Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.112

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.112.1

अथ वीरो महेष्वासो मत्तवारणविक्रमः ।
समादाय महच्चापं मत्तवारणवारणम् ॥ ६.११२.१ ॥

于是这位英雄、大弓箭手,勇力如发情的象一般,拿起了能够挡住发狂大象的巨弓。

6.112.2

विधुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम् ।
पृतनां पाण्डवेयानां गाहमानो महाबलः ॥ ६.११२.२ ॥

挥舞着弓,人中之最,驱散着军队,深入般度子的那支大军,大力者。

6.112.3

निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् ।
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥ ६.११२.३ ॥

精通征兆、勇猛的德罗纳,环顾四方的征兆之后,对正在焚烧军队的儿子说道。

6.112.4

अयं हि दिवसस्तात यत्र पार्थो महाबलः ।
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥ ६.११२.४ ॥

孩子啊,这就是那一天,大力的般度之子阿周那,想要在战场上杀死毗湿摩,将会竭尽全力。

6.112.5

उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च ।
योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्तते मनः ॥ ६.११२.५ ॥

我的箭向上飞起,弓仿佛在颤动;兵器不愿施用咒语,我的心变得残忍了。

6.112.6

दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः ।
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥ ६.११२.६ ॥

四方之中,野兽与飞鸟发出可怖的不祥之声;秃鹫低伏隐匿,朝着婆罗多人的军队潜去。

6.112.7

नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः ।
रसते व्यथते भूमिः कम्पतीव च सर्वशः ॥ ६.११२.७ ॥

太阳仿佛失去了光辉,四方到处都泛着红色。大地哀号,因痛苦而颤抖,仿佛处处都在震动。

6.112.8

कङ्कगृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः ।
शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद्भयम् ॥ ६.११२.८ ॥

鹤鸟、秃鹫与鹭鸟反复鸣叫,可怕的不祥豺狼哀嚎,宣告巨大的恐惧。

6.112.9

पपात महती चोल्का मध्येनादित्यमण्डलात् ।
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥ ६.११२.९ ॥

一颗巨大的流星从太阳圆盘中央坠落,一个如无头躯干般的棒状光环矗立着,笼罩着太阳。

6.112.10

परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् ।
वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥ ६.११२.१० ॥

月亮与太阳周围出现了可怕的光晕,预示着巨大的恐惧与诸王身体被斩割。

6.112.11

देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः ।
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥ ६.११२.११ ॥

居于考罗婆之王神殿中的诸神,颤抖、欢笑、舞蹈,也哭泣。

6.112.12

अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम् ।
अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रकमाः ॥ ६.११२.१२ ॥

众行星使太阳逆行而黯淡无光,尊贵的月亮低着头走近前来。

6.112.13

वपूंषि च नरेन्द्राणां विगताभानि लक्षये ।
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताःक ॥ ६.११२.१३ ॥

我看到诸王的身躯失去光彩,持甲的战士在持国之子的军中也不再闪耀。

6.112.14

सेनयोरुभयोश्चापि समन्ताच्छ्रूयते महान् ।
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः ॥ ६.११२.१४ ॥

两军四面都听到巨大的轰鸣:般遮骚王的海螺之声与甘狄拔弓的弦响。

6.112.15

ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे ।
अपास्यान्यान्रणे योधानभ्येष्यति पितामहम् ॥ ६.११२.१५ ॥

毗跋苏必定执起至上神兵,在战斗中推开其他战士,前来面见祖父。

6.112.16

हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः ।
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥ ६.११२.१६ ॥

大臂者啊,想到毗湿摩与阿周那的相遇,我的汗毛竖起,心仿佛沉下。

6.112.17

तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् ।
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ॥ ६.११२.१७ ॥

他把那个心机狡诈、心怀恶念的般遮罗王子(湿笈丹)推在前面,普利塔之子在战斗中来到了毗湿摩的战场。

6.112.18

अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् ।
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥ ६.११२.१८ ॥

毗湿摩曾经说过:“我不会杀湿笈丹;因为此人是造物主所造的女子,而由于天命,他又成了男子。”

6.112.19

असंकल्पध्वजश्चैव याज्ञसेनिर्महाबलः ।
न चामङ्गलिके तस्मिन्प्रहरेदापगासुतः ॥ ६.११२.१९ ॥

旗帜不合心意的、大力的耶若那塞尼——在不吉的时刻,河之子(毗湿摩)不应向他出击。

6.112.20

एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् ।
अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥ ६.११२.२० ॥

我思虑此事,心神极为低沉:在战场上奋起的阿周那,向库鲁长老(毗湿摩)冲去了。

6.112.21

युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसंगतः ।
मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम् ॥ ६.११२.२१ ॥

坚战的愤怒、与阿周那相合的毗湿摩,以及我开始的武器之举——必定给众生带来不吉。

6.112.22

मनस्वी बलवाञ्शूरः कृतास्त्रोऽलघुविक्रमः ।
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥ ६.११२.२२ ॥

坚毅、有力、英勇的般度之子,精通兵器,勇武非凡,射程远,箭矢坚固,又精通征兆。

6.112.23

अजेयः समरे चापि देवैरपि सवासवैः ।
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥ ६.११२.२३ ॥

在战斗中,即使诸神、连同婆薮之主(因陀罗)的诸神也无法战胜;有力、明智、克服艰难,是勇士中的最优者。

6.112.24

विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः ।
अभ्युद्यतं रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम् ।
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रत ॥ ६.११२.२४ ॥

他在战场上永远胜利,且持有可怖的神箭。见般度之子在战场上奋起、持着可怖神箭,便避开他的路径,快快离去吧,持守誓愿者啊。

6.112.25

पश्याद्यैतन्महाघोरे संयुगे वैशसं महत् ।
हेमचित्राणि शूरणां महान्ति च शुभानि च ॥ ६.११२.२५ ॥

看吧,在这可怕的战斗中,这场巨大的杀戮,以及英雄们那金饰的宏大而华美的(兵器)。

6.112.26

कवचान्यवदीर्यन्ते शरैः सन्नतपर्वभिः ।
छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च ॥ ६.११२.२६ ॥

铠甲被带有弯曲节点的箭矢撕裂;旗帜的顶端、长矛和弓也被砍断。

6.112.27

प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः ।
वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ॥ ६.११२.२७ ॥

闪亮锋利的长矛、如金光闪耀的标枪,以及象群的胜利旗帜,都被愤怒的戴冠者(阿周那)斩断。

6.112.28

नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः ।
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥ ६.११२.२८ ॥

此时并非保全性命之时,让那些依赖儿子生活的人去保护自己吧。以天堂为目标,为荣誉与胜利前进吧。

6.112.29

रथनागहयावर्तां महाघोरां सुदुर्गमाम् ।
रथेन संग्रामनदीं तरत्येष कपिध्वजः ॥ ६.११२.२९ ॥

这位猴旗者(阿周那)乘战车渡过这条战斗之河——极其可怕、极难渡过,其漩涡便是战车、象与马。

6.112.30

ब्रह्मण्यता दमो दानं तपश्च चरितं महत् ।
इहैव दृश्यते पार्थे भ्राता यस्य धनञ्जयः ॥ ६.११२.३० ॥

对婆罗门的敬奉、克己、布施、苦行与高尚的品行,都在普利塔之子身上显现出来;他的兄弟便是持财者。

6.112.31

भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ ।
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥ ६.११२.३१ ॥

强大的毗摩森那、摩德里的两个儿子般度五子,以及乌鲁族的婆苏提婆——他作为他们的守护者稳然屹立。

6.112.32

तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः ।
तपोभावितदेहस्य कोपो दहति वाहिनीम् ॥ ६.११२.३२ ॥

这由恶念的持国之子之怒而生;身体因苦行而净化者之怒,正在焚烧军队。

6.112.33

एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः ।
दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥ ६.११२.३३ ॥

看哪,依靠婆苏提婆的般度之子(阿周那)出现了,他从四面八方撕裂持国之子的一切军队。

6.112.34

एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना ।
महोर्मिनद्धं सुमहत्तिमिनेव महाजलम् ॥ ६.११२.३४ ॥

这支军队被戴冠者(阿周那)搅动,如同被巨浪环绕、被鲸鱼般的时密海怪搅动的广阔大海。

6.112.35

हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे ।
याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥ ६.११२.३५ ॥

军队前端传来“哈哈”与“基拉基拉”的呼喊声。快走!我要去往般遮罗的继承者那里,去见坚战。

6.112.36

दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः ।
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥ ६.११२.३६ ॥

无限光辉之王的阵列中的空隙确实难以穿越,如同大海的腹中,四面都有驻守的大车勇士环绕。

6.112.37

सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ ।
पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम् ॥ ६.११२.३७ ॥

萨提亚基与阿毗曼尤、德里斯塔笃姆那与狼腹(毗摩),以及那对孪生兄弟,从四面守护着人主国王。

6.112.38

उपेन्द्रसदृशश्यामो महाशाल इवोद्गतः ।
एष गच्छत्यनीकाग्रे द्वितीय इव फल्गुनः ॥ ६.११२.३८ ॥

肤色如优彭陀罗(毗湿奴),挺立如大娑罗树,此人走在军队前列,宛如第二个弗尔古那(阿周那)。

6.112.39

उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद्धनुः ।
पार्षतं याहि राजानं युध्यस्व च वृकोदरम् ॥ ६.११२.३९ ॥

执起最好的武器,拿起大弓,前往般遮多之子那里,到达国王身边,与狼腹(毗摩)交战。

6.112.40

को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः ।
क्षत्रधर्मं तु संप्रेक्ष्य ततस्त्वां नियुनज्म्यहम् ॥ ६.११२.४० ॥

谁不希望心爱的儿子长久永生呢?然而,顾念刹帝利的本分,我如今任命你。

6.112.41

एष चातिरणे भीष्मो दहते वै महाचमूम् ।
युद्धेषु सदृशस्तात यमस्य वरुणस्य च ॥ ६.११२.४१ ॥

看!毗湿摩在激烈的战斗中焚烧着大军,孩子!在战斗中他与阎摩、伐楼那相当。

6.112.42

पुत्रं समनुशास्यैवं भारद्वाजः प्रतापवान् ।
महारणे महाराज धर्मराजमयोधयत् ॥ ६.११२.४२ ॥

大王啊,般遮多之子婆罗堕阁这样教导了儿子之后,在那场大战中与法王交战。