Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.118

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.118.1

असंव्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु ।
ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥ ६.११८.१ ॥

婆罗多啊,当军队失去阵列、大多数人转身逃跑时,所有人都向往梵界。

6.118.2

च ह्यनीकमनीकेषु समसञ्जत संकले ।
रथा न रथिभिः सार्धं पादाता न पदातिभिः ॥ ६.११८.२ ॥

在那混乱的厮杀中,军队与军队相撞;战车并不与战车武士相对,步兵也不与步兵相对。

6.118.3

अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः ।
उन्मत्तवन्महाराज युध्यन्ते तत्र भारत ॥ ६.११८.३ ॥

马不与马交锋,象不与象兵相斗;大王啊,婆罗多啊,他们在那里像疯子一样厮杀。

6.118.4

महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ।
नरनागगणेष्वेवं विकीर्णेषु च सर्वशः ॥ ६.११८.४ ॥

两军之间爆发了巨大而可怕的混乱;人和象的队伍四处溃散。

6.118.5

क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ।
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत ॥ ६.११८.५ ॥

在那场极为可怕的毁灭中,一切变得难以分辨。婆罗多啊,然后沙利亚、克利帕和citrasena也在其中。

6.118.6

दुःशासनो विकर्णश्च रथानास्थाय भास्वरान् ।
पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥ ६.११८.६ ॥

难降与毗迦尔那登上光辉的战车,在战场上使般度之子的军队为之颤抖;他们都是英雄。

6.118.7

सा वध्यमाना समरे पाण्डुसेना महात्मभिः ।
त्रातारं नाध्यगच्छद्वै मञ्जमानेव नौर्जंले ॥ ६.११८.७ ॥

般度的军队在战斗中被大勇士们所杀,却找不到救护者,就像沉入水中的船。

6.118.8

यथा हि शैशिरः कालो गवां मर्माणि कृन्तति ।
तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति ॥ ६.११८.८ ॥

正如寒冬割裂牛的要害,毗湿摩也割裂般度之子的要害。

6.118.9

तथैव तव सैन्यस्य पार्थेन च महात्मना ।
नवमेघप्रतीकाशाः पातिता बहुधा गजाः ॥ ६.११८.९ ॥

同样,您军中如新云般的象,被伟大的般若(阿周那)以多种方式击倒。

6.118.10

मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः ।
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥ ६.११८.१० ॥

人主们被般若(阿周那)压碎,被箭和铁箭成千上万地射中。

6.118.11

पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः ।
आनद्धाभरणैः कायैर्निहतानां महात्मनाम् ॥ ६.११८.११ ॥

大象在那里倒下,发出可怕的哀嚎,与被杀的大勇士们的尸体一起,身上披着装饰的鞍具。

6.118.12

छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः ।
तस्मिन्नेव महाराज महावीरवरक्षये ॥ ६.११८.१२ ॥

那片战场被带耳环的头颅覆盖,闪闪发光,大王啊,在那些伟大英雄中最杰出者的毁灭之中。

6.118.13

भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये ।
ते पराक्रान्तमालोक्य राजन्युधि पितामहम् ॥ ६.११८.१३ ॥

大王啊,毗湿摩在战场上奋勇作战,般度之子达那闍耶也英勇奋战;他们看见祖父在战斗中展现威力。

6.118.14

अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः ।
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् ॥ ६.११८.१४ ॥

你的诸子都推着军队前进,渴望在战斗中死亡,以天界为最终归宿。

6.118.15

पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये ।
पाण्डवापि महाराज स्मरन्तो विविधान्बहून् ॥ ६.११८.१५ ॥

在那场使最优秀的英雄陨落的战斗中,般度之子们也向前进攻;大王啊,他们追念着许多种种的苦难。

6.118.16

क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ।
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः ॥ ६.११८.१६ ॥

人主啊,他们追念从前你与你的儿子们加给他们的种种苦难,英雄们在战斗中舍弃了恐惧,一心向往梵天之界。

6.118.17

तावकांस्तव पुत्रांश्च योधयन्ति प्रहृष्टवत् ।
सेनापतिस्तु समरे प्राह सेनां महारथः ॥ ६.११८.१७ ॥

他们欢欣地与你的部下和你的儿子们作战;可是在战场上,大战车武士、统帅对军队说话。

6.118.18

अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ।
सेनापतिवचः श्रुत्वा सोमकाः सृञ्जयाश्च ते ॥ ६.११८.१८ ॥

“与索摩迦人和叙利耶人一同攻击甘伽之子(毗湿摩)。”索摩迦人和叙利耶人听了统帅的话,便照此向前冲去。

6.118.19

अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः ।
वध्यमानस्ततो राजन्पिता शान्तनवस्तव ॥ ६.११८.१९ ॥

他们被箭雨击中,向恒河之子(毗湿摩)冲去。国王啊,此时你的父亲、Śantanu之子正遭受攻击。

6.118.20

अमर्षवशमापन्नो योधयामास सृञ्जयान् ।
तस्य कीर्तिमतस्तात पुरा रामेण धीमता ॥ ६.११८.२० ॥

他被愤怒所支配,与Sṛñjaya人作战。亲爱的,那位名声显赫的人,往昔曾由智者罗摩(持斧罗摩)传授他武艺。

6.118.21

संप्रदत्ताऽस्त्रशिक्षा वै परानीकविनाशनी ।
स तां विद्यामधिष्ठाय कुर्वन्तपरबलक्षयम् ॥ ६.११८.२१ ॥

能够摧毁敌军的武艺教导已经完全传授给他。他掌握了这门学问,使敌军的力量归于毁灭。

6.118.22

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।
भीष्मो दशसहस्राणि जघान परवीरहा ॥ ६.११८.२२ ॥

每天,库鲁的年迈祖父毗湿摩——敌方英雄的杀手——杀死了一万名般度人的(战士)。

6.118.23

तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ ।
एको भीष्मो हि मत्स्येषु पाञ्चालेषु च संयुगे ॥ ६.११८.२३ ॥

婆罗多之牛啊,那第十天,毗湿摩独自在战斗中于摩特亚人与般遮罗人之间(进行了屠杀)。

6.118.24

गजाश्वममितं हत्वा हत्वा सप्त महारथान् ।
हत्वा पञ्चसहस्राणि रथानां प्रतिपामहः ॥ ६.११८.२४ ॥

杀死了无数的象和马,杀死了七位大车战士,杀死了五千名车战者,消灭了抵抗他的人。

6.118.25

नराणां च महायुद्धे सहस्राणि चतुर्दश ।
दन्तिनां च सहस्राणि हयानामयुतं पुनः ॥ ६.११८.२५ ॥

在大战中,他击倒了一万四千人、数千头象,又击倒了一万匹马。

6.118.26

शिक्षबलेन न्यहनत्पिता तव विशांपते ।
ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम् ॥ ६.११८.२६ ॥

人民之主啊,你的父亲以技艺之力击杀;随后摧毁了诸王的全部军队。

6.118.27

विराटस्य प्रियो भ्राता शतानीको निपातितः ।
शतानीकं च समरे हत्वा भीष्मः प्रतापवान् ॥ ६.११८.२७ ॥

毗罗吒的爱弟沙塔尼迦被击倒;在战场上杀死沙塔尼迦的,是威猛的毗湿摩。

6.118.28

सहस्राणि महाराज राज्ञां भल्लैरपातयत् ।
उद्विग्नाः समरे योधा विक्रोशन्ति धनञ्जयम् ॥ ६.११८.२८ ॥

大王啊,他以月牙箭击倒了成千上万的王者;战场上惊惶的战士们呼喊着持财者(阿周那)。

6.118.29

ये च केचन पार्थानामभियाता धनञ्जयम् ।
राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥ ६.११८.२९ ॥

凡是站在普利塔之子一方、冲向持财者的诸王,遇到毗湿摩后,都前往阎摩的居所。

6.118.30

किरन्दश दिशो भीष्मः शरजालैः समन्ततः ।
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥ ६.११८.३० ॥

毗湿摩以箭网洒满四方,越过般度子弟的军阵,站立在大军的前列。

6.118.31

स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि ।
सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ॥ ६.११८.३१ ॥

在第十日建立了伟大功绩之后,他举弓立于两军之间。

6.118.32

न चैनं पार्थिवाः केचिच्छक्ता राजन्निरीक्षितुम् ।
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥ ६.११८.३२ ॥

大王啊,诸王无人能直视他,如同夏季正午天空中灼热的太阳无法直视一般。

6.118.33

यथा दैत्यचमूं शक्रस्तापयामास संयुगे ।
तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥ ६.११८.३३ ॥

正如因陀罗在战斗中烧灼了达伊提亚的军队,婆罗多啊,婆罗门之子毗湿摩也同样烧灼了般度之子们。

6.118.34

तथा चैनं पराक्रान्तमालोक्य मधुसूदनः ।
उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ॥ ६.११८.३४ ॥

见他如此奋勇向前,德瓦基之子、摩图苏陀那心中欢喜,对持财者(阿周那)说道。

6.118.35

एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः ।
सन्निहत्य बलादेनं विजयस्ते भविष्यति ॥ ६.११८.३५ ॥

看哪,檀多之子毗湿摩站在两军之间;若以力量击倒他,胜利将属于你。

6.118.36

बलात्संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः ।
न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ॥ ६.११८.३६ ॥

威猛者啊,在此军溃散之处,以力量制止他;除他之外,无人能承受毗湿摩的箭。

6.118.37

ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः ।
सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥ ६.११८.३७ ॥

于是,大王,就在那一刻,受到激励的猴旗者用箭将毗湿摩连同旗帜、战车和马匹全部遮蔽。

6.118.38

स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् ।
सरव्रतैः शरव्रातान्बहुधा विदुधाव तान् ॥ ६.११८.३८ ॥

那位库鲁首领中的雄牛也以多种方式斩断了般度之子射来的那一片箭雨。

6.118.39

ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् ।
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ ६.११८.३९ ॥

随后,般遮罗王、勇猛的持世、般度之子毗摩舍那,以及普利沙塔之子持军——

6.118.40

यमौ च चेकितानश्च केकयाः पञ्च चैव ह ।
सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः ॥ ६.११८.४० ॥

双生子、遮企陀那、五位甘伽王子、大臂萨提奇、妙贤之子,以及迦托迦之——

6.118.41

द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् ।
विराटश्च महाराज पाण्डवेया महाबलाः ॥ ६.११८.४१ ॥

德劳巴蒂的诸子、尸犍底、勇猛的昆提薄阇,还有毗罗吒,大王啊,以及大力的般度诸子——

6.118.42

एते चान्ये च बहवः पीडिता भीष्मसायकैः ।
समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ॥ ६.११८.४२ ॥

这些人以及许多其他人被毗湿摩的箭所伤,沉没于悲伤的海洋中,被法尔古那(阿周那)拯救出来。

6.118.43

ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् ।
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥ ६.११८.४३ ॥

于是尸珂坦迪迅速举起一件至高的武器,在冠者(阿周那)的护卫下,直扑毗湿摩而去。

6.118.44

ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् ।
भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥ ६.११८.४४ ॥

于是精通战阵之分的无敌的毗跋蹉(阿周那)杀尽了他的所有随从,直扑毗湿摩而去。

6.118.45

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।
विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ६.११८.४५ ॥

萨提亚基、耶基塔那、德里什塔德尤摩那、普利沙塔之子、毗罗吒、德鲁巴陀,以及摩德利的两个儿子般度族人。

6.118.46

दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ।
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः ॥ ६.११८.४६ ॥

在坚弓者的护卫下,他们在战中直扑毗湿摩:阿毗摩曼由、德罗波蒂的五个儿子亦然。

6.118.47

ददृशुः समरे भीष्मं समुद्यतमहायुधम् ।
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ॥ ६.११८.४७ ॥

他们在战场上看见毗湿摩高举大武器;他们都是坚定的弓手,在战斗中从不逃跑。

6.118.48

बहुधा भीष्ममानर्च्छुर्मार्गणैः क्षतमार्गणैः ।
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः ॥ ६.११८.४८ ॥

他们以多种方式用伤人的箭射击毗湿摩;而他抖落了诸位最尊贵的国王所射出的箭群。

6.118.49

पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ।
चक्रे शरविघातं च क्रीडन्निव पितामहः ॥ ६.११८.४९ ॥

无畏之心的祖父冲入般度子弟的军队,仿佛游戏一般降下箭雨。

6.118.50

नाभिसंधत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः ।
स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिने ॥ ६.११८.५० ॥

他一再微笑,回想起此人曾为女身,因此毗湿摩没有将箭射向般遮罗人始干迪。

6.118.51

जघान द्रुपदानीके रथान्सप्त महारथः ।
ततः किलकिलाशब्दः क्षणेन समभूत्तदा ॥ ६.११८.५१ ॥

大车将在德鲁帕达的军中击毁七辆战车;霎时间,欢呼的喧声骤然响起。

6.118.52

मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ।
ते नराश्वरथव्रातैर्मार्गणैश्च परंतप ॥ ६.११८.५२ ॥

啊,灼敌者!马特希亚、般遮罗与支提的战士们一齐冲向他一人,率领人众、马匹与战车的队伍,并以箭矢相攻。

6.118.53

तमेकं छादयामासुर्मेघा इव दिवाकरम् ।
भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥ ६.११८.५३ ॥

如同乌云遮蔽太阳,他们遮蔽了那一人——恒河之子毗湿摩,他在战场上灼烧敌人。

6.118.54

ततस्तस्य च तेषां च युद्धे देवासुरोपमे ।
किरीटी भीष्ममानर्च्छ पुरस्कृत्य शिखण्डिनम् ॥ ६.११८.५४ ॥

此时,在这场如同天神与阿修罗之战的战斗中,持冠者(阿周那)将始干迪置于前列,向毗湿摩发起攻击。