摩诃婆罗多 · 章 6.115
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.115.1
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय ।
अयुध्यत महावीर्यः पाण्डवैः सह सृज्जयैः ॥ ६.११५.१ ॥
善胜啊,第十日,大勇的商塔努之子毗湿摩如何与般度之子和娑罗耶人作战?
6.115.2
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् ।
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥ ६.११५.२ ॥
诸俱卢人如何在战斗中阻挡般度之子?请把毗湿摩那场光耀于战阵的大战告诉我。
6.115.3
कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत ।
यथा च तदभूद्युद्धं तत्तु वक्ष्यामि सांप्रतम् ॥ ६.११५.३ ॥
婆罗多之后啊,俱卢人如何与般度之子作战,那场战斗如何发生,现在我将告诉你。
6.115.4
गमिताः परलोकाय परमास्त्रैः किरीटिना ।
अहन्यहनि संप्राप्ते तावकानां महारथाः ॥ ६.११५.४ ॥
日复一日战斗来临时,戴冠的阿周那以最高的神兵把你的大车战士送往另一个世界。
6.115.5
यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः ।
पार्थानामकरोद्भीष्मः सततं समिति क्षयम् ॥ ६.११५.५ ॥
依照他的誓愿,俱卢族的毗湿摩这位战阵的胜者,也不断在战斗中使普利塔之子走向毁灭。
6.115.6
कुरुभिः सहितं भीष्मं युध्यमानं परंतप ।
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥ ६.११५.६ ॥
敌人的摧毁者啊,人们看到毗湿摩与俱卢族并肩作战,阿周那与般遮罗人在一起,于是陷入了疑惑。
6.115.7
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे ।
अवर्तत महारौद्रः सततं समिति क्षयः ॥ ६.११५.७ ॥
第十日,在毗湿摩与阿周那相遇之时,战场上持续发生了极其可怖的杀戮。
6.115.8
तस्मिन्नयुतशो राजन्भूयशश्च परंतपः ।
भीष्मः शान्तनवो योधाञ्जघान परामास्त्रवित् ॥ ६.११५.८ ॥
大王,在那场战斗中,焚烧敌人的、精通最高神兵的商塔努之子毗湿摩,杀死了数以万计、乃至多次的战士。
6.115.9
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव ।
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥ ६.११५.९ ॥
大王,那些从不退缩、名字与族系仿佛无人知晓的英雄,全都在那里被毗湿摩杀死了。
6.115.10
दशाहानि तथा तप्त्वा भीष्मः पाण्डववाहिनीम् ।
निरविद्यत धर्मात्मा जीविते स परंतपः ॥ ६.११५.१० ॥
如此折磨般度军十日之后,心怀正法的毗湿摩,这位焚烧敌人者,对自己的生命感到厌倦。
6.115.11
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिसुखं रणे ।
न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति ॥ ६.११५.११ ॥
他急切地求死,心想:“我不应在战斗中杀害那些面对我的人中之英杰。”
6.115.12
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव ।
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥ ६.११५.१२ ॥
大王,您的父亲,大臂的提婆跋多思量之后,对近旁站立的般度之子说了这些话。
6.115.13
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।
शृणुष्व वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥ ६.११५.१३ ॥
啊,坚战,大智之人,精通一切学问,亲爱的孩子,听我的话,那是合乎法义、通往天界的言语。
6.115.14
निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत ।
घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ॥ ६.११५.१४ ॥
亲爱的孩子,婆罗多的后裔,我对这个身体已经深感厌倦。我在战场上杀害许多生灵,已经度过了很长的时光。
6.115.15
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृज्जयांस्तथा ।
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ॥ ६.११५.१५ ॥
因此,让帕尔塔(阿周那)走在前面,连同般遮罗与斯륵颜陀人,努力促成我的死亡,如果你愿意做我喜欢的事。
6.115.16
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः ।
भीष्मं प्रति ययौ राजा संग्रामे सह सृञ्जयैः ॥ ६.११५.१६ ॥
般度王子坚战,真理的见证者,理解了他的意见后,与斯륵颜陀人一同在战场上向毗湿摩走去。
6.115.17
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः ।
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥ ६.११५.१७ ॥
大王啊,于是,猛光与般度子坚战听了毗湿摩的那番话,便激励军队前进。
6.115.18
अभिद्रवध्यं युद्ध्यध्वं भीष्मं जयत संयुगे ।
रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ॥ ६.११५.१८ ॥
冲上前去,奋战,在战斗中征服毗湿摩;有真誓的、战胜敌人的胜军(阿周那)护卫着你们。
6.115.19
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः ।
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ॥ ६.११५.१९ ॥
这位大弓手般的Pārṣata、统帅,以及Bhīmasena,必将在战场上护卫你们。
6.115.20
मा वो भीष्माद्भयं किंचिदस्त्वद्य युधि सृञ्जयाः ।
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥ ६.११५.२० ॥
Sṛñjaya的勇士们,今日战场上,你们不必畏惧Bhīṣma。将Śikhaṇḍin置于前列,我们必将战胜Bhīṣma。
6.115.21
ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः ।
ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्च्छिताः ॥ ६.११५.२१ ॥
般度之子们如此约定了第十日,以梵界为志向,被愤怒所笼罩,向前进发。
6.115.22
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् ।
भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥ ६.११५.२२ ॥
他们将Śikhaṇḍin和般度之子Dhanañjaya置于前列,全力以赴,力图击倒Bhīṣma。
6.115.23
ततस्त्व सुतादिष्टा नानाजनपदेश्वराः ।
द्रोणेन सहपुत्रेण सहसेना महाबलाः ॥ ६.११५.२३ ॥
于是,在你的诸子命令下,各地的君主率领大军,凭其强大的力量,与Droṇa及其子一同前来。
6.115.24
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः ।
भीष्मं समरमध्यस्थं पालयांचक्रिरे तदा ॥ ६.११५.२४ ॥
力大无穷的Duḥśāsana与他所有的兄弟一起,那时守护着站在战阵中央的Bhīṣma。
6.115.25
ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम् ।
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ ६.११५.२५ ॥
于是你方英雄们将大誓者(毗湿摩)置于前方,在战斗中与以湿坎丁为首的般度之子们交战。
6.115.26
चेदिभिस्तु सपाञ्चालैः सहितो वानरध्वजः ।
ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ॥ ६.११५.२६ ॥
与遮提人和般遮罗人同行的猴旗者(阿周那)将湿坎丁置于前,朝着山getanu之子毗湿摩前进。
6.115.27
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् ।
अभिमन्युः सहामात्यं दुर्योधमयोधयत् ॥ ६.११५.२७ ॥
Śini之孫(薩提亞基)與持斯羅德奪先與德羅納之子交戰,阿毗曼尤與帶著大臣的持陀王子杜呂檀那交戰。
6.115.28
विराटस्तु सहानीकः सहसेनं जयद्रथम् ।
वृद्धक्षत्रस्य दायादमाससाद परंतप ॥ ६.११५.२८ ॥
毗罗吒与其军队和部众,攻击了老剎特罗之继承人胜车。哦,焚敌者!
6.115.29
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः ।
भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत् ॥ ६.११५.२९ ॥
坚战率军攻击摩德罗国王、大弓手沙利耶;受护卫的怖军则冲向象兵阵。
6.115.30
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् ।
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः ॥ ६.११५.३० ॥
警觉的般遮罗王子与兄弟们一同前往德罗纳——他不可战胜、不可阻挡,是一切持械者中最优秀的。
6.115.31
कर्णिकारध्वजं चैव सिंहकैतुररिंदमः ।
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ॥ ६.११५.३१ ॥
王子布利哈德巴拉(Bṛhadbala)是降伏敌人者,旗帜上有迦尼迦罗花,徽记为狮子,他上前迎战娑鲍陀罗(阿毗曼尤)。
6.115.32
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् ।
राजभिः समरे पार्थमभिपेतुर्जिघांसवः ॥ ६.११५.३२ ॥
你的儿子们和诸王怀着杀意,在战场上扑向尸犍底(Śikhaṇḍin)、般度之子达难闍耶,以及普利塔之子帕尔塔。
6.115.33
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे ।
संप्रधावत्स्वनीकेषु मेदिनी समकम्पत ॥ ६.११५.३३ ॥
在两军那场极为可怖的激战中,军队向前冲锋之时,大地完全震动。
6.115.34
तान्यनीकान्यनीकेषु समयुध्यन्त भारत ।
तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ॥ ६.११५.३४ ॥
婆罗多之裔啊,你方与敌方的那些军队彼此相搏,因为在战场上看见了檀努之子毗湿摩。
6.115.35
ततस्तेषां प्रयततामन्योन्यमभिधावताम् ।
प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत ॥ ६.११५.३५ ॥
那时,他们彼此奋力冲击,婆罗多之裔啊,各个方向都响起了巨大的喧嚣。
6.115.36
शङ्खदुन्दुभिघोषश्च वारणानां च बृंहितैः ।
सिंहनादश्च सैन्यानां दारुणः समपद्यत ॥ ६.११५.३६ ॥
螺号与战鼓之声、大象的吼叫、以及军队的狮吼,骇人地响彻四方。
6.115.37
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा ।
हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥ ६.११५.३७ ॥
诸王的光辉如日月一般,在项链、臂钏与王冠中变得黯淡无光。
6.115.38
रजोमेघास्तु संजज्ञुः शस्त्रविद्युद्भिरावृताः ।
धनुषां चापि निर्घोषो दारुणः समपद्यत ॥ ६.११५.३८ ॥
尘埃之云升起,被兵器如闪电般的光芒所笼罩,弓弦的可怖轰鸣也随之而起。
6.115.39
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः ।
रथघोषश्च संजज्ञे सेनयोरुभयोरपि ॥ ६.११५.३९ ॥
箭矢与海螺之声、战鼓的巨响以及战车的轰鸣,在双方军中都升起了。
6.115.40
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् ।
निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ॥ ६.११५.४० ॥
双方军中的天空,充满了成群的长矛、枪与投枪,以及箭的洪流,变得仿佛失去了光明。
6.115.41
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे ।
कुञ्जरान्कुञ्जरा जघ्नुः पादातांश्च पदातयः ॥ ६.११५.४१ ॥
在那场大战中,车兵彼此倒下,骑兵也是如此;象群攻击象群,步卒攻击步卒。
6.115.42
तत्रासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह ।
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥ ६.११५.४२ ॥
为了毗湿摩,库鲁族与般度族之间爆发了极为激烈的大战,啊,人中之虎,犹如两只鹰争夺肉食。
6.115.43
तयोः समागमो घोरो बभूव युधि भारत ।
अन्योन्यस्य वधार्थाय जिगीषूणां महाहवे ॥ ६.११५.४३ ॥
婆罗多之子啊,在战场上两人发生了可怕的交锋,那些渴求胜利的人在这场大战中互相寻求对方的死亡。