摩诃婆罗多 · 章 6.117
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.117.1
शिखण्डी तु रणे भीष्ममासाद्य पुरुषर्षभम् ।
दशभिर्निशितैर्भल्लैराजघान स्तनान्तरे ॥ ६.११७.१ ॥
在战场上,希坎迪走近人中之牛毗湿摩,用十支锋利的婆罗箭射中他的胸膛中央。
6.117.2
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा ।
संप्रेक्षत कटाक्षेण निर्दहन्निव भारत ॥ ६.११७.२ ॥
恒河之子以愤怒燃烧的眼睛斜视希坎迪,仿佛要将他焚毁,婆罗多后裔啊。
6.117.3
स्त्रीत्वं तस्य स्मरन्राजन्सर्वलोकस्य पश्यतः ।
नाजघान रणे भीष्मः स च तन्नावबुद्धवान् ॥ ६.११७.३ ॥
大王啊,在众人注视之下,他想起了她的女性身份,因此毗湿摩没有在战斗中打击他,而且他也没有察觉。
6.117.4
अर्जुनस्तु महाराज शिखण्डिनमभाषत ।
अभित्वरस्वास्य वधे शिखण्डिन्रथसत्तम ॥ ६.११७.४ ॥
大王啊,阿周那对希坎迪说:希坎迪啊,车战中的最强者,快去杀他。
6.117.5
किं ते विवक्षया वीर जहि भीष्मं महारथम् ।
न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले ॥ ६.११७.५ ॥
勇士啊,多说何益?去击杀大车将毗湿摩吧。我在坚战的军中看不到别的人能做到。
6.117.6
यः शक्तः समरे भीष्मं योधयेत पितामहम् ।
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥ ६.११७.६ ॥
人中之虎啊,除你之外,谁能在战斗中与祖父毗湿摩相抗?我这话是真实地对你说的。
6.117.7
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।
शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥ ६.११७.७ ॥
普利塔之子如此说后,婆罗多族的雄牛啊,尸珂坦迪迅速以种种箭矢冲向祖父。
6.117.8
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव ।
अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥ ६.११७.८ ॥
你的父亲提婆跋多不理会那些箭矢,以自己的箭矢在战场上阻挡了愤怒的阿周那。
6.117.9
तथैव च चमूं सर्वां पाण्डवानां महारथः ।
अप्रैषीत्स शरैस्तीक्ष्णैः परलोकाय मारिष ॥ ६.११७.९ ॥
同样,那位大车战士以锐利的箭将般度之子的全军送往另一个世界,尊者啊。
6.117.10
तथैव पाण्डवा राजन्सैन्येन महता वृताः ।
भीष्मं संछादयामासुर्मेघा इव दिवाकरम् ॥ ६.११७.१० ॥
同样,大王啊,般度之子们被大军包围,遮蔽了毗湿摩,如同乌云遮蔽太阳。
6.117.11
स समन्तात्परिवृतो भीष्मो हि भरतर्षभ ।
निर्ददाह रणे शूरान्वने वह्निरिव ज्वलन् ॥ ६.११७.११ ॥
毗湿摩被四面包围,婆罗多族的雄牛啊,在战场上焚烧英雄,如同森林中燃烧的烈火。
6.117.12
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
अयोधयच्च यत्पार्थं जुगोप च पितामहम् ॥ ६.११७.१२ ॥
在那里我们看到你儿子的非凡勇武,他与普利塔之子作战,并守护着祖父。
6.117.13
कर्मणा तेन समरे तव पुत्रस्य धन्विनः ।
दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥ ६.११७.१३ ॥
你那善射的儿子难降在战场上的那一功业,使一切世界都对这位大智者感到欣悦。
6.117.14
यदेकः समरे पार्थान्सानुगान्समयोधयत् ।
न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ॥ ६.११७.१४ ॥
他独自在战场上与普利塔之子及其随从交战,而般度族在战斗中无法阻挡那位猛烈的战士。
6.117.15
दुःशासनेन समरे रथिनो विरथीकृताः ।
सादिनश्च महेष्वासा हस्तिनश्च महाबलाः ॥ ६.११७.१५ ॥
在战斗中,被难降所害,战车武士失去了战车;骑兵、大弓手以及强大的象群也同样如此。
6.117.16
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्वसुधातले ।
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥ ६.११७.१६ ॥
被锐利的箭所刺穿,他们倒在大地之上;其他被箭折磨的象也四散逃奔。
6.117.17
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणम् ।
तथा जज्वाल पुत्रस्ते पाण्डुसेनां विनिर्दहन् ॥ ६.११७.१७ ॥
就像火遇到燃料,便以炽烈的火焰猛烈燃烧,你的儿子也这样燃烧起来,焚烧般度的军队。
6.117.18
तं भारतमहामात्रं पाण्डवानां महारथः ।
जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथंचन ॥ ६.११७.१८ ॥
没有人敢战胜般度族那位大车士,那位婆罗多族的大驭象者,也没有人以任何方式向他进攻。
6.117.19
ऋते महेन्द्रतनयाच्छ्वेताश्वात्कृष्णसारथेः ।
स हि तं समरे राजन्निर्जित्य विजयोऽर्जुनः ॥ ६.११७.१९ ॥
大王啊,除了因陀罗之子、白马之主、以克里希那为御者的阿周那,无人能在战场上战胜他;胜利者阿周那击败了他。
6.117.20
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ।
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः ॥ ६.११७.२० ॥
在全军注视之下,他竟直接攻击毗湿摩;而依仗毗湿摩之臂的你的儿子也被击败了。
6.117.21
पुनः पुनः समाश्वस्य प्रायुध्यत मदोत्कटः ।
अर्जुनस्तु रणे राजन्योधयन्संव्यराजत ॥ ६.११७.२१ ॥
他一次又一次振作精神,骄狂地奋力作战;但大王啊,阿周那在战场上与战士们搏斗时,光彩夺目。
6.117.22
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् ।
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥ ६.११७.२२ ॥
然而大王啊,尸犍底在战场上用箭射中了祖父本人,那箭的触感如雷电,又如蛇毒。
6.117.23
न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर ।
स्मय्रमानस्तु गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥ ६.११७.२३ ॥
人主啊,那些箭丝毫没有伤到你的父亲;于是恒河之子面带微笑,将那些箭接住了。
6.117.24
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति ।
तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥ ६.११७.२४ ॥
犹如被热所困的人欣然接受水流,恒河之子也这样接受了尸犍底的箭雨。
6.117.25
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे ।
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनां ॥ ६.११७.२५ ॥
大王啊,武士们在战场上看见了那可怖的毗湿摩,他正在焚烧伟大的般度之子的军队。
6.117.26
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष ।
अभिद्रवत संग्रामे फल्गुनं सर्वतो रणे ॥ ६.११७.२६ ॥
于是你的儿子对全军说:尊贵者啊,在战斗中从四面八方冲向战场上的法尔古那(阿周那)。
6.117.27
भीष्मो वः समरे सर्वान्पायिष्यति धर्मवित् ।
तद्भयं सुमहत्त्यक्त्वा पाण्डवान्प्रति युध्यत ॥ ६.११७.२७ ॥
精通法(达摩)的毗湿摩将在战斗中保护你们所有人;所以抛弃那极大的恐惧,去与般度之子作战吧。
6.117.28
एष तालेन महता भीष्मस्तिष्ठति पालयन् ।
सर्वेषां धार्तराष्ट्राणां समरे शर्म वर्म च ॥ ६.११७.२८ ॥
看哪,毗湿摩手持巨大的棕榈旗立于此处,在战斗中作为庇护与铠甲,守护着持国之子们。
6.117.29
देवा अपि समुद्युक्ता नालं भीष्मं समासितुम् ।
किमु पार्था महात्मानं मर्त्यभूता महाबलाः ॥ ६.११७.२९ ॥
即使众神一同起身,也无法抵挡毗湿摩;更何况是凡人而又强大的般度之子,怎能抵挡那位伟大的灵魂呢?
6.117.30
तस्माद्द्रवत मा योधाः फल्गुनं प्राप्य संयुगे ।
अहमद्य रणे यत्तो योधयिष्यामि पाण्डवम् ॥ ६.११७.३० ॥
因此,战士们,在战斗中遇到法尔古那时不要逃跑;今天我自己将坚定地在战场上与般度之子作战。
6.117.31
सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपैः ।
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः ॥ ६.११७.३१ ॥
大王啊,当你们这些地上的君主从四面八方集结、整装待发,听到你那善射的儿子那番话之后——
6.117.32
अर्जुनं प्रति संयत्ता बलवन्तो महाबलाः ।
ते विदेहाः कलिङ्गाश्च दासेरकगणाश्च ह ॥ ६.११७.३२ ॥
面对阿周那,已整装待发的强大而有大力的毗提诃人与羯陵伽人,以及达塞拉迦的军队也一同上前——
6.117.33
अभिपेतुर्निषादाश्च सौवीराश्च महारणे ।
बाह्लीका दरदाश्चैव प्रतीच्योदीच्यमालवाः ॥ ६.११७.३३ ॥
在大战中,尼沙陀人与萨乌维罗人扑上前来,巴赫利迦人与达罗陀人也是,还有西方与北方的摩罗婆人——
6.117.34
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।
साल्वः शकास्त्रिगर्ताश्च अम्बष्ठाः केकयौः सह ॥ ६.११७.३४ ॥
阿毗舍诃人与舒罗色那人,尸毗人与婆萨提人,娑婆人、塞种人与三伽多人,安跋湿陀人连同羯迦耶人——
6.117.35
अभिपेतू रणे पार्थं पतङ्गा इव पावकम् ।
स तान्सर्वान्सहानीकान्महाराज महारथान् ॥ ६.११७.३५ ॥
如飞蛾扑向火焰,他们在战场上扑向了普利塔之子。大王啊,他与他们的军队一同,击倒了那些大战车武士——
6.117.36
दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनञ्जयः ।
स तैरस्त्रैर्महावेगैर्ददाह सुमहाबलः ॥ ६.११७.३६ ॥
阿周那回想起天界神兵,凝神瞄准,以那些迅猛的神箭——这位大力者将他们焚毁。
6.117.37
शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः ।
तस्य बाणसहस्राणि सृजतो दृढधन्विनः ॥ ६.११७.३७ ॥
如火焚飞蛾,比跋人(阿周那)以箭之威猛烈闪耀。那坚弓者射出千万支箭时,
6.117.38
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ।
ते शरार्ता महाराज विप्रकीर्णमहाध्वजाः ॥ ६.११७.३८ ॥
甘狄拔弓在空中闪耀可见。大王啊,他们遭箭所伤,大旗散落四方。
6.117.39
नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् ।
सध्वजा रथिनः पेतुर्हयारोहा हयैः सह ॥ ६.११७.३९ ॥
联合的诸王无法向猴旗者(阿周那)进军。战车武士连同旗帜倒下,骑士连同马匹倒下。
6.117.40
सगजाश्च गजारोहाः किरीटिशरताडिताः ।
ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद्वसुंधरा ॥ ६.११७.४० ॥
象与象夫被冠者(阿周那)之箭所伤而倒下。随后,阿周那臂中射出的箭遍布大地。
6.117.41
विद्रुतं दिक्षु सर्वासु शरैर्बलमदृश्यत ।
अथ पार्थो महाराज द्रावयित्वा वरूथिनीम् ॥ ६.११७.४१ ॥
军队被箭所驱,四散奔逃。大王啊,于是普利塔之子(阿周那)驱散了那支军队,
6.117.42
दुःशासनाय सुबहून्प्रेषयामास सायकान् ।
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः ॥ ६.११७.४२ ॥
他向难降射出许多箭。那些铁头之箭穿透了您的儿子难降,
6.117.43
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ।
हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥ ६.११७.४३ ॥
他们全都钻进大地,如同蛇钻入蚁穴。随后他射杀了他的马匹,又将御者射倒。
6.117.44
विविंशतिं च विंशत्या विरथीकृतवान्प्रभुः ।
आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥ ६.११७.४४ ॥
这位威猛者以二十支箭使毗维姆沙蒂失去战车,又以五支带弯曲节的箭猛烈射伤了他。
6.117.45
कृपं विकर्णं शल्यं च विद्ध्वा बहुभिरायसैः ।
चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥ ६.११७.४५ ॥
贡蒂之子白马者以众多铁箭射穿了克里帕、毗迦尔纳和沙利耶,也使他们失去了战车。
6.117.46
एवं ते विरथाः सर्वे कृपः शल्यश्च मारिष ।
दुःशासनो विकर्णश्च तथैव च विविंशतिः ॥ ६.११७.४६ ॥
如此,他们全部——克里帕、沙利耶、难降、毗迦尔纳和毗维姆沙蒂——都失去了战车,尊者啊。
6.117.47
संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ।
पूर्वाह्णे भरतश्रेष्ठ पराजित्य महारथान् ॥ ६.११७.४७ ॥
在战斗中被善用双手者击败,他们逃走了,婆罗多之最,那些大车士是在上午被击败的。
6.117.48
प्रजज्वाल रणे पार्थो विधूम इव पावकः ।
तथैव शरवर्षेण भास्करो रश्मिवानिव ॥ ६.११७.४८ ॥
在战场上,普利塔之子如无烟之火燃烧;以箭如雨,他又如放射光芒的太阳般闪耀。
6.117.49
अन्यानपि महाराज तापयामास पार्थिवान् ।
पराङ्मुखीकृत्य तथा शरवर्षैर्महारथान् ॥ ६.११७.४९ ॥
大王,他也灼烧了其他国王;以箭雨使大车武士们转身逃遁。
6.117.50
प्रावर्तयत संग्रामे शोणितोदां महानदीम् ।
मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥ ६.११७.५० ॥
婆罗多之子啊,他在战场上使一条血河奔流,穿行于俱卢军与般度军之中。
6.117.51
तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ।
भीष्मं प्रति पराक्रान्ताः पाण्डवाः सह सृञ्जयैः ॥ ६.११७.५१ ॥
大王啊,在那极其可怕的勇士俊杰的毁灭之中,般度之子与斯林迦耶人一同奋勇扑向毗湿摩。
6.117.52
ते पराक्रान्तमालोक्य युधि राजन्पितामहम् ।
न न्यवर्तन्त ते पुत्रा ब्रह्मलोकपुरस्कृताः ॥ ६.११७.५२ ॥
大王啊,他们见到祖父在战场上奋勇作战,那些儿子并未退缩,他们以梵界为目标。
6.117.53
इच्छन्तो निधनं युद्धे स्वर्गलोकपरायणाः ।
पाण्डवानभ्यवर्तन्त तावका युद्धदुर्मदाः ॥ ६.११७.५३ ॥
在战场上渴望死亡,以天界为归宿,陶醉于战斗狂热的你的战士们,向般度之子冲去。
6.117.54
पाण्डवाश्च महाराज स्मरन्तो विविधान्बहून् ।
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ॥ ६.११७.५४ ॥
大王啊,人主啊,般度之子们追念往昔你和你的儿子所加给他们的种种苦难……
6.117.55
भयं त्यक्त्वा रणे शूराः स्वर्गलोकपुरस्कृताः ।
तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ॥ ६.११७.५५ ॥
勇士们在战场上舍弃恐惧,以天界为目标,欣然与你的部众及诸子交战。
6.117.56
गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः ।
रथाश्च निहता नागैर्हयाश्चैव पदातिभिः ॥ ६.११७.५६ ॥
象群与车阵被车战武士以种种方式杀伤;战车被象群摧毁,战马则为步兵所杀。
6.117.57
अन्तरा च्छिद्यमानानि शरीराणि शिरांसि च ।
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥ ६.११७.५७ ॥
象、马、车上的战士,其身躯与头颅在半途被斩断,坠落于四面八方。
6.117.58
छन्नमायोधनं राजन्कुण्डलाङ्गदधारिभिः ।
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥ ६.११७.५८ ॥
大王啊,战场为佩戴耳环与臂钏的王子与大车勇士所遮满,他们有的已倒下,有的正被击倒。
6.117.59
रथनेमिनिकृत्तैश्च गजैश्चैवावपोथितैः ।
पादातश्चाप्यधावन्त साश्वाश्च हययोधिनः ॥ ६.११७.५९ ॥
被战车轮圈砍伤、被象群践踏的步兵也四散奔逃;骑兵连同战马也奔跑起来。
6.117.60
गजाश्च रथयोधाश्च परिपेतुः समन्ततः ।
विकीर्णाश्च रथा भूमौ भग्रचक्रयुगध्वजाः ॥ ६.११७.६० ॥
象群与车战武士四面倒下,车轮、车轭、旗帜折断的战车散落在地上。
6.117.61
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम ।
छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥ ६.११७.६१ ॥
那片被象群、马群和战车群的鲜血洒遍的战场,覆盖着一片,宛如秋日的红云般闪耀。
6.117.62
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह ।
प्रणेर्दुर्भक्ष्यमासाद्य विकृताश्च सगद्विजाः ॥ ६.११७.६२ ॥
狗、乌鸦、秃鹫和狼与豺一起,得到了不可食用的腐肉而饱餐;残缺的鸟类也聚集到那里。
6.117.63
ववुर्बहुविधश्चैव दिक्षु सर्वासु मारुताः ।
दृश्यमानेषु रक्षःसु भूतेषु च नदत्सु च ॥ ६.११७.६३ ॥
在所有方向,各种各样的风吹了起来;罗刹显现,鬼怪咆哮。
6.117.64
काञ्चनानि च दामानि पताकाश्च महाधनाः ।
धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः ॥ ६.११७.६४ ॥
金色的花环和极其珍贵的旗幡,被风吹动,突然可见地飘扬起来。
6.117.65
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः ।
विकीर्णाः समदृश्यन्त शतशोऽथ सहस्रशः ॥ ६.११७.६५ ॥
数千白色华盖与旗帜,以及大车勇士,被成百上千地散落各处可见。
6.117.66
सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ।
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः ॥ ६.११७.६६ ॥
带着旗帜的象群被箭所伤,四散奔逃;人主啊,手持铁锤、长矛和弓的刹帝利也(逃散了)。
6.117.67
समन्ततश्च दृश्यन्ते पतिता धरणीतले ।
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः।
पेतुरार्तस्वरं कृत्वा तत्रतत्र महागजाः ॥ ६.११७.६७ ॥
四面八方都可见它们倒卧在地上;被箭矢和铁制那罗遮成千上万地射中,大象们在各处发出痛苦的嘶鸣而倒下。
6.117.68
सेनापतिस्तु समरे प्राह सेनां महारथः ।
अभ्यद्रवत गाङ्गेयं सैनिकाः किं कृतेन वः ॥ ६.११७.६८ ॥
在战斗中,那位大战车武士、统帅对军队说:“战士们,你们这样做有何益处?去攻击甘伽之子(毗湿摩)!”
6.117.69
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः ।
अभ्यद्रवन्त गोङ्गेयं शस्त्रवृष्ट्या समन्ततः ॥ ६.११७.६९ ॥
诸摩迦听闻统帅之言,与斯林阇耶人一起从四面八方冲向甘伽之子(毗湿摩),倾泻下如雨般的兵器。
6.117.70
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ।
अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥ ६.११७.७० ॥
于是,大王,毗湿摩放出神兵,在所有射手注视之下向贡蒂之子(阿周那)冲去。
6.117.71
तं शिखण्डी रणे यान्तमभ्यद्रवत दंशितः ।
ततः समाहरद्भीष्मस्तदस्त्रं पावकोपमम् ॥ ६.११७.७१ ॥
他在战斗中前进时,披甲的湿珂姆迪攻击了他;于是毗湿摩收回了那如火一般的兵器。
6.117.72
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः ।
निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥ ६.११७.७२ ॥
就在此时,白马之主贡蒂之子(阿周那)迷惑了祖父(毗湿摩),将你的军队杀得溃不成军。