ ६.१११.२१ ॥
在他们相遇之处,那场战斗变得非常激烈,当制敌者湿婆坎迪冲向恒河之子毗湿摩时。
6.111.22
विराटद्रुपदौ वृद्धौ वारयनतौ महाचमूम् ।
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥ ६.१११.२२ ॥
毗罗吒与德鲁帕达,二位老者,抵挡大军;二位大车战士在战斗中愤怒,向毗湿摩发动攻击。
6.111.23
अश्वत्थामा रणे क्रुद्धः समियाद्रथसत्तमः ।
ततः प्रववृते युद्धं तयोस्तस्य च भारत ॥ ६.१११.२३ ॥
阿湿婆陀摩在战斗中愤怒,作为最优秀的车战者,前去迎战他们。于是,啊,婆罗多,他们之间以及与他之间的战斗开始了。
6.111.24
विराटो दशभिर्भल्लैराजघान परंतप ।
यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥ ६.१११.२४ ॥
毗罗吒以十支宽刃箭射击,啊,灭敌者,射击那努力奋战、勇猛的弓箭手德罗纳之子,他在战斗中光彩夺目。
6.111.25
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा ।
गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ ॥ ६.१११.२५ ॥
那时,德鲁帕达以三支锐利的箭射中了师尊之子(阿湿缚塔曼);这两位大力勇士相遇后,彼此交相攻击。
6.111.26
अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः ।
विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ ॥ ६.१११.२६ ॥
于是阿湿缚塔曼用许多箭射中那两人——向毗湿摩推进的英雄毗罗吒与德鲁帕达。
6.111.27
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् ।
यद्द्रौणिसायकान्घोरान्प्रत्यवारयतां युधि ॥ ६.१११.२७ ॥
在那里,我们目睹了那两位老者的奇妙伟大功绩,他们在战斗中挡开了德罗纳之子可怕的箭。
6.111.28
सहदेवं तथाऽऽयान्तं कृपः शारद्वतोऽभ्ययात् ।
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥ ६.१११.२८ ॥
当偕天走来时,沙罗陀瓦特之子克里帕便向他冲去——如同森林中发情的象扑向另一头发情的象。
6.111.29
कृपश्च समरे शूरो माद्रीपुत्रं महारथम् ।
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥ ६.१११.२९ ॥
战斗中,勇猛的克里帕迅速用七十支饰有金饰的箭射中了摩德利之子、大车将沙诃提婆。
6.111.30
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः ।
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥ ६.१११.३० ॥
于是摩德利之子用箭将他的弓射成两段;随后,弓已断的他又被九支箭射中。
6.111.31
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् ।
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥ ६.१११.३१ ॥
他在战场上取了另一把能承受重负的弓,非常高兴地用十支锋利的箭射向玛德丽之子(那昆拉)。
6.111.32
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ।
तथैव पाण्डवो राजञ्छारद्वतममर्षणम् ॥ ६.१११.३२ ॥
他愤怒地想要取毗湿摩的性命,击中了他的胸膛。大王,同样,般度之子也击中了不肯罢休的沙罗陀瓦多之子(克里帕)的胸膛。
6.111.33
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ।
तयोर्युद्धं समभवद्धोररूपं भयावहम् ॥ ६.१११.३३ ॥
他愤怒地想要杀死毗湿摩,击中了他的胸膛。二人之间展开了一场可怕而令人恐惧的战斗。
6.111.34
नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः ।
विव्याध सायकैः षष्ट्या रक्षन्भीष्मं महाबलम् ॥ ६.१११.३४ ॥
在战场上,愤怒的、令敌人痛苦的毗卡尔纳以六十支箭射中那昆拉,同时守护着大力的毗湿摩。
6.111.35
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता ।
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥ ६.१११.३५ ॥
那昆拉也被您那聪明的儿子重创,他用七十七支箭刺穿了毗卡尔纳。
6.111.36
तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ ।
अन्योन्यं जघ्नुतुर्वीरौ गोष्ठे गोवृषभाविव ॥ ६.१११.३६ ॥
在那里,为了毗湿摩,那两位人中猛虎、令敌人痛苦的勇士,互相攻击,如同牛棚里的两头公牛。
6.111.37
घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम् ।
दुर्मुखः समरे प्रायाद्भीष्यहेतोः पराक्रमी ॥ ६.१११.३७ ॥
勇猛的杜尔穆喀为了毗湿摩而出阵,去迎战正在前进、击杀你军的瓦陀迦恰。
6.111.38
हैडिम्बस्तु रणे राजन्दुर्मुखं शत्रुतापनम् ।
आजघानोरसि क्रुद्धः शरेणानतपर्वणा ॥ ६.१११.३८ ॥
大王啊,战场上海迪巴怒不可遏,以一支关节弯曲的箭射中了令敌人痛苦的杜尔穆喀的胸膛。
6.111.39
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः ।
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥ ६.१११.३९ ॥
英雄杜尔穆喀欢喜咆哮,在战阵前沿以六十支精美的箭也射中了毗摩森之子。
6.111.40
धृष्टद्युम्नं तथाऽऽयान्तं भीष्मस्य वधकाङ्क्षिणम् ।
हार्दिक्यो वारयामास रथश्रेष्ठं महारथः ॥ ६.१११.४० ॥
大车将哈尔迪基亚拦住了想要杀死毗湿摩的车手中的上首——德里斯塔俄冲。
6.111.41
हार्दिक्यः पार्षतं चापि विद्ध्वा पञ्चभिरायसैः ।
पुनः पञ्चाशता तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ ६.१११.४१ ॥
哈尔迪基亚也以五支铁箭射中了波利沙塔之子,随即迅速以五十支箭说道:「站住,站住!」
6.111.42
आजघान महाबाहुः पार्षतं तं महारथम् ।
तं चैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः ॥ ६.१११.४२ ॥
大臂的哈尔迪基亚击中了那位大车将帕尔沙塔;大王啊,帕尔沙塔也以九支箭射中了哈尔迪基亚。
6.111.43
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्नगैः ।
तयोः समभवद्युद्धं भीष्महेतोर्महाहवे ॥ ६.१११.४३ ॥
他以锐利尖锐、羽饰为鹤羽、直飞的箭射穿了他。为了毘湿摩,那场大战中两人之间展开了厮杀。
6.111.44
अन्योन्यातिशये युक्तं यथा वृत्रमहेन्द्रयोः ।
भीमसेनं तथाऽऽयान्तं भीष्मं प्रति महारथम् ॥ ६.१११.४४ ॥
如同吠陀罗与大因陀罗互相争胜,那位大车战士毘摩森那向毘湿摩迎面而来。
6.111.45
भूरिश्रवाभ्ययात्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ।
सौमदत्तिरथो भीममाजघान स्तनान्तरे ॥ ६.१११.४५ ॥
般利室罗疾速冲来,喊道:“站住,站住!”苏摩达多之子的战车便撞向毘摩的胸膛。
6.111.46
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ।
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ॥ ६.१११.४६ ॥
那支极其锐利、金羽的铁箭射入他的胸膛,威猛的毘摩森那在战中熠熠生辉。
6.111.47
स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ।
तौ शरान्सूर्यसंकाशान्कर्मारपरिमार्जितान् ॥ ६.१११.४७ ॥
诸王中最优者啊,犹如往昔斯堪陀的长矛刺裂了鹤山,那二人射出了如太阳般明亮、经铁匠打磨的箭。
6.111.48
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपते नरर्षभौ ।
भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ॥ ६.१११.४८ ॥
二位人中之牛在战中彼此愤怒,纷纷投出箭矢;而渴望毘湿摩之死的毘摩,将箭射向大车战士苏摩达多之子。
6.111.49
तथा भीष्मजये गृध्नुः सौमदत्तिस्तू पाण्डवम् ।
कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥ ६.१११.४९ ॥
同样,渴望婆罗摩(毗湿摩)获胜的苏摩达塔之子与般度之子交战;两人彼此报复、奋力相搏,在战斗中厮杀。
6.111.50
युधिष्ठिरं तु कौन्तेयं महत्या सेनया वृत्तम् ।
भीष्माभिमुखमायान्तं भारद्वाजो न्यवारयत् ॥ ६.१११.५० ॥
然而婆罗堕阁之子德罗纳阻止了贡蒂之子坚战,他被大军簇拥着向毗湿摩方向前进。
6.111.51
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् ।
श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥ ६.१११.५१ ॥
陛下,听到德罗纳战车的轰鸣,如同雷云的雷声,普拉波陀罗迦人全都一起颤抖了。
6.111.52
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे ।
द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥ ६.१११.५२ ॥
陛下,般度之子的那支大军在战斗中被德罗纳阻住,虽然奋力争取,却连一步也没有从原地移动。
6.111.53
चेकितान रणे यत्तं भीष्मं प्रति जनेश्वर ।
चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥ ६.१११.५३ ॥
人主啊,你的儿子奇多罗塞那阻住了在战斗中朝毗湿摩奋进、面带怒容的车基坦。
6.111.54
भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी ।
चेकितानं परं शक्त्या योधयामास भारत ॥ ६.१११.५४ ॥
为了毗湿摩,勇猛的奇多罗塞那奋勇前进,以长矛猛烈地与车基坦交战,婆罗多之子啊。
6.111.55
तथैव चेकितानोऽपि चित्रसेनमवारयत् ।
तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे ॥ ६.१११.५५ ॥
同样,车吉坦那也阻挡了持明军,二人在那里相遇,发生了极大的战斗。
6.111.56
अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत ।
विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह ॥ ६.१११.५६ ॥
虽然在那里屡次受阻,婆罗多啊,阿周那使你的儿子转身败退,并碾碎了你的军队。
6.111.57
दुःशासनोऽपि परया शक्त्या पार्थमवारयत् ।
कथं भीष्मं न नो हन्यादिति निश्चित्य भारत ॥ ६.१११.५७ ॥
难降也以最大的力量阻挡了普利塔之子,决意不让他杀害我们的毗湿摩,婆罗多啊。
6.111.58
सा वध्यमाना समरे पुत्रस्य तव वाहिनी ।
लोड्यते रथिभिः श्रेष्ठैस्तत्रतत्रैव भारत ॥ ६.१११.५८ ॥
你的儿子的那支军队在战斗中被杀戮,婆罗多啊,被最优秀的车战勇士在这里那里搅乱。