Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.16.1

ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् ।
क्रोशतां भूमिपलानां युज्यतां युज्यतामिति ॥ ६.१६.१ ॥

于是夜尽天明之时,诸王高呼:“准备!准备!”,一片巨大的喧嚷之声响起。

6.16.2

शङ्खदुन्दुभिघोषैश्च सिंहनादैश्च भारत ।
हयहेषितनादैश्च रथनेमिस्वनैस्तथा ॥ ६.१६.२ ॥

婆罗多啊,伴随着海螺与战鼓的轰鸣,狮子般的吼声,马匹的嘶鸣,以及战车车轮的隆隆声。

6.16.3

गाजानां बृहतां चैव योधानां चापि गर्जताम् ।
क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥ ६.१६.३ ॥

巨象与吼叫的战士们发出的口哨、拍臂与呼喊,使四周响起了一片喧嚣。

6.16.4

उदतिष्ठन्महाराज सर्वं युक्तमशेषतः ।
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ॥ ६.१६.४ ॥

大王啊,在日出之时,俱卢与般度的大军全都列阵整齐地站立起来。

6.16.5

राजेन्द्र तव पुत्राणां पाण्डवानां तथैव च ।
दुष्प्रधृष्याणि चास्त्राणि सशस्रकवचानि च ॥ ६.१६.५ ॥

诸王之主啊,你的儿子们与般度之子们都拥有难以抵挡的兵器,连同刀剑与甲胄。

6.16.6

ततः प्रकाशे सैन्यानि समदृश्यन्त भारत ।
त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च ॥ ६.१६.६ ॥

婆罗多啊,随后天光大亮,你方与敌方手持兵器的庞大军队都显现了出来。

6.16.7

तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः ।
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥ ६.१६.७ ॥

那里可见装饰着黄金的象与战车,闪耀如带着闪电的云。

6.16.8

रथानीकान्यदृश्यन्त नगराणीव भूरिशः ।
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥ ६.१६.८ ॥

战车军阵看上去如同众多城市,而你的父亲在那里光彩夺目,如同满月。

6.16.9

धनुर्भिर्ऋष्टिभिः खङ्गैर्गदाभिः शक्तितोमरैः ।
योधाः प्रहरणैः शुभ्रैस्तेष्वनीकेष्ववस्थिताः ॥ ६.१६.९ ॥

手持明亮兵器——弓、枪、剑、棍、矛与标枪——的战士驻守在那些军阵之中。

6.16.10

गजाः पदाता रथिनस्तुरगाश्च विशांपते ।
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥ ६.१६.१० ॥

人主啊,象、步兵、车士与马匹排列成网状,成百上千地列阵而立。

6.16.11

ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः ।
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥ ६.१६.११ ॥

各式各样高高飘扬的旗帜,无论是我方还是敌方的,成千上万地闪耀着。

6.16.12

काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः ।
अर्चिष्मन्तो व्यरोचन्त गजारोहाः सहस्रशः ॥ ६.१६.१२ ॥

金色且身上镶嵌宝石斑斓的象骑者,如燃烧的火焰般闪着光芒,成千上万地照耀着。

6.16.13

महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ।
सन्नद्धास्ते प्रवीराश्च ददृशुर्युद्धकाङ्क्षिणः ॥ ६.१६.१३ ॥

如因陀罗宫殿中洁白的摩亨陀罗旗帜,那些披甲的勇士显得渴望战斗。

6.16.14

उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः ।
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ॥ ६.१६.१४ ॥

手持高举的兵器,色彩斑斓,系着鼓,饰以孔雀翎,牛眼的人中之王走在军队前列,光彩照人。

6.16.15

शकुनिः सौबलः शल्य आवन्त्योऽथ जयद्रथः ।
विन्दानुविन्दौ कैकेयाः काम्भोजश्च सुदक्षिणः ॥ ६.१६.१५ ॥

苏跋罗之子沙恭尼、沙利耶、阿般提王子,然后是胜车、凯盖耶的云达与阿努云达,以及迦摩菩阇的苏达克希纳。

6.16.16

श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः ।
बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥ ६.१६.१६ ॥

羯陵伽的室利多阿育陀、国王阇耶森那、憍萨罗的勃利诃陀罗,以及萨特瓦塔的具得铠。

6.16.17

दशैते पुरुषव्याघ्राः शूराः परिघबाहवः ।
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥ ६.१६.१७ ॥

这十位人中之虎,英雄,臂如铁棍,统领十八万一千八百七十头象的大军,行祭祀,施舍丰厚。

6.16.18

एते चान्ये च बहवो दुर्योधनवशानुगाः ।
राजानो राजपुत्राश्च नीतिमन्तो महारथाः ॥ ६.१६.१८ ॥

这些以及其他众多听从难敌号令的国王、王子,和通晓政事的大车勇士。

6.16.19

सन्नद्धाः समदृश्यन स्वेष्वनीकेष्ववस्थिताः ।
बद्धकृष्णाजिनाः सर्वे बलिनो युद्धशालिनः ॥ ६.१६.१९ ॥

众人皆披甲,立于各自的军阵中,系着黑羚羊皮,强壮而善于战斗。

6.16.20

हृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः ।
समर्था दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥ ६.१६.२० ॥

为了难敌,并为求得梵天之界而受誓持戒,欢欣的十支军队包围并列阵而立。

6.16.21

एकादशी धार्तराष्ट्री कौरवाणां महाचमूः ।
अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः ॥ ६.१६.२१ ॥

这是俱卢族的第十一大军,属于持国的诸子;其前方站立着作为全军统帅的山陀之子毗湿摩。

6.16.22

श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् ।
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥ ६.१६.२२ ॥

大王啊,我们看见了毗湿摩——不坠者,头戴白头巾,骑白马,披白甲,犹如升起的月亮。

6.16.23

हेमतालध्वजं भीष्मं राजते स्यन्दते स्थितम् ।
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥ ६.१६.२३ ॥

金棕榈旗的毗湿摩立于战车之上闪耀,犹如白云中锐利光芒的太阳;俱卢与般度的人都看见了他。

6.16.24

दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः ।
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ।
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा ॥ ६.१६.२४ ॥

看见阵前的毗湿摩,般度之子与以猛将德里斯塔德尤姆那为首的大弓手们大为战栗,犹如小鹿看见张口的大狮子而发抖。

6.16.25

धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ।
एकादशैताः श्रीजुष्टा वाहिन्यस्तव पार्थिव ॥ ६.१६.२५ ॥

以德利休马那为首的众人一再深感惊动。大王啊,你这十一支光彩的军团(也同样惊恐)。

6.16.26

पाण्डवानां तथा सप्त महापुरुषपालिताः ।
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ ॥ ६.१६.२६ ॥

般度之子的七支军队同样由大勇士守护;它们如同两片大海,充满了狂怒的摩羯鱼的漩涡和大鳄鱼。

6.16.27

युगान्ते समवेतौ द्वौ दृश्येते सागराविव ।
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः ।
अनीकानां समेतानां कौरवाणां तथाविधः ॥ ६.१६.२७ ॥

它们仿佛在劫末相会的两片大海。大王啊,我们从前从未见过,也未听说过,聚集在一起的俱卢军队竟是这般景象。