Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.120

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.120.1

कथमासंस्तदा योधा हीना भीष्मेण सञ्जय ।
बलिना देवकल्पेन कौमारब्रह्मचारिणा ॥ ६.१२०.१ ॥

桑闍耶啊,失去了强大、如神、自幼梵行的毗湿摩,当时的战士们究竟如何?

6.120.2

तदैव निहतान्मन्ये कुरूनन्यांश्च पाण्डवैः ।
न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजम् ॥ ६.१२०.२ ॥

我想,当毗湿摩出于怜悯而没有攻击德鲁帕达之子时,俱卢和其他人就已被般度五子杀死了。

6.120.3

ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति ।
अद्यैव निहतं श्रुत्वा पितरं मम दुर्मतेः ॥ ६.१२०.३ ॥

还有什么比这更痛苦呢?今天我听闻我那心术不正的父亲已被杀害。

6.120.4

अश्मसारमयं नूनं हृदयं मम सञ्जय ।
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ॥ ६.१२०.४ ॥

桑闍耶啊,我的心一定是铁石做的,听到毗湿摩被杀,它却没有碎成百片。

6.120.5

यदन्यन्निहतेनाजौ भीष्मेण जयमिच्छता ।
चेष्टितं कुरुसिंहेन तन्मे कथय सुव्रत ॥ ६.१२०.५ ॥

持善誓者啊,请告诉我,俱卢雄狮毗湿摩在战中为求胜利所做的其他事情。

6.120.6

पुनःपुनर्न मृष्यामि हतं देवव्रतं रणे ।
न हतो जामदग्न्येन दिव्यैरस्त्रैश्च यः पुरा ॥ ६.१२०.६ ॥

我一次又一次无法忍受天授在战中被杀,他从前甚至未被耶摩达格尼之子以神兵所杀。

6.120.7

स हतो द्रौपदेयेन पाञ्चाल्येन शिखण्डिना ।
सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् ॥ ६.१२०.७ ॥

他被德劳帕蒂之子、般遮罗王子尸犍底所杀,傍晚倒在地上,使持国之子们陷入绝望。

6.120.8

पाञ्चालान्हर्षयंश्चैव भीष्मः कुरुपितामहः ।
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा ॥ ६.१२०.८ ॥

使般遮罗人欢喜的库鲁祖父毗湿摩,躺在箭床上,那时并未触及大地。

6.120.9

भीष्मो रथात्प्रपतितः संछिन्नो बहुभिः शरैः ।
हाहेति तुमुलः शब्दो भूतानां समपद्यत ॥ ६.१२०.९ ॥

毗湿摩被众多箭矢射得支离破碎,从战车上坠落;众生之中响起一片“哎呀哎呀”的喧嚣哀号。

6.120.10

सीमावृक्षे निपतिते कुरूणां समितिंजये ।
सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत् ॥ ६.१२०.१० ॥

王啊,库鲁人战胜之界树倒下时,两军的刹帝利都陷入了恐惧。

6.120.11

भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् ।
कुरवः पर्यवर्तन्त पाण्डवाश्च विशांपते ॥ ६.१२०.११ ॥

看到沙far努之子毗湿摩铠甲与旗帜俱毁,库鲁人与般度人都调转了方向,人主啊。

6.120.12

खं तमःसंवृतमभूदासीद्भानुर्गतप्रभः ।
ररास पृथिवी चैव भीष्मे शान्तनवे हते ॥ ६.१२०.१२ ॥

沙far努之子毗湿摩被杀之时,天空被黑暗笼罩,太阳失去光辉,大地也为之呼号。

6.120.13

अयं ब्रह्मविदां श्रेष्ठो गतिर्ब्रह्मविदां सदा ।
इत्यभाषन्त भूतानि शयानं पुरुषर्षभम् ॥ ६.१२०.१३ ॥

“此人是知梵者中最优秀的,永远是知梵者的归宿。”众生这样对躺卧的那位人中雄牛说道。

6.120.14

अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा ।
ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥ ६.१२०.१४ ॥

这位人中雄牛得知父亲珊图被欲望所苦,便早先使自己成为上行精液者(ūrdhvaretas)。

6.120.15

इति स्म शरतल्पस्थं भरतानां पितामहम् ।
ऋषयस्त्वभ्यभाषन्त सहिताः सिद्धचारणैः ॥ ६.१२०.१५ ॥

如此,诸仙人与悉陀和遮罗那一同,向躺在箭床上的婆罗多族祖父说话。

6.120.16

हते शान्तनवे भीष्मे भरतानां पितामहे ।
न किंचित्प्रत्यपद्यन्त पुत्रास्तव हि मारिष ॥ ६.१२०.१६ ॥

尊者啊,婆罗多族的祖父、珊图之子毗湿摩被杀之时,您的儿子们竟毫无所获,无法自持。

6.120.17

विषण्णवदनाश्चासन्हतश्रीकाश्च भारत ।
अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥ ६.१२०.१७ ॥

婆罗多啊,他们面容憔悴,失去光彩;满怀羞愧,低垂着头站立。

6.120.18

पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः ।
सर्वे दध्युर्महाशङ्खान्हेमजालपरिष्कृतान् ॥ ६.१२०.१८ ॥

般度之子获胜后,立于战阵之首,众人一同吹响了饰有金网的大海螺。

6.120.19

हर्षात्तूर्यसहस्रेषु वाद्यमानेषु चानघ ।
अपश्याम महाराज भीमसेनं महाबलम् ॥ ६.१२०.१९ ॥

在千百般喜悦的号角齐鸣之中,无罪者啊,大王啊,我们看见了大力的毗摩森。

6.120.20

विक्रीडमानं कौन्तेयं हर्षेण महता युतम् ।
निहत्य तरसा शत्रुं महाबलसमन्वितम् ॥ ६.१२०.२० ॥

我们看见贡蒂之子怀着极大的喜悦嬉戏,他迅速杀死了敌人,具备大力。

6.120.21

संमोहश्चापि तुमुलः कुरूणामभवत्ततः ।
कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः ॥ ६.१२०.२१ ॥

于是俱卢族中生起了大混乱与迷惑,迦尔纳与难敌也一再深深叹息。

6.120.22

तथा निपातिते भीष्मे कौरवाणां पितामहे ।
हाहाभूतमभूत्सर्वं निर्मर्यादमवर्तत ॥ ६.१२०.२२ ॥

如此,当俱卢族的祖父毗湿摩被击倒后,一切都变成了哀号,失去了秩序。

6.120.23

दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव ।
उत्तमं जवमास्थाय द्रोणानीकभुपाद्रवत् ॥ ६.१२०.२३ ॥

你的儿子难降见毗湿摩倒下,便以最快速度冲向德罗纳的军队。

6.120.24

भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः ।
प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिहर्षयन् ॥ ६.१२०.२४ ॥

那位英雄,人中猛虎,受其兄派遣,以自己的军队武装,一边鼓舞自己的军队一边前进。

6.120.25

तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् ।
दुःशासनं महाराज किमयं वक्ष्यतीति च ॥ ६.१२०.२५ ॥

众库卢见他走来,便将他团团围住,并问道:大王啊,这人将要说什么?

6.120.26

ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः ।
द्रोणस्तदाऽप्रियं श्रुत्वा मुमोह भरतर्षभ ॥ ६.१२०.२६ ॥

当时一位俱卢人告诉德罗那,毗湿摩已经阵亡;听到这一不愉快的消息,德罗那,婆罗多之牛啊,心神迷乱。

6.120.27

स संज्ञामुपलभ्याशु भारद्वाजः प्रतापवान् ।
निवारयामास तदा स्वान्यनीकानि मारिष ॥ ६.१२०.२७ ॥

那位威猛的婆罗堕遮(德罗那)迅速恢复知觉,然后,尊者啊,他制止了自己和其他的军队。

6.120.28

विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् ।
रथैः शीघ्राश्वसंयुक्तैः समन्तात्पर्यवारयन् ॥ ६.१२०.२८ ॥

看到俱卢人撤退,般度之子们也用套着快马的战车从四面八方包围了自己的士兵。

6.120.29

निवृत्तेषु च सैन्येषु पारम्पर्येण सर्वशः ।
निर्मुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ॥ ६.१२०.२९ ॥

诸军依次全部撤退后,众王都脱去铠甲,前往毗湿摩处。

6.120.30

व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः ।
उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥ ६.१२०.३० ॥

于是停止战斗,成千上万的战士前往那位大德者身边,如同诸神走近生主(Prajāpati)一般。

6.120.31

ते तु भीष्मं समासाद्य शयानं भरतर्षभम् ।
अभिवाद्यावतिष्ठन्त पाण्डवाः कुरुभिः सह ॥ ६.१२०.३१ ॥

般度之子走近躺在床上的婆罗多族雄牛毗湿摩,向他致敬后,与俱卢族人一同站立。

6.120.32

अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् ।
अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ॥ ६.१२०.३२ ॥

那时,正直的檀那鲁之子毗湿摩接受了站在前面的般度之子与俱卢族人的礼敬,对他们说道。

6.120.33

स्वागतं वो महाभागाः स्वागतं वो महारथाः ।
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ॥ ६.१२०.३३ ॥

你们好,诸位大福之人;你们好,诸位大车勇士。见到你们,我甚为欣慰,诸位如天神一般。

6.120.34

अभिनन्द्य स तानेवं शिरसा लम्बताऽब्रवीत् ।
परपार्श्वे तव सुतान्स्थितानुद्वीक्ष्य भारत।
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥ ६.१२०.३४ ॥

他如此问候他们之后,头垂着,婆罗多啊,看见你的儿子们站在身旁,说道:“我的头垂得厉害,请给我一个枕头。”

6.120.35

ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च ।
उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥ ६.१२०.३५ ॥

于是诸王搬来柔软而精美的枕头,但祖父不愿意要它们。

6.120.36

अथाब्रवीन्नरव्याघ्रः प्रसहन्निव तान्नृपान् ।
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥ ६.१२०.३६ ॥

于是人中之虎,仿佛加重语气,对那些国王说:“这些不适合勇士的卧床,诸王啊。”

6.120.37

ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् ।
धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ॥ ६.१२०.३७ ॥

于是他望着人中最优秀、长臂、为全世界大战车手的般度之子达难闍耶说道。

6.120.38

धनञ्जय महाबाहो शिरो मे तात लम्बते ।
दीयतामुपधानं वै यद्युक्तमिह मन्यसे ॥ ६.१२०.३८ ॥

达难闍耶啊,大臂者啊,我的孩子,我的头垂下来了。如果你认为此处合宜,就给我一个枕头。

6.120.39

समारोप्य महच्चापमभिवाद्य पितामहम् ।
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ ६.१२०.३९ ॥

放下大弓,向祖父恭敬行礼,含泪的双眼中,他说出了这些话。

6.120.40

आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर ।
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥ ६.१२०.४० ॥

请吩咐吧,俱卢中最优秀者,持械者中最杰出者。难以战胜的人啊,我是您的仆从;祖父,要我做什么?

6.120.41

तमब्रवीच्छान्तनवः शिरो मे तात लम्बते ।
दीयतामुपधानं मे यद्युक्तमिह मन्यसे
उपधानं कुरुश्रेष्ठ उपधेहि ममार्जुन ॥ ६.१२०.४१ ॥

檀多之子对他说:我的孩子,我的头垂下来了。如果你认为此处合宜,就给我一个枕头。俱卢中最优秀的阿周那啊,为我放一个枕头。

6.120.42

वीरशय्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे ।
त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम् ॥ ६.१२०.४२ ॥

英雄啊,快给我一个与战士之床相称的枕头。普利塔之子啊,你确实有能力,是一切弓箭手中最优秀的。

6.120.43

क्षत्रधर्मस्य वेत्ता च बुद्धिसत्वगुणान्वितः ।
फल्गुनोऽपि तथेत्युक्त्वा व्यवसायं परंजयः ॥ ६.१२०.४३ ॥

精通刹帝利之法、具足智慧与善性的法尔古那(阿周那)也说道:“就这样吧”,并表明了他的决心;他是征服敌人的人。

6.120.44

गृह्यानुमन्त्र्य गाण्डीवं शरान्सन्नतपर्वणः ।
अनुमान्य महात्मानं भरतानां महारथम् ॥ ६.१२०.४४ ॥

他拿起甘狄拔弓和节端弯曲的箭,以咒语加持之后,向婆罗多族的大车战士、大德者请求许可。

6.120.45

त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ।
अभिप्राये तु विदिते धर्मात्मा स्वयसाचिना ॥ ६.१२०.४५ ॥

他以三支锋利而飞速的箭,将(毗湿摩的)头颅托起;其意图既已明了,正法之心的萨维亚萨钦(阿周那)便依此而行。

6.120.46

अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ।
उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् ॥ ६.१२०.४६ ॥

婆罗多族中最优秀、通晓法与利之真理的毗湿摩感到欢喜;因所赐予的枕头,他赞许了达难闍耶(阿周那)。

6.120.47

प्राह सर्वान्समुद्वीक्ष्य भरतान्भारतं प्रति ।
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥ ६.१२०.४७ ॥

他环顾所有婆罗多族人,向贡蒂之子——勇士中最优秀、增益朋友喜乐者——就婆罗多之族说道。

6.120.48

शयनस्यानुरूपं मे पाण्डवोपहितं त्वया ।
यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं पुरा ॥ ६.१२०.४८ ॥

你们般度之子所献的这张床榻,与我相称;若你有别的做法,我早就诅咒你了。

6.120.49

एवमेव महाबाहो धर्मेषु परितिष्ठता ।
स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥ ६.१२०.४९ ॥

大臂者啊,恪守法度的刹帝利在战场上应当如此躺在箭的床上。

6.120.50

एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः ।
राज्ञश्च राजपुत्रांश्च पाण्डवैरभिसंवृतान् ॥ ६.१२०.५० ॥

对比毗诃(阿周那)说完这些话后,他向所有被般度之子们包围的国王与王子们说了这些话。

6.120.51

पश्यध्वमुपधानं मे पाणडवेनाभिसन्धितम् ।
शयेयमस्यां शय्यायां यावदावर्तनं रवेः ॥ ६.१२०.५१ ॥

看这为我所设的枕头,是般度之子安置的。我将躺在这床上,直到太阳转身。

6.120.52

ये तदा धारयिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः ।
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः ॥ ६.१२०.५२ ॥

当太阳走向毗沙罗婆那(北方)的方位时,那时扶持我、注视我的,正是这些国王。

6.120.53

नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा ।
रक्ष्येऽहं वै मम प्राणान्सुहृदः सुप्रियानिव ॥ ६.१२०.५३ ॥

我必定乘坐以七匹马驾驭、光辉至上的战车,守护我的性命,如同守护至亲好友一般。

6.120.54

परिखाः खन्यतामत्र ममावसदने नृपाः ।
उपासिष्ये विवस्वन्तमेवं शरशताचितः ।
उपारमध्वं संग्रामाद्वैरमुत्सृज्य पार्थिवाः ॥ ६.१२०.५४ ॥

诸王啊,请在我的安歇之处周围掘出壕沟。我被百支箭所射穿,便如此礼拜太阳。诸王啊,放下仇怨,停止战斗吧。

6.120.55

उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः ।
सर्वोपकरणैर्युक्ताः कुशलैः साधुशिक्षिताः ॥ ६.१२०.५५ ॥

随后,精通拔除箭矢的医师前来,备齐一切器具,技艺娴熟,训练有素。

6.120.56

तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव ।
दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥ ६.१२०.५६ ॥

恒河之子见到他们,对你的儿子说:“应给予这些医师应得的酬劳,礼敬后让他们离去。”

6.120.57

एवंगते मयेदानीं वैद्यैः कार्यमिहास्ति किम् ।
क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ॥ ६.१२०.५७ ॥

既已至此,于我而言如今还需医师做什么?我已达到武士之义所赞颂的最高归宿。

6.120.58

नैष धर्मो महीपालाः शरतल्पगतस्य मे ।
एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः ॥ ६.१२०.५८ ॥

诸王啊,对于卧在箭床上的我而言,这并非义务。诸人主啊,应当用这些箭把我投入火中焚化。

6.120.59

तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव ।
वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ॥ ६.१२०.५९ ॥

你的儿子难敌听了他的话,依照医师的才能加以礼敬,然后让他们离去。

6.120.60

ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः ।
स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥ ६.१२०.६० ॥

于是,诸多国土的主君见到无量光辉的毗湿摩在义务上的至高坚定,皆感到惊异。

6.120.61

उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः ।
सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥ ६.१२०.६१ ॥

于是,他们为父亲(毗湿摩)奉上枕头,人间的诸王、般度之子与所有俱卢族的大车战士一同在场。

6.120.62

उपगम्य महात्मानं शयानं शयने शुभे ॥ ६.१२०.६२ ॥

走近躺在美丽床榻上的大德者。

6.120.63

तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिःप्रदक्षिणम् ।
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः ॥ ६.१२०.६३ ॥

他们向毗湿摩致敬,绕行三圈,并在四面为毗湿摩设下护卫。

6.120.64

वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ।
निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ॥ ६.१२०.६४ ॥

英雄们只想着各自的营地,极度悲痛,满身血污,傍晚时分走向营地休息。

6.120.65

निविष्टान्पाण्डवांश्चैव प्रीयमाणान्महारथान् ।
भीष्मस्य पतनं दृष्ट्वा उपगम्य महाबलः ॥ ६.१२०.६५ ॥

见般度之子与大车战士驻营欢喜,又见毗湿摩倒下,大力者便走到他们身边。

6.120.66

उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम् ।
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः ॥ ६.१२०.६६ ॥

时机恰当时,摩陀婆对法之子坚战说:“俱卢后裔啊,幸运的是你正在获胜;幸运的是毗湿摩已被击倒。”

6.120.67

अवध्यो मानुषैरेव सत्यसन्धो महारथः ।
अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः ॥ ६.१२०.६७ ॥

他不可被人类杀死,是守信的大战车武士;或者与诸天神相比,他精通一切经典。

6.120.68

त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुष ।
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् ॥ ६.१२०.६८ ॥

"你遭遇夺目之箭,被可怖之目所灼。"如此说后,法王回答了生主(黑天)。

6.120.69

तव प्रसादाद्विजयः क्रोधात्तव पराजयः ।
त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः ॥ ६.१२०.६९ ॥

胜利来自你的恩典,失败来自你的愤怒。黑天啊,你是我们的皈依处,是赐予信徒无畏者。

6.120.70

अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव ।
रक्षिता समरे नित्यं नित्यं चापि हिते रतः ॥ ६.१२०.७० ॥

你所庇护的人获胜并不奇怪,克舍婆啊。你在战场上永远是守护者,永远致力于他们的福祉。

6.120.71

सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः ।
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः।
तवैवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥ ६.१२०.७१ ॥

"既然全心得你,并不令人惊讶,我是这样想的。"如此说后,生主含笑答道:"君王中最优秀者啊,这些话只配你说。"