Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.116

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.116.1

अभिमन्युर्महाराज तव पुत्रमयोधयत् ।
महत्या सेनया युक्तं भीष्महेतोः पराक्रमी ॥ ६.११६.१ ॥

大王啊,勇猛的阿毗摩豆为了毗湿摩,与您那率领大军的儿子交战。

6.116.2

दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः ।
आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥ ६.११६.२ ॥

杜尔约达那在战斗中愤怒地用九支带弯曲节的箭射中黑天之子(阿毗摩豆)的胸膛,接着又用三支箭射他。

6.116.3

तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम् ।
प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ॥ ६.११६.३ ॥

战斗中,极度愤怒的黑天之子将他的长矛——如同死神的铁舌——射向杜尔约达那的战车。

6.116.4

तामापतन्तीं सहसा घोररूपां विशांपते ।
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥ ६.११६.४ ॥

人主啊,您那大战车武士之子用一支剃刀头箭将那突然飞来、形状可怖的长矛斩为两段。

6.116.5

तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ६.११६.५ ॥

黑天之子见那长矛坠落,极度愤怒,用三支箭射入杜尔约达那的双臂和胸膛。

6.116.6

पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे ।
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥ ६.११६.६ ॥

婆罗多族中最优秀者啊,他又用十支可怖的箭射中那不能忍耐的杜尔约达那的胸口正中。

6.116.7

तद्युद्धमभवद्धोरं चित्ररूपं च भारत ।
ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम् ॥ ६.११६.७ ॥

婆罗多啊,那场战斗变得惨烈而形态奇异,令观者欢喜,并受到所有国王的赞誉。

6.116.8

भीष्मस्य निधनार्थाय पार्थस्य विजयाय च ।
युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ॥ ६.११६.८ ॥

为了毗湿摩的死亡和阿周那的胜利,那两位英雄——妙贤与俱卢族的雄牛——在战场上交战。

6.116.9

सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः ।
आजघानोरसि क्रुद्धो नाराचेन परंतपः ॥ ६.११६.९ ॥

在战斗中,迅猛的萨特亚基被德罗纳之子——婆罗门中的俊杰——愤怒地以铁箭击中胸膛;那位折磨敌人的英雄。

6.116.10

शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत ।
अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥ ६.११६.१० ॥

希尼之后萨特亚基也以九支鹭羽箭射中了老师之子的所有要害,婆罗多啊——那位心志无量的英雄。

6.116.11

अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः ।
त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥ ६.११६.११ ॥

然而阿什瓦特拉玛在战斗中迅速以九支箭射中萨特亚基的臂膀与胸膛,接着又以三十支箭射中。

6.116.12

सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्यकिः ।
द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥ ६.११६.१२ ॥

被德罗纳之子重创的那位大弓手萨特亚基,大名远扬,以三支箭射中了德罗纳之子。

6.116.13

पौरवो धृष्टकेतुं च शरैराच्छाद्य संयुगे ।
बहुधा दारयांचक्रे महेष्वासं महारथः ॥ ६.११६.१३ ॥

在战斗中,波罗婆以箭遮蔽了持盾者,多方穿透了这位大弓手,那位大车战士。

6.116.14

तथैव पौरवं युद्धे धृष्टकेतुर्महारथः ।
त्रिंशता निशितैर्बाणैर्विव्याधाशु महाभुजः ॥ ६.११६.१४ ॥

同样,在战斗中,大车战士持盾者迅速以三十支利箭射穿了波罗婆,这位大臂者。

6.116.15

पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥ ६.११६.१५ ॥

然而波罗婆斩断了持盾者的弓,这位大车战士猛烈咆哮,并以利箭射穿了他。

6.116.16

सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः ।
आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥ ६.११६.१६ ॥

他取了另一张弓,大王啊,以七十三支锐利的尸利穆可箭击打了波罗婆。

6.116.17

तौ तु तत्र महेष्वासौ महामात्रौ महारथौ ।
महता शरवर्षेण परस्परमवर्षताम् ॥ ६.११६.१७ ॥

那两位大弓手、大战士、大车战士在那里以巨大的箭雨彼此倾泻。

6.116.18

अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत ।
विरथावसियुद्धाय समीयतुरमर्षणौ ॥ ६.११६.१८ ॥

婆罗多啊,二人互相斩断对方的弓,杀死了对方的马,都失去了战车,两位怒不可遏的战士为剑斗而相遇。

6.116.19

आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते ।
तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ ॥ ६.११६.१९ ॥

两面牛皮盾牌,色彩斑斓,饰有百个新月,绘有百颗星辰,以及两把光芒极盛的利剑。

6.116.20

प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ ।
वासितासंगमे यत्तौ सिंहाविव महावने ॥ ६.११६.२० ॥

大王啊,二人举起明亮的利剑,互相扑去,如同大森林中两头为争母象而相遇的雄狮。

6.116.21

मण्डलानि विचित्राणि गतप्रत्यागतानि च ।
चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥ ६.११६.२१ ॥

二人以奇妙的盘旋步法进退往来,炫耀各自的技艺,并各自谋求击中对方。

6.116.22

पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना ।
ताडयामास संक्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ६.११६.२२ ॥

愤怒的波罗婆用大剑击中德瑞斯塔盖图的太阳穴,喊道:“站住,站住!”

6.116.23

चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् ।
आजघान शिताग्रेण जत्रुदेशे महासिना ॥ ६.११६.२३ ॥

支地王也在战场上用尖锐锋利的大剑击中人中雄牛波罗婆的锁骨处。

6.116.24

तावन्योन्यं महाराज समासाद्य महाहवे ।
अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥ ६.११६.२४ ॥

大王啊,在那场大战中,二人相遇,被彼此的冲力所伤,两位降伏敌人的勇士倒下了。

6.116.25

ततः स्वरथमारोप्य पौरवं तनयस्तव ।
जयत्सेनो रथेनाजावपोवाह रणाजिरात् ॥ ६.११६.२५ ॥

于是你的儿子嘉耶森把波卢婆放上自己的战车,从战场上将他载离。

6.116.26

धृष्टकेतु तु समरे माद्रीपुत्रः प्रतापवान् ।
अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी ॥ ६.११६.२६ ॥

然而在战斗中,摩德丽的勇猛之子萨诃提婆怒气冲冲地将德里斯塔克图载离战场。

6.116.27

चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः ।
पुनर्विव्याध तं षष्ट्या पुनश्च नवभि शरैः ॥ ६.११६.२७ ॥

旃陀罗塞那以许多铁箭射中苏沙尔曼,又以六十支、再以九支箭射中他。

6.116.28

सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशांपते ।
दशमिर्दशभिश्चैव विव्याध निशितैः शरैः ॥ ६.११६.२८ ॥

人主啊!苏沙尔曼在战斗中愤怒,以锋利的箭每次十支地射中你的儿子。

6.116.29

चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वभिः ।
आजघान रमे क्रुद्धः स च तं प्रत्यविध्यत ॥ ६.११६.२९ ॥

大王啊,旃陀罗塞那愤怒地以三十支弯钩箭射他,他也回射了他。

6.116.30

भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ।
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ॥ ६.११६.३० ॥

大王啊,那位苏跋陀罗之子在战斗中增添婆罗多的光荣与尊严,与王子广力交战。

6.116.31

पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति ।
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ॥ ६.११६.३१ ॥

为了般度之子(Pārtha),勇猛地冲向毗湿摩之死的科萨拉王,用五支铁箭射中了阿周那之子。

6.116.32

पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः ।
सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः ॥ ६.११६.३२ ॥

苏跋陀罗之子又用二十支尖端弯曲的箭射中他;又用八支铁箭射中了科萨拉王。

6.116.33

नाकम्पयत संग्रामे विव्याध च पुनः शरैः ।
कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः ॥ ६.११६.३३ ॥

他在战斗中并未动摇;又用箭射中他。法尔古那之子又一次斩断了科萨拉王子的弓。

6.116.34

आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः ।
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ॥ ६.११६.३४ ॥

他又以三十支鹭羽箭射击。随后王子布里哈德巴拉取了另一张弓——

6.116.35

फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ।
तयोर्युद्धं समभवद्भीष्महेतोः परंतप ॥ ६.११६.३५ ॥

他愤怒地在战斗中用许多箭射中法尔古那之子。两人的战斗为了毗湿摩而起,啊,敌人的烧灼者。

6.116.36

संरब्धयोर्महाराज समरे चित्रयोधिनोः ।
यथा देवासुरे युद्धे बलिवासवयोरभूत् ॥ ६.११६.३६ ॥

大王啊,那两位在战斗中愤怒的奇异勇士之间的战斗,如同神与阿修罗之战中的婆利与因陀罗之战。

6.116.37

भीमसेनो गजानीकं योधयन्बह्वशोभत ।
यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥ ६.११६.३७ ॥

毗摩那在与象阵交战时大放光彩,如手持金刚杵的因陀罗劈裂最高的山峰一般。

6.116.38

ते वध्यमाना भीमेन मात्गा गिरिसन्निभाः ।
निपेतुरुर्व्यां सहिता नादयन्तो वसुधराम् ॥ ६.११६.३८ ॥

那些如山般的象被毗摩杀死,一同倒在地上,使大地为之轰鸣。

6.116.39

गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः ।
विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः ॥ ६.११६.३९ ॥

那些如山般巨大的象,宛如被劈开的黑粉堆,落在大地上,犹如散落的群山。

6.116.40

युधिष्ठिरो महेष्वासो मद्रराजानमाहवे ।
महत्या सेनया गुप्तं पीडयामास संगतम् ॥ ६.११६.४० ॥

大弓手坚战在战场上逼迫被大军护卫、前来迎战的摩德罗王。

6.116.41

मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् ।
पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥ ६.११६.४१ ॥

摩德罗之主在战斗中愤怒而勇猛,为了毗湿摩,逼迫法之子这位大车战士。

6.116.42

विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः ।
नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत् ॥ ६.११६.४२ ॥

信度王以九支带弯节的利箭射穿毗罗吒,又以三十支箭还击。

6.116.43

विराटश्च महाराज सैन्धवं वाहिनीपतिः ।
त्रिंशद्भिर्निशितैर्बाणैराजघान स्तनान्तरे ॥ ६.११६.४३ ॥

大王啊,统帅毗罗吒以三十支锐利的箭射中信度王的胸膛。

6.116.44

चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ ।
रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥ ६.११६.४४ ॥

两人,即摩蹉王与信度王,持着华丽的弓、剑,披着彩甲,执着武器与旗帜,在战场上以奇异的容貌闪耀。

6.116.45

द्रोणः पाञ्चालपुत्रेण समागम्य महारणे ।
महासमुदयं चक्रे शरैः सन्नतपर्वभिः ॥ ६.११६.४५ ॥

在大战中,德罗纳与般遮罗王之子相遇,以节部弯曲的箭发动了猛烈的攻击。

6.116.46

ततो द्रोणो महाराज पार्षतस्य महद्धनुः ।
छित्त्वा पञ्चाशतेषूंश्च पार्षतं प्रति सृष्टवान् ॥ ६.११६.४६ ॥

于是,大王啊,德罗纳斩断了般遮罗之子的大弓,并向他射出五十支箭。

6.116.47

सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा ।
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥ ६.११६.४७ ॥

击杀敌方英雄的般遮罗之子取过另一张弓,在德罗纳注视之下于战场上发出箭矢。

6.116.48

ताञ्छराञ्छरघातेन चिच्छेद स महारथः ।
द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥ ६.११६.४८ ॥

那位大车士德罗纳以箭矢的打击斩断了那些箭,并向德鲁帕达之子射出五支箭。

6.116.49

ततः क्रुद्धो महाराज पार्षतः परवीरहा ।
द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥ ६.११६.४९ ॥

大王啊,愤怒的般遮罗王子,敌方英雄的杀戮者,在战斗中向德罗纳投掷了一根如阎摩杖般的铁杵。

6.116.50

तामापतन्तीं सहसा हेमपट्टविभूषिताम् ।
शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥ ६.११६.५० ॥

那柄突然向他飞来、饰有金色带纹的铁杵,德罗纳在战斗中以五十支箭将其挡下。

6.116.51

सा छिन्ना बहुधा राजन्द्रोगचापच्युतैः शरैः ।
चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥ ६.११६.५१ ॥

大王啊,那柄铁杵被德罗纳弓上射出的箭矢斩成many段,碎成粉末,四散崩落,坠于地上。

6.116.52

गदां विनिहतां दृष्ट्वा पार्षतः शत्रुतापनः ।
द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥ ६.११६.५२ ॥

般遮罗王子见铁杵被毁,这位令敌人炽热的人向德罗纳投出一支精美的全铁长矛。

6.116.53

तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत ।
पार्षतं च महेष्वासं पीजयामास संयुगे ॥ ६.११६.५३ ॥

婆罗多的后裔啊,德罗纳在战斗中以九支箭斩断了那支长矛,并在战斗中也重创了大弓手般遮罗王子。

6.116.54

एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत् ।
भीष्मं प्रति महाराज घोररूपं भयानकम् ॥ ६.११६.५४ ॥

大王啊,就这样,德罗纳与般遮罗王子之间因毗湿摩之故爆发了这场惨烈而可怖的大战。

6.116.55

अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः ।
अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम् ॥ ६.११६.५५ ॥

阿周那追上恒河之子,以锐利的箭矢击打他,如同森林中发狂的大象,坚决地向他冲去。

6.116.56

प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान् ।
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥ ६.११६.५६ ॥

勇猛的国王婆伽陀多,力量强大,骑着被情欲蒙蔽、从三处流出汁液的大象,前去迎战他。

6.116.57

तमापतन्तं सहसा महेन्द्रगजसन्निभम् ।
परं यत्नं समस्थाय बीभत्सुः प्रत्यपद्यत ॥ ६.११६.५७ ॥

毗婆茨(阿周那)看见那头突然向他冲来、如同因陀罗之象的大象,便竭尽全力稳住身形,迎面而战。

6.116.58

ततो गजगतो राजा भगदत्तः प्रतापवान् ।
अर्जुनं शरवर्षेण वारयामास संयुगे ॥ ६.११६.५८ ॥

于是骑在象背上的勇猛国王婆伽陀多,以箭雨在战场上阻住了阿周那。

6.116.59

अर्जुनस्तु ततो नागमायान्तं रजतोपमैः ।
विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥ ६.११६.५९ ॥

阿周那见那象走近,便在大战中以锋利的铁箭射穿了它,那箭如白银般明亮纯净。

6.116.60

शिखण्डिनं च कौन्तेयो याहियाहीत्यचोदयत् ।
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥ ६.११६.६० ॥

贡蒂之子(阿周那)催促湿婆坎丁说:"前进,前进!",又说:"大王,向毗湿摩进发,将他击杀。"

6.116.61

प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज ।
प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥ ६.११६.६१ ॥

于是,般度的先祖啊,普拉格约蒂沙王离开般度之子,王啊,急速朝德鲁帕达的战车驶去。

6.116.62

ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् ।
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत । ॥ ६.११६.६२ ॥

于是,伟大的王啊,阿周那让湿婆坎丁走在前面,迅速冲向毗湿摩,战斗随之开始。

6.116.63

ततस्ते तावकाः शूराः पाण्डवं रभसं युधि ।
समभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥ ६.११६.६३ ॥

于是,你的勇士们高声呼喊,在战斗中猛烈地冲向般度之子;那景象仿佛奇异非凡。

6.116.64

नानाविधान्यनीकानि पुत्राणां ते जनाधिप ।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ ६.११६.६४ ॥

人主啊,阿周那适时地驱散了你诸子的各种军队,正如风吹散天空中的云朵。

6.116.65

शिखण्डी तु समासाद्य भरतानां पितामहम् ।
इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥ ६.११६.६५ ॥

然而湿婆坎丁走近婆罗多族的祖父,毫不慌乱,迅速用许多箭将他覆盖。

6.116.66

रथाग्न्यगारश्चापार्चिरशिशक्तिगदेन्धनः ।
शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ॥ ६.११६.६६ ॥

它如同由战车构成的火屋,以弓焰为光,以枪与槌为薪,以箭雨的大火焰烧尽了战场上的刹帝利。

6.116.67

यथाऽग्निः सुमहानिद्धः कक्षे चरति सानिलः ।
तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥ ६.११६.६७ ॥

如同大火被风助燃,在林中蔓延,毗湿摩也燃烧起来,发射神圣的武器。

6.116.68

सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् ।
न्यवारयत तत्सैन्यं पाण्डवस्य महारथः ॥ ६.११६.६८ ॥

在战场上,毗湿摩杀死了苏摩迦人和追随般度之子的战士,这位大车将阻挡了般度的那支军队。

6.116.69

सुवर्णपुङ्खैरिषुभिः शितैः सन्नतपर्वभिः ।
नादयन्स दिशो भीष्मः प्रदिशश्च महाहवे ॥ ६.११६.६९ ॥

毗湿摩以金羽、锐利、节部弯曲的箭,使那场大战中的方向与侧向都回荡起声响。

6.116.70

पातयन्रथिनो राजन्हयांश्च सह सादिभिः ।
मुण्डतालवनानीव चकार स रथव्रजान् ॥ ६.११६.७० ॥

大王啊,他将车兵与马匹连同骑手一并击倒,使成群的战车如同被砍去头颅的棕榈林。

6.116.71

निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।
चकार समरे भीष्मः सर्वशस्त्रभृतां वरः ॥ ६.११६.७१ ॥

大王啊,诸持械者中的最优者毗湿摩,使战场上的战车、象与马都失去了人员。

6.116.72

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥ ६.११६.७२ ॥

大王啊,他弓弦与手掌的响声如同雷霆霹雳,士兵们听到后四面八方都一齐颤抖起来。

6.116.73

अघोमा न्यपतन्बाणाः पितुस्ते मनुजेश्वर ।
नासञ्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥ ६.११६.७३ ॥

人主啊,射向你父亲的箭向下坠落;从毗湿摩弓上射出的箭并未穿入身体。

6.116.74

निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः ।
वातायमानानद्राक्षं ध्रियमाणान्विशांपते ॥ ६.११६.७४ ॥

人主啊,我看见配备快马、套得整齐的战车,已无御者,如风疾驰,被马拉着,人民之主啊。

6.116.75

चेदिकाशिकरूशानां सहस्राणि चतुर्दश ।
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ ६.११६.७५ ॥

车奇、迦尸与迦卢沙的一万四千名大车战士,皆以勇名著称、出身高贵,舍弃了身躯。

6.116.76

अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः ।
संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ॥ ६.११६.७६ ॥

从不退缩的勇士们,旗帜饰以金纹,在战场上冲向毗湿摩,连同马匹、战车与象群。

6.116.77

जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ।
न तत्रासीद्रणे राजन्सोमकानां महारथः ॥ ६.११६.७७ ॥

他们如张口的死神一般归往彼岸;人主啊,在那场战斗中,索摩迦再无一名大车战士留存。

6.116.78

यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ।
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति ॥ ६.११६.७८ ॥

那些在战场上抵达毗湿摩、心中仍想求生的战士,全都在战斗中被送往死神之王的城邑。

6.116.79

नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ।
न कश्चिदेनं समरे प्रत्युद्याति महारथः ॥ ६.११६.७९ ॥

众人见毗湿摩的勇武,以为他已被击退;战场上没有一位大战车武士上前迎战他。

6.116.80

ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ।
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥ ६.११६.८० ॥

除了白马为驭、以克里希那为御者的般度之子英雄,以及湿婆神之子式戈丁和力量无穷的般遮罗人,战场上无人敢与他对抗。