Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.122

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.122.1

ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः ।
तूष्णींभूते महाराज भीष्मे शन्तनुनन्दने ॥ ६.१२२.१ ॥

于是诸王各自返回自己的居所,大王,当商塔努之子毗湿摩沉默之时。

6.122.2

श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।
ईषदागतसंत्रासस्त्वरयोपजगाम ह ॥ ६.१२२.२ ॥

闻知毗湿摩已被杀,人中雄牛罗陀之子迦尔纳略感惊恐,急忙前来。

6.122.3

स ददर्श महात्मानं शरतल्पगतं तदा ।
जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम् ॥ ६.१२२.३ ॥

那时他看见那位伟大的人,躺在箭床之上,那位英雄、主人,如同躺在出生床上的迦尔提盖耶。

6.122.4

निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा ।
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥ ६.१२२.४ ॥

于是闭目的那位英雄面前,哽咽着,婆利莎(迦尔纳)走近他,俯身跪倒在他脚下,这位大光辉者。

6.122.5

राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव ।
द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ॥ ६.१२२.५ ॥

“我是罗陀之子迦尔纳,库鲁中的最优者,一直是你眼中的刺,虽无罪过却极受憎恨。”他这样对他说。

6.122.6

तच्छ्रुत्वा कुरुवृद्धो हि शरैः संवृतलोचनः ।
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ॥ ६.१२२.६ ॥

闻此,眼睛被箭遮蔽的库鲁长者看到那地方已空无一人,便将守卫遣开。

6.122.7

पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना ।
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥ ६.१२२.७ ॥

如父亲拥抱儿子一般,恒河之子毗湿摩以一只手将他抱住,温柔而慈爱地看着他,说出了这番话。

6.122.8

न विप्रियं ममैवेह यत्स्पर्धेथा मया सह ।
यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत् ॥ ६.१२२.८ ॥

你在此与我争胜,我并不以为忤;但若你不能胜过我,你必定不会得到好处。

6.122.9

कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता ।
सूर्यजस्त्वं महाबाहो विदितो नारदान्मया ॥ ६.१२२.९ ॥

你是昆提之子,不是罗陀之子;阿提罗陀不是你的父亲。啊,大臂者,你是太阳之子,此事我是从那罗陀处得知的。

6.122.10

कृष्णद्वैपायनाच्चैव तेजसा च न संशयः ।
न च द्वेषोस्ति मे तात त्वयि सत्यं ब्रवीमि ते ॥ ६.१२२.१० ॥

由克里希那·二叶(毗耶娑)及其威光所告知,此事无疑。亲爱的,我对你并无憎恨;我向你说的是真实之言。

6.122.11

तेजोवधनिमित्तं तु परुषं त्वाहमब्रुवम् ।
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम ॥ ६.१२२.११ ॥

正是为了削减你的威光,我才对你说了严厉的话;我的看法是,你忽然憎恨起般度之子来了。

6.122.12

येनासि बहुशो राज्ञा चोदितः सूतनन्दन ।
जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी ॥ ६.१२२.१२ ॥

你屡次被那位国王所驱使,啊,御者之子,你是因违背法(达摩)而生的;因此你的心智才会如此。

6.122.13

नीचाश्रयान्मत्सरेण द्वेषिणी गुमिनामपि ।
तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि ॥ ६.१२२.१३ ॥

因依附卑贱之人并出于嫉妒,即使在众人面前也有敌意的言语;因此你在俱卢议会中多次听到严厉的话。

6.122.14

जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि ।
ब्रह्मण्यतां च शौर्यं च दाने च परमां स्थितिम् ॥ ६.१२२.१४ ॥

我知道你在战场上的勇力,大地上的敌人都无法忍受;也知道你在敬奉婆罗门、勇武和布施方面的至高地位。

6.122.15

न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम ।
कुलभेदभयाच्चाहं सदा परुषमुक्तवान् ॥ ६.१२२.१५ ॥

啊,如神一般的人!人中没有人能与你相比;我一直说严厉的话,只是出于对家族分裂的恐惧。

6.122.16

इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा ।
सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥ ६.१२२.१६ ॥

在箭矢与兵器上,在张弓、敏捷与兵器之力上,你与法尔古那(阿周那)相当,也与伟大的黑天相当。

6.122.17

कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता ।
कन्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥ ६.१२२.१७ ॥

啊,迦尔纳!你独自持弓前往迦尸城,为了俱卢王而争取一位少女,在战斗中击溃了诸王。

6.122.18

तथा च बलवान्राजा जरासन्धो दुरासदः ।
समरे समरश्लाघिन्न त्वया सदृशोऽभवत् ॥ ६.१२२.१८ ॥

同样,强大的国王迦罗桑陀,难以接近,啊,好夸耀战斗者!他也不及你。

6.122.19

ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च ।
देवगर्भसमः सङ्ख्ये मनुष्यैरधिको युधि ॥ ६.१२२.१९ ॥

他敬重婆罗门,是勇敢的战士;在光辉与力量上,他在战斗中如同诸神之子,在战斗中胜过凡人。

6.122.20

व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः ।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ ६.१२२.२० ॥

今日我先前对你的愤怒已经消散;命运不能靠人力超越。

6.122.21

सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन ।
संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥ ६.१२२.२१ ॥

般度的英雄们是你同母的兄弟,啊,击败敌人者。大臂者啊,如果你想让我高兴,就与他们和好吧。

6.122.22

मया भवतु निर्वृत्तं वैरमादित्यनन्दन ।
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ॥ ६.१२२.२२ ॥

太阳之子啊,愿我结束这场仇恨;愿今日大地上的所有国王都免于灾难。

6.122.23

जानाम्येव महाबाहो सर्वमेतन्न संशयः ।
यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः ॥ ६.१२२.२३ ॥

大臂者啊,这一切我都知道,毫无疑问;正如你对我所说,婆罗门的伟大后裔,我是贡蒂之子,不是御者所生。

6.122.24

अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः ।
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ॥ ६.१२२.२४ ॥

我被贡蒂抛弃,由御者抚养;享受了难敌的富贵之后,我不愿行欺骗之事。

6.122.25

वसुदेवसुतो यद्वत्पाण्डवाय दृढव्रतः ।
वमु चैव शरीरं च पुत्रदारं तथा यशः ॥ ६.१२२.२५ ॥

犹如坚守誓愿的婆苏提婆之子(为般度五子舍弃了生命、身体、子嗣、妻子与名誉),同样……

6.122.26

सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ।
मा चैतद्व्याधिमरणं क्षत्रं स्यादिति कौरव ॥ ६.१२२.२६ ॥

慷慨布施的尊者啊,我为难敌舍弃了一切。考拉瓦啊,但愿刹帝利不要死于疾病……

6.122.27

कोपिताः पाण्डवा नित्यं मयाऽश्रित्य सुयोधनम् ।
अवश्यभावी ह्यर्थोऽयं यो न शक्यो निवर्तितुम् ॥ ६.१२२.२७ ॥

因为我依附于苏由达那,般度之子一直愤怒。此事必然发生,无法逆转。

6.122.28

दैवं पुरुषकारेण को विवर्तितुमुत्सहेत् ।
पृथिवीक्षयसंशीनि निमित्तानि पितामह ॥ ६.१२२.२८ ॥

谁敢以人力扭转天命?祖父啊,这些是预示大地毁灭的征兆。

6.122.29

भवद्भिरुपलब्धानि कथितानि च संसदि ।
पाण्डवा वासुदेवश्च विदिता मम सर्वशः ॥ ६.१२२.२९ ॥

你们在会议中察觉并讲述的一切,我都完全知晓;般度之子与婆苏提婆,我也全都了解。

6.122.30

अजेयाः पुरुषैरन्यैरिति तंश्चोत्सहामहे ।
विजयिष्ये रणे पाण्डूनिति मे निश्चितः मनः ॥ ६.१२२.३० ॥

尽管他们对其他人来说无法战胜,我们仍敢于迎战。我心已决:我将在战场上战胜般度五子。

6.122.31

न च शक्यमवस्रष्टुं वैरमेतत्सुदारुणम् ।
धनंजयेन योत्स्येऽहं स्वधर्मप्रीतमानसः ॥ ६.१२२.३१ ॥

如此猛烈的仇恨无法放下。我心中以自己的本分为乐,将与财胜(阿周那)交战。

6.122.32

अनुजानीष्व मां तात युद्धाय कृतनिश्चयम् ।
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ॥ ६.१२२.३२ ॥

亲爱的,请允许我,我已决心作战。英雄啊,得到你的许可,我的想法是应当作战。

6.122.33

दुरुक्तं विप्रतीपं वा रभसाच्चापलात्तथा ।
यन्मयेह कृतं किंचित्तन्मे त्वं क्षन्तुमर्हसि ॥ ६.१२२.३३ ॥

我在此因急躁轻率所说的任何粗暴或违逆之言,或所做的任何事,请你宽恕。

6.122.34

न चेच्छक्यमवस्रष्टुं वैरमेतत्सुदारुणम् ।
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ॥ ६.१२२.३४ ॥

若不能放下这极其猛烈的仇恨,迦尔纳啊,我允许你。为求天界而战吧。

6.122.35

निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह ।
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥ ६.१२२.३५ ॥

无怒,激动已平息,在战场上行其所当行,依其力量与热情,依循善人的行为而行动。

6.122.36

अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि ।
क्षत्रधर्मजिताँल्लोकानवाप्स्यसि धनंजयात् ॥ ६.१२२.३६ ॥

我允许你;去获得你所求之物。你将借财胜(阿周那)而获得以刹帝利之法所赢得的诸世界。

6.122.37

युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः ।
धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते ॥ ६.१२२.३७ ॥

无傲慢之心,依靠力量与勇气而战。对于刹帝利而言,没有比合乎法的战争更高的事了。

6.122.38

प्रशमे हि कृतो यत्नः सुमहान्सुचिरं मया ।
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ॥ ६.१२२.३८ ॥

我为建立和平曾长久而大力地努力,却未能做到。哪里有法,哪里便有胜利。

6.122.39

इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च ।
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ॥ ६.१२२.३९ ॥

当恒河之子如此说罢,罗陀之子迦尔纳行礼告辞,登上战车,向你的儿子驶去。

6.122.40

इत्येतद्बहुवृत्तान्तं भीष्मपर्वाखिलं मया ।
शृण्वते ते महाराज प्रोक्तं पापहरं शुभम् ॥ ६.१२२.४० ॥

大王啊,我已将这包含诸多事迹的《毗湿摩篇》全部讲述给你这位聆听者,这是吉祥之言,能消除罪业。

6.122.41

यः श्रावयेत्सदा राजन्ब्राह्मणान्वेदपारगान् ।
श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि ॥ ६.१२२.४१ ॥

大王啊,凡常为精通吠陀的婆罗门诵读此篇者,以及世上怀着信心聆听此篇的人们:

6.122.42

विधूय सर्वपापानि विहायान्ते कलेवरम् ।
प्रयान्ति तत्पदं विष्णोर्यत्प्राप्य न निवर्तते ॥ ६.१२२.४२ ॥

抖落一切罪业,最终舍弃身体,他们便往毗湿奴的那一处去,到达之后便不再返回。

6.122.43

तस्मात्सर्वप्रयत्नेन भारतं भरतर्षभ ।
शृणुयात्सिद्धिमन्विच्छन्निह वामुत्र मानवः ॥ ६.१२२.४३ ॥

因此,婆罗多族的雄牛啊,人若欲求成就,无论今生或来世,都应竭尽全力聆听《薄伽梵》。

6.122.44

भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् ।
भीष्मपर्वणि राजेन्द्र दद्यात्पानीयमुत्तमम् ॥ ६.१२२.४४ ॥

应以香料和花环庄严婆罗门,并供养他们饮食;诸王之主啊,在《毗湿摩篇》中还应奉上殊胜的净水。