Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.17.1

यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् ।
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥ ६.१७.१ ॥

正如尊者毗耶娑·黑天·二岛所说,所有的国王都聚集在一起。

6.17.2

मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत ।
दीप्यमानाश्च संपेतुर्दिवि सप्त महग्रहाः ॥ ६.१७.२ ॥

那一天月亮位于麻伽宿,七颗大行星闪耀着聚集于天空。

6.17.3

द्विधाभूत इवादित्य उदये प्रत्यदृश्यत ।
ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः ॥ ६.१७.३ ॥

日出时太阳仿佛一分为二;带着燃烧的火焰,光辉的太阳再次升起。

6.17.4

ववाशिरे च दीप्तायां दिशि गोमायुवायसाः ।
लिप्समानाः शरीराणि मांसशोणितभोजनाः ॥ ६.१७.४ ॥

在燃烧的方向,豺狼与乌鸦开始嚎叫,渴望尸体,以血肉为食。

6.17.5

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥ ६.१७.५ ॥

每日,面对普利塔之子,老迈的俱卢祖父与婆罗堕遮之子在黎明时起身,自制而准备就绪。

6.17.6

जयोऽस्तु पाण्डुपुत्राणामित्यूचतुरिन्दमौ ।
युयुधाते तवार्थाय यथा स समयः कृतः ॥ ६.१७.६ ॥

两位降伏敌人的人说:“愿般度之子获胜!”他们为你而战,正如约定的那样。

6.17.7

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।
समानीय महीपालानिदं वचनमब्रवीत् ॥ ६.१७.७ ॥

精通一切法之特殊义理的你的父亲提婆跋罗陀聚集诸王,说了这句话。

6.17.8

इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् ।
गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम् ॥ ६.१७.८ ॥

刹帝利们,通往天界的这扇大门为你们敞开;由此进入,与帝释天和梵天同居其界。

6.17.9

एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैः कृतः ।
संभावयध्वमात्मानमव्यग्रमनसो युधि ॥ ६.१७.९ ॥

此乃你们永恒之道,前人与更早的前人曾经走过。在战斗中以坚定之心,自我珍重尊敬。

6.17.10

नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः ।
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥ ६.१७.१० ॥

那婆伽、夜陀、曼陀多、那呼沙与那罗迦,凭借此类行为而得成就,抵达至上之境。

6.17.11

अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे ।
यदयोनिधनं याति सोऽस्य धर्मः सनातनः ॥ ६.१७.११ ॥

对刹帝利而言,在家中因病而死是非法;不在战场而死,也不是他的永恒之责。

6.17.12

एवमुक्ता महीपाला भीष्मेण भरतर्षभ ।
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥ ६.१७.१२ ॥

婆罗多族的雄牛啊,婆罗多族之雄,被毗湿摩如此告知后,诸王率各自军队出发,以优良战车装饰军阵。

6.17.13

स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः ।
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥ ६.१७.१३ ॥

婆罗多族的雄牛啊,那毗迦尔坦之子迦尔纳与其大臣和亲族一起,在战斗中被毗湿摩迫使放下了武器。

6.17.14

अपेतकर्णाः पुत्रास्ते राजनश्चैव तावकाः ।
निर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥ ६.१७.१४ ॥

你的儿子们和诸王,充耳不闻,以狮子吼般的声音出发,使十方回响。

6.17.15

श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः ।
तान्यनीकानि शोभन्ते गजैरथ पदातिभिः ॥ ६.१७.१५ ॥

那些军队以白伞、旗帜、旌旗、象与马而光彩夺目,又以象与步兵而耀眼。

6.17.16

भेरीपणवशब्दैश्च दुन्दुभीनां च निःस्वनैः ।
रथनेमिनिनादैश्च बभूवाकुलिता मही ॥ ६.१७.१६ ॥

鼓声、 paṇava 之声、战鼓的轰鸣以及战车轮的辘辘声,使大地为之震动不安。

6.17.17

काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः ।
भ्राजमाना व्यराजन्त साग्नयः पर्वता इव ॥ ६.१७.१७ ॥

大车战士们以金臂钏、手镯与弓而光彩照人,如同带着火焰的山岳。

6.17.18

तालेन महता भीष्मः पञ्चतारेण केतुना ।
विमलादित्यसंकाशस्तस्थौ कुरुचमूपरि ॥ ६.१७.१८ ॥

手持大棕榈旗与五星旗,毗湿摩如无垢的太阳,屹立于俱卢大军之上。

6.17.19

ये त्वदीया महेष्वासा राजानो भरतर्षभ ।
अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ॥ ६.१७.१९ ॥

婆罗多族的雄牛啊,你方的众大弓箭手,国王啊,依照商苏努之子(毗湿摩)的命令,各自前往所指定的位置。

6.17.20

स तु गोवासनः शैब्यः सहितः सर्वराजभिः ।
ययौ मातङ्गराजेन राजार्हेण पताकिना ।
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥ ६.१७.२० ॥

高瓦萨纳·设毗耶与众王同行,乘坐适合国王的、饰有旗帜的王象出发。这位莲花色的人站在所有军队的前方。

6.17.21

अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतुना ।
श्रुतायुधश्चित्रसेनः पुरुमित्रो विविंशतिः ॥ ६.१७.२१ ॥

马嘶人(阿濕瓦達曼)保持警惕,带着狮尾旗前进;室鲁多由陀、citrasena、布鲁米特拉和毗维姆沙提也前往。

6.17.22

शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः ।
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ॥ ६.१७.२२ ॥

沙利耶、布利尸罗婆斯,以及大车战士毗迦尔纳也在其中——这七位大弓箭手,以德罗纳之子为首。

6.17.23

स्यन्दनैर्वरवर्माणो भीष्मस्यासन्पुरोगमाः ।
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् ॥ ६.१७.२३ ॥

身着上好铠甲的车战士们走在毗湿摩之前;其中身材高大者,装饰着最好的战车。

6.17.24

भ्राजमाना व्यरोचन्त जाम्बूनदमया ध्वजाः ।
जाम्बूनदमयी वेदी कमण्डलुविभूषिता ॥ ६.१७.२४ ॥

金色的旗帜闪耀生辉;装饰着净水瓶的金色祭坛也熠熠发光。

6.17.25

केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ।
अनेकशतसाहस्रमनीकमनुकर्षतः ॥ ६.१७.२५ ॥

首席师尊德罗纳的旗帜与其弓一同,牵引着数以十万计的大军。

6.17.26

महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ।
तस्य पौरवकालिङ्गकाम्भोजाः समुदक्षिणाः ॥ ६.१७.२६ ॥

难敌的大旗是一头宝石制成的象;其下有波卢婆、羯陵伽、憍萨罗与南方诸族。

6.17.27

क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः ।
स्यन्दनेन महार्हेण केतुना वृषभेण च।
प्रकर्षन्नेव सेनाग्नं मागधस्य कृपो ययौ ॥ ६.१७.२७ ॥

刹摩陀那与沙利耶率战车立于前列;克利帕乘坐贵重的牛旗战车,牵引着摩揭陀王军队的先锋前进。

6.17.28

तदङ्गपतिनां गुप्तं कृपेण च मनस्विना ।
शारदाम्बुधरप्रख्यं प्राच्यानां सुमहद्बलम् ॥ ६.१७.२८ ॥

由盎伽诸王与高尚的克利帕所护卫的东方诸族大军,犹如秋日的云。

6.17.29

अनीकप्रमुखे तिष्ठन्वराहेण महायशाः ।
शुशुभे केतुमुख्येन राजतेन जयद्रथः ॥ ६.१७.२९ ॥

站在军队前列的大名鼎鼎的胜车,以野猪旗与银制的主旗而光彩照人。

6.17.30

शतं रतसहस्राणां तस्यासन्वशवर्तिनः ।
अष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥ ६.१७.३० ॥

在他麾下有十万乘战车、八千头象和六万骑兵。

6.17.31

तत्सिन्धुपतिना राज्ञा पालितं ध्वजिनीमुखम् ।
अनन्तरथनागाश्वमशोभत महद्बलम् ॥ ६.१७.३१ ॥

由信度王守护的军阵前锋,以紧密排列的战车、象与马,显出庞大的威力。

6.17.32

षष्ट्या रथसहस्रैस्तु नागानामयुतेन च ।
पतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥ ६.१७.३२ ॥

与羯图摩多一同,诸羯陵伽之主率六万辆战车、一万头象前进。

6.17.33

तस्य पर्वतसंकाशा व्यरोचन्त महागजाः ।
यन्त्रतोमरतूणीरैः पताकाभिः सुशोभिताः ॥ ६.१७.३३ ॥

他那如山般的大象,饰以战具、投枪、箭袋与旗幡,光彩照人。

6.17.34

शुशुभे केतुमुख्येन पावकेन कलिङ्गकः ।
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ॥ ६.१७.३४ ॥

羯陵伽王在羯图的主旗下如火焰般闪耀,持白伞、金项链与牦牛尾拂。

6.17.35

केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् ।
आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥ ६.१७.३५ ॥

大王啊,羯图摩多亦乘坐装饰精妙的上等象钩之象,在战场上如云中之日般闪耀。

6.17.36

तेजसा दीप्यमानस्तु वारणोत्तममास्थितः ।
भगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥ ६.१७.३६ ॥

光辉照耀的婆伽达多王乘坐最上等的象,如持金刚杵之因陀罗般前进。

6.17.37

गजस्कन्धगतावास्तां भगदत्तेन संमितौ ।
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥ ६.१७.३७ ॥

与婆伽达多同乘象肩的,是与他匹敌的阿梵提两位王子毗湿陀与阿努毗湿陀,他们追随着键度摩。

6.17.38

स रथानीकवान्व्यूहो हस्त्यङ्गो नृपशीर्षवान् ।
वाजिपक्षः पतत्युग्रः प्रहसन्सर्वतोमुखः ॥ ६.१७.३८ ॥

这一阵形以战车部队为前锋,以象群为身躯,以诸王为头颅,以战马为双翼,狂笑着四面朝向,猛烈地俯冲而来。

6.17.39

द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च ।
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेम च ॥ ६.१७.३९ ॥

大王,此阵是由德罗纳、山遮努之子国王,同样也由师子之子、巴力迦与克里帕所布设的。