摩诃婆罗多 · 章 6.113
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.113.1
भगदत्तः कृपः शल्यः कृतवर्ता तथैव च ।
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥ ६.११३.१ ॥
婆伽达多、克利巴、沙利耶、迦尔塔瓦尔曼,同样还有阿槃提的两位王子文陀与阿努文陀,以及信度王胜车。
6.113.2
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा ।
दशैते तावका योधा भीमसेनमयोधयन् ॥ ६.११३.२ ॥
奇特塞那、毗迦尔那和年轻的杜尔玛沙那——你方这十位勇士与毗摩森那交战。
6.113.3
महत्या सेनया युक्ता नानादेशसमुत्थया ।
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥ ६.११३.३ ॥
大王啊,他们率领从各地汇集的庞大军队,在战场上追求毗湿摩的伟大荣誉。
6.113.4
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् ।
कृतवर्मा त्रिभिर्भाणैः कृपश्च नवभिः शरैः ॥ ६.११३.४ ॥
沙利耶以九箭射伤毗摩森那,迦尔塔瓦尔曼以三箭,克利巴亦以九箭。
6.113.5
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष ।
दशभिर्दशभिर्बाणैर्भीमसेनमताडयन् ॥ ६.११३.५ ॥
尊者啊,奇特塞那、毗迦尔那与婆伽达多各以十箭射伤毗摩森那。
6.113.6
सैन्धवश्च त्रिभिर्बाणैर्भीमसेनमडायत् ।
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ॥ ६.११३.६ ॥
信度王以三箭射伤毗摩森那,阿槃提的两位王子文陀与阿努文陀各以五箭射之。
6.113.7
दुर्मर्षणस्तु विंशत्या पाण्डवं निशितैः शरैः ।
स तान्सर्वान्महाराज राजमानान्पृथक्पृथक् ॥ ६.११३.७ ॥
杜尔马沙那以二十支利箭射中般度之子(毗摩)。大王啊,他又分别射中了那些闪耀的战士。
6.113.8
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ।
जघान समरे वीरः पाण्डवः परवीरहा ॥ ६.११३.८ ॥
那位杀戮敌方英雄的英勇般度之子,在战场上杀死了世间最杰出的勇士、大车战士、持国之子们。
6.113.9
सप्तभिः शल्यमाविध्यत्कृतवर्माणमष्टभिः ।
कृपस्य सशरं चापं मध्ये चिच्छेद भारत ॥ ६.११३.९ ॥
他以七支箭射中沙利耶,以八支箭射中克里塔瓦尔曼。婆罗多的后裔啊,他将克里帕的弓连同箭从中间斩断。
6.113.10
अथैनं च्छिन्नधन्वानं पुनर्विव्याध सप्तभिः ।
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् ॥ ६.११३.१० ॥
随后,他的弓被斩断,又以七支箭射中他,并以各三支箭射中频陀与阿努频陀。
6.113.11
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ।
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् ॥ ६.११३.११ ॥
他以二十支箭射中杜尔马沙那,以五支射中citrasena,以十支箭射中维卡尔纳,以五支射中胜车。
6.113.12
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ।
अथान्यद्धनुरादाय गौतमो रथिनां वरः ॥ ६.११३.१२ ॥
毗摩击中他们后欢喜地咆哮,又以三支箭射中信度王(胜车)。随后,车战者中最杰出的瞿昙(克里帕)又拿起另一把弓。
6.113.13
भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ।
स विद्धो दशभिर्बाणैस्तोत्रैरिव महाद्विपः ॥ ६.११३.१३ ॥
他愤怒地用十支锐利的箭射中了怖军。被十支箭射中的他,就像被驱象棒刺中的大象。
6.113.14
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् ।
गौतमं ताडयामास शरैर्बहुभिराहवे ॥ ६.११३.१४ ॥
于是,大王啊,威武的怖军勃然大怒,在战场上以许多箭射击瞿昙。
6.113.15
सैन्धवस्य तथाऽश्वांश्च सारथिं च त्रिभिः शरैः ।
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥ ६.११३.१५ ॥
他用三支箭把信度王的马和御者送往死亡之界;他光辉如时间的终结者死神。
6.113.16
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥ ६.११३.१६ ॥
马已被杀,这位大车将迅速从车上跳下,在战斗中向怖军射出锐利的箭。
6.113.17
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष ।
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥ ६.११३.१७ ॥
啊,主人,婆罗多之最!怖军用两支钵罗箭将那位大智者信度王的弓从中射断。
6.113.18
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥ ६.११३.१८ ॥
大王啊,他的弓已断,车已失,马和御者皆被杀,他急忙登上了citrasena的战车。
6.113.19
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः ।
महारथाञ्शरैर्विद्ध्वा वारयित्वा च मारिष ॥ ६.११३.१९ ॥
大王啊,那里在战斗中,般度之子做出了极为惊人的壮举:他以箭射穿大战车武士,并将他们阻挡下来。
6.113.20
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ।
तदा न ममृषे शल्यो भीमसेस्य विक्रमम् ॥ ६.११३.२० ॥
在众人注视之下,他使信度王失去了战车。那时,沙利耶无法忍受毗摩森那的勇武。
6.113.21
स संधाय शरांस्तीक्ष्णान्करमारपरिमार्जितान् ।
भीमं विव्याध समरे तिष्ठितिष्ठेति चाब्रवीत् ॥ ६.११३.२१ ॥
他搭上以熟练之手磨砺的利箭,在战场上射中毗摩,并喊道:“站住,站住!”
6.113.22
कृपश्च कृतवर्माच भगदत्तश्च वीर्यवान् ।
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥ ६.११३.२२ ॥
慈悲、憍多跋摩,勇猛的婆伽陀多,阿盘提的两位王子频陀与阿努频陀,以及战斗中的旗使,
6.113.23
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् ।
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः ॥ ६.११३.२३ ॥
难降、毗伽罗那,以及勇猛的信度王,为了沙利耶迅速射伤了毗摩,啊,降伏敌人的诸位。
6.113.24
स च तान्प्रति विव्याध पञ्चभिः पञ्चभिः शरैःक ।
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥ ६.११३.२४ ॥
他以五支箭分别射中他们每一位,以七十支箭射中沙利耶,然后又以十支箭射中。
6.113.25
तं शल्यो नवभिर्भित्त्वा पुनर्विव्याध पञ्चभिः ।
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥ ६.११३.२५ ॥
沙利耶以九箭射中他,又以五箭再射,并以一支跋罗箭深深射中其御者的要害。
6.113.26
विशोकं प्रेक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् ।
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरुसि चार्पयत् ॥ ६.११३.२६ ॥
勇猛的毗摩娑那见他已被射中却毫不动摇,便以三箭射向摩德罗王的双臂、大腿和胸膛。
6.113.27
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ।
ताजयामास समरे सिंहवाद्विननाद च ॥ ६.११३.२७ ॥
同样,他在战斗中以每人三支直箭击败其他大弓手,并如狮子般咆哮。
6.113.28
ते हि यत्ता महेष्वासाः पाण्डवं युद्धकोविदम् ।
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥ ६.११३.२८ ॥
那些已准备好的大弓手,各以三支锋利未钝的箭,猛烈地射向精通战斗的般度之子的要害。
6.113.29
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे ।
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥ ६.११३.२९ ॥
尽管被射得遍体鳞伤,大弓手毗摩娑那却毫不动摇,正如山岳不会因倾盆大雨的水流而震动。
6.113.30
स तु क्रोधसमाविष्टः पाण्डवानां महारथः ।
मद्रेश्वरं त्रिभिर्बाणैर्भृशं विद्ध्वा महायशाः ॥ ६.११३.३० ॥
而那充满愤怒的般度众大车将,名声显赫者,以三箭猛烈射中摩德罗之主。
6.113.31
कृपं च नवभिर्बाणैर्भृशं विद्ध्वा समन्ततः ।
प्रग्ज्योतिषं शतैराजौ राजन्विव्याध सायकैः ॥ ६.११३.३१ ॥
他以九支箭从四面猛烈射中了悲婆,国王啊,又在战斗中用数百支箭射穿了普拉格约提沙之主(婆伽达多)。
6.113.32
ततस्तु सशरं चापं सात्वतस्य महात्मनः ।
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥ ६.११३.३२ ॥
随后,他如同手艺精湛之人,用极其锋利的剃刀箭斩断了伟大灵魂的萨特瓦塔(萨提亚基)的弓连同箭。
6.113.33
तथान्यद्धनुरादाय कृतवर्मा वृकोदरम् ।
आजघान भ्रुवोर्मध्ये नाराचेन परंतपः ॥ ६.११३.३३ ॥
同样,悲伤的敌人焚烧者克里塔瓦尔曼拿起另一张弓,用铁箭射中了狼腹(婆罗多)的两眉之间。
6.113.34
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः ।
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥ ६.११३.३४ ॥
然而毗摩在战斗中用九支铁箭射中沙利耶,用三支射中婆伽达多,用八支射中克里塔瓦尔曼。
6.113.35
द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन्रथान् ।
तेऽपि तं समरे राजन्विव्यधुर्निशितैः शरैः ॥ ६.११३.३५ ॥
他每次两支箭,射中了以乔达摩(悲婆)为首的战车武士;国王啊,他们也在战斗中用锐利的箭射中了他。
6.113.36
स तथा पीड्यमानोऽपि सर्वशस्त्रैर्महारथैः ।
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥ ६.११३.३६ ॥
尽管被大战车武士的一切兵器如此折磨,他仍将他们视如草芥,无忧无虑地往来奔走。
6.113.37
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् ।
प्रेषयामासुरव्याग्राः शतशोऽथ सहस्रशः ॥ ६.११३.३७ ॥
那些车战勇士中的翘楚,从容不迫,朝毗摩射出锐利的箭,成百上千。
6.113.38
तस्य शक्तिं महावेगां भगदत्तो महारथः ।
चिक्षेप समरे वीरः स्वर्णदण्डां महमते ॥ ६.११३.३८ ॥
智者啊,大车将婆伽达多在战场上掷出了他那速度极快、金柄的长矛。
6.113.39
तोमरं सैन्धवो राजा पट्टसं च महाभुजः ।
शतघ्नीं च कृपो राजञ्छरं शल्यश्च संयुगे ॥ ६.११३.३९ ॥
信度王投出标枪,大臂者投出钩棍,王啊,克里帕投出百杀器,沙利耶在战斗中射出一箭。
6.113.40
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् ।
भीमसेनं समुद्दिश्य प्रेषयमासुरोजसा ॥ ६.११३.४० ॥
接着,其他大弓手瞄准毗摩塞那,以力各射出五支箭。
6.113.41
तोमरं च द्विधा चक्रे क्षुरप्रेणानिलात्मजः ।
पट्टसं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥ ६.११३.४१ ॥
风之子以刀刃般的箭将标枪劈为两段,又以三支箭如斩芝麻茎般斩断了钩棍。
6.113.42
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः ।
मद्रराजप्रयुक्तं च शरं छित्त्वा महारथः ॥ ६.११३.४२ ॥
那位大车勇士以九支鹭羽箭射穿了百杀器,又斩断了摩德罗王射出的箭。
6.113.43
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे ।
तथेतराञ्शरान्घोराञ्शरैः सन्नतपर्वभिः ॥ ६.११३.४३ ॥
他在战斗中突然斩断了婆伽达所掷的长矛,同样用弯曲节羽的箭斩断了其他可怕的箭。
6.113.44
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् ।
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥ ६.११३.४४ ॥
以勇武自豪的毗摩先那将每支箭斩成三段,并以每人三支箭射伤了那些大弓箭手。
6.113.45
ततो धनञ्जयस्तत्र वर्तमाने महारणे ।
आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम् ॥ ६.११३.४५ ॥
当那场大战在那里激烈进行时,财主(阿周那)乘战车来到战场,看见了大车将毗摩。
6.113.46
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ।
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ ॥ ६.११३.४६ ॥
他在战场上杀敌,以箭作战,看见那里两位大德的般度之子聚在一起。
6.113.47
न शशंसुर्जयं तत्र तावकाः पुरुषर्षभाः ।
अथार्जुनो रणे भीमं योधयन्तं महारथान् ॥ ६.११३.४७ ॥
那里你的人中之牛们并未宣告胜利。随后人们在战场上看见阿周那,而毗摩正与大车将们交战。
6.113.48
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ।
आससाद रणे वीरांस्तावकान्दश भारत ॥ ६.११३.४८ ॥
他渴望毗湿摩之死,让湿奇丁走在前面,在战场上逼近你方的十位英雄,婆罗多的后裔啊。
6.113.49
ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ।
बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥ ६.११३.४९ ॥
大王啊,那些在战场上站立与毗摩作战的人,阿周那出于愿悦毗摩之心,用箭射穿了他们。
6.113.50
ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥ ६.११३.५० ॥
于是国王难敌激励苏尸摩,要杀死阿周那和毗摩森那二人。
6.113.51
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः ।
जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ॥ ६.११३.५१ ॥
苏尸摩啊,你快去,被大军包围。杀死这两个般度之子——达难闍耶与狼腹。
6.113.52
तच्छ्रुत्वा वचनं तस्य त्रैगर्तः प्रस्थलाधिपः ।
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥ ६.११३.५२ ॥
三摩多的国王——普拉斯特拉之主,听了这话,在战场上向毗摩与阿周那这两位弓手猛冲过去。
6.113.53
रथैरनेकसाहस्रैः समन्तात्पर्यवारयत् ।
ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥ ६.११३.५३ ॥
他以成千上万辆战车从四面包围了他。于是阿周那与敌人的战斗开始了。