摩诃婆罗多 · 章 6.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.23.1
धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम् ।
अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥ ६.२३.१ ॥
克里希那见持国百子之军已列阵待战,为了阿周那的利益,说了这番话。
6.23.2
शुचिर्भूत्वा महाबाहो संग्रामाभिमुखे स्थितः ।
पराजयाय श्त्रुणां दुर्गास्तोत्रमुदीरय ॥ ६.२३.२ ॥
大臂者啊,你应清净身心,面对战场而立,诵唱杜尔迦颂歌,以使敌人败亡。
6.23.3
एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता ।
अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः ॥ ६.२३.३ ॥
智慧的婆苏提婆如此说后,普利塔之子阿周那在战场上下车,合掌诵出颂歌。
6.23.4
नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि ।
कुमारि कालि कापालि कपिले कृष्णपिङ्गले ॥ ६.२३.४ ॥
向你致敬,成就者军队的统帅,高贵的女神,住在曼陀罗山的女子,少女,迦利,持骷髅者,赤褐色者,黑赤褐色者。
6.23.5
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते ।
चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि ॥ ६.२३.५ ॥
向你致敬,吉祥的迦利;向你致敬,大迦利。向你致敬,猛烈者,猛烈者;救度者,美色者。
6.23.6
कात्यायनि महाभागे करालि विजये जये ।
शिखिपिच्छध्वजधरे नानाभरणभूषिते ॥ ६.२३.६ ॥
迦提耶亚尼啊,大福德者,可畏者,胜利者,征服者,持孔雀翎旗者,以众多璎珞庄严者!
6.23.7
अट्टशूलप्रहरणे स्वङ्गखेटकधारिणि ।
गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥ ६.२३.७ ॥
啊,你以长矛与三叉戟为武器,手持剑与盾,是牧主之主的妹妹,也是其姊,生于难陀牧人之族!
6.23.8
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि ।
अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥ ६.२३.८ ॥
啊,你常以水牛魔之血为乐,考悉基,身着黄衣,大笑之者,杜鹃面容,爱好战斗者,向你致敬!
6.23.9
उभे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि ।
हिरण्याश्चि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥ ६.२३.९ ॥
啊,沙坎跋黎,兼具白与黑之形,灭杀凯图巴者,金眼者,广目者,烟眼者,向你致敬!
6.23.10
वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि ।
जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥ ६.२३.१० ॥
啊,吠陀之声,大功德者,敬奉婆罗门者,火之化身,常居于阎浮林的卡塔卡圣殿之中者!
6.23.11
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् ।
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥ ६.२३.११ ॥
你是梵之知,是一切知识中的知识,也是有身众生的大眠。啊,斯堪达之母,吉祥的杜尔迦,居于荒野者!
6.23.12
स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती ।
सावित्री वेदमाता च तथा वेदान्त उच्यते ॥ ६.२३.१२ ॥
你是娑哈与娑陀,是诸艺与时分,是辩才天女;你是吠陀之母萨维特丽,也被称为吠檀多。
6.23.13
स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना ।
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥ ६.२३.१३ ॥
伟大的女神啊,你以清净的内心受到赞颂;愿凭你的恩典,我在战场上永远得胜。
6.23.14
कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।
नित्यं वससि पाताले युद्धे जयसि दानवान् ॥ ६.२३.१४ ॥
你永远居住在可怕的荒野、堅固的城堡以及信徒的居所中;你也居住在地底世界,在战斗中你战胜达那婆。
6.23.15
त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च ।
संध्या प्रभावती चैव सावित्री जननी तथा ॥ ६.२३.१५ ॥
你是遮婆尼、迷惑、幻化;你是惭(Hrī)与吉祥(Śrī),也是黄昏(Sandhyā)、光辉(Prabhāvatī)、萨维特丽(Sāvitrī)和母亲。
6.23.16
तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।
भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥ ६.२३.१६ ॥
你是满足、滋养、坚定与光辉,增益月亮与太阳;在战斗中你是富足者的光荣,悉陀与遮罗那们注视着你。
6.23.17
ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला ।
अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ॥ ६.२३.१७ ॥
于是,知道了阿周那的虔诚,那位慈爱世人的女神,立于空中,站在婆罗跋中(Govinda)面前,开口说话。
6.23.18
स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव ।
नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ॥ ६.२३.१८ ॥
般度之子啊,不久之后你将战胜敌人;你是有那罗衍那为助手的、难以战胜的人(那罗)。
6.23.19
अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् ।
इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत ॥ ६.२३.१९ ॥
你在战场上将不可被敌人战胜,甚至连执金刚的因陀罗也无法战胜你。女神说完这些,便在刹那间消失了。
6.23.20
लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः ।
आरुरोह ततः पार्थो रथं परमसंमतम् ॥ ६.२३.२० ॥
得到恩赐后,昆蒂之子认为胜利已属于自己。随后,普利塔之子登上了备受推崇的战车。
6.23.21
कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौः प्रदध्मतुः ।
य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ॥ ६.२३.२१ ॥
克里希纳与阿周那同乘一车,吹响了神圣的海螺。凡在黎明起身诵读此颂的人——
6.23.22
यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा ।
न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ॥ ६.२३.२२ ॥
他永远不会害怕夜叉、罗刹和毕舍遮,也不会怕它们所生的敌人,亦不怕蛇类等有獠牙的生物。
6.23.23
न भयं विद्यते तस्य सदा राजकुलादपि ।
विवादेक जयमाप्नोति बद्धो मुच्यति बन्धनात् ॥ ६.२३.२३ ॥
即使来自王族,他也永远无所畏惧;在争讼中他获胜,被缚者也能脱离束缚。
6.23.24
दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते ।
संग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ॥ ६.२३.२४ ॥
他必定能越过险隘,也能免于盗贼之害。在战斗中他总能获胜,并得到圆满的吉祥。
6.23.25
आरोग्यबलसंपन्नो जीवेद्वर्षशतं तथा ।
एतद्दृष्टं प्रसादात्तु मया व्यासस्य धीमतः ॥ ६.२३.२५ ॥
具足健康与力量者当活百岁。此事我由智者毗耶娑的恩典而得见。
6.23.26
मोहादेतौ न जानन्ति नरनारायणावृषी ।
तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः ॥ ६.२३.२६ ॥
因迷惑故,他们不识此二仙人那罗与那罗衍那。你的诸子皆心怀邪恶,随顺愤怒而行。
6.23.27
प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः ।
द्वैपायनो नारदश्च कण्वो रामस्तथानघः ।
अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ॥ ६.२३.२७ ॥
时至,此言应验;他们为时之索所困而迟钝。二伽耶那、那罗陀、迦婆与无瑕的罗摩曾阻止你的儿子,但他不肯接受。
6.23.28
यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः ।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ ६.२३.२८ ॥
法所在之处,即有光明、光彩、羞耻、吉祥与智慧;法在何处,克里希那便在何处;克里希那在何处,胜利便在何处。