摩诃婆罗多 · 章 6.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.21.1
बृहतीं धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम् ।
विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ॥ ६.२१.१ ॥
见持国之子的庞大军队已列阵待战,贡提之子国王坚战陷入忧愁。
6.21.2
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः ।
अभेद्यमिव संप्रेक्ष्य विवर्णोऽर्जुनमब्रवीत् ॥ ६.२१.२ ॥
般度之子见毗湿摩所布的坚不可摧的阵形,面色惨然,对阿周那说道。
6.21.3
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे ।
धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ॥ ६.२१.३ ॥
达难阇耶啊,我们如何能与持国之子交战?他们的勇士正是祖父自己。
6.21.4
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्षिणा ।
कल्पितः शास्त्रदृष्टेन विधिना भूरिवर्चसा ॥ ६.२१.४ ॥
此阵坚不可动、不可突破,是毗湿摩——摧敌者、大光辉者——依照经典之法所布。
6.21.5
ते वयं संशय्नं प्राप्ताः ससैन्याः शत्रुकर्षण ।
कथमस्मान्महाव्यूहादुत्थानं नो भविष्यति ॥ ६.२१.५ ॥
摧敌者啊,我们与军队一同陷入危境。我们如何才能冲出这大阵?
6.21.6
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा ।
विषण्णमिव संप्रेक्ष्य तव राजन्ननीकिनीम् ॥ ६.२१.६ ॥
那时,杀敌者阿周那对普利塔之子坚战说道——坚战凝望你的军队,显得沮丧,大王啊。
6.21.7
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि ।
जयन्त्यल्पतरा येन तन्निबोध विशांपते ॥ ६.२१.७ ॥
以智慧,少数人能战胜许多更优秀、具备德行的英雄。君主啊,你应当明白这一点。
6.21.8
तत्र ते कारणं राजन्प्रवक्ष्याम्यनसूयवे ।
नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ॥ ६.२१.८ ॥
君主啊,我将把其中的原因告诉你这位无嫉妒之人。仙人那罗陀知道此事,毗湿摩与德罗纳也知道,般度之子啊。
6.21.9
एनमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् ।
पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ॥ ६.२१.९ ॥
正基于此事,远古时在神与阿修罗的战争中,祖父对因陀罗等天界居民说过这些话。
6.21.10
न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः ।
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ॥ ६.२१.१० ॥
求胜之人,并非主要凭借力量与勇武获胜,而是凭借真实、仁慈、法与努力而取胜。
6.21.11
त्वक्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः ।
युध्यध्वमतहंकारा यतो धर्मस्ततो जयः ॥ ६.२१.११ ॥
你们都舍弃不法,依止至上的法,无我慢地作战吧;法在哪里,胜利就在哪里。
6.21.12
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः ।
यथा तु नारदः प्राह यतः कृष्णस्ततो जयः ॥ ६.२१.१२ ॥
君主啊,你应当这样知道:战场上我们的胜利是确定的,正如那罗陀所说:克里希那在哪里,胜利就在哪里。
6.21.13
गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् ।
तद्यथा विजयश्चास्य सन्नतिश्चापरो गुणः ॥ ६.२१.१३ ॥
胜利作为克里希纳的次要品质,从后方跟随摩陀婆;他的胜利与谦逊是他的另一种品质。
6.21.14
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः ।
पुरुषः सनातनमयो यतः कृष्णस्ततो जयः ॥ ६.२१.१४ ॥
无限光辉的哥文达,在敌军之中也岿然不动;他是永恒的补鲁沙。克里希纳所在之处,便是胜利。
6.21.15
पुरा ह्येष हरिर्भूत्वा विकुण्ठोऽकुण्ठसायकः ।
सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ॥ ६.२१.१५ ॥
往昔此哈里化为无敌之箭的毗昆陀,在神与阿修罗之间雷鸣般说道:“谁将获胜?”
6.21.16
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् ।
तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ॥ ६.२१.१६ ॥
说“让我们追随克里希纳而获胜”的人,在那里获胜了;因他的恩典,因陀罗等诸神获得了三界。
6.21.17
तस्य ते न व्यथां कांचिदिह पश्यामि भारत ।
यस्य ते यजमाशास्ते विश्वभुक् त्रिदिवेश्वरः ॥ ६.२१.१७ ॥
婆罗多啊,我看不到你为他而有任何忧伤——那位遍享一切的三天之主所愿为之献祭的人。