摩诃婆罗多 · 章 6.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.26.1
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ ६.२६.१ ॥
摩图苏陀那对被怜悯所困、双眼含泪而慌乱、陷入悲伤的他说了这番话。
6.26.2
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ ६.२६.२ ॥
阿周那啊,在这危急时刻,这迷惑从何而来?这是非高贵之人的行为,不通往天界,且带来耻辱。
6.26.3
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥ ६.२६.३ ॥
阿周那啊,不要陷入怯懦,这不适合你。舍弃这卑微的心弱,起来吧,焚烧敌人者。
6.26.4
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ६.२६.४ ॥
摩图苏陀那啊,战场上我如何用箭与毗湿摩和德罗纳交战?他们二人都值得敬拜,灭敌者啊。
6.26.5
गुरूनहत्वा हि महानुभावान् ।
श्रेयो भोक्तुं भेक्षमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव ।
भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ६.२६.५ ॥
与其杀害这些高尚的长者,不如在此世上乞食为生。然而,若为求财富与欲乐而杀害这些长者,我便要在此享用沾满鲜血的欢乐。
6.26.6
न चैतद्वीद्मः कतरन्नो गरीयो ।
यद्वा जयम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषाम-
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६.२६.६ ॥
我们不知道哪一种对我们更好:是我们获胜,还是他们战胜我们。那些杀死之后我们都不愿活下去的持国之子,正列阵在我们面前。
6.26.7
कार्पण्यदोषोपहतस्वभावः ।
पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे ।
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ६.२६.७ ॥
我的本性被怯懦的过失所损伤,我的心对法感到迷惑。我问你:请明确告诉我什么才是真正的至善。我是你的弟子,已归依于你,请教导我。
6.26.8
न हि प्रपश्यामि ममापनुद्या-
द्यच्छोकमुच्छोषणमिन्द्रियाणाम्।
अवाप्य भूमावसपत्नमृद्धं ।
राज्यं सुराणामपि चाधिपत्यम् ॥ ६.२६.८ ॥
即使我在大地上获得无敌而繁荣的王国,甚至获得诸天神的主宰权,我也看不出有什么能驱散我这使诸根枯竭的悲痛。
6.26.9
एवमुकत्वा हृषीकेशं गुडाकेशं परंतप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ६.२६.९ ॥
对希利史基舍说了这些话之后,哦,灭敌者,古达克舍对戈文达说:“我不会作战。”说完便沉默了。
6.26.10
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ ६.२६.१० ॥
哦,婆罗多,他在两军中间忧伤,希利史基舍仿佛微笑着对他说了这些话。
6.26.11
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पाण्डिताः ॥ ६.२६.११ ॥
你为不值得悲伤的人悲伤,却说着智者的话语。智者既不为死者悲伤,也不为生者悲伤。
6.26.12
नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव नभविष्यामः सर्वे वयमतः परम् ॥ ६.२६.१२ ॥
我从来不曾不存在,你也不曾不存在,这些人主也不曾不存在;将来我们也绝不会不存在。
6.26.13
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ ६.२६.१३ ॥
正如有身者在此身中经历童年、青年与老年,他也获得另一身体;坚定者对此不会迷惑。
6.26.14
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्स्यास्तांस्तितिक्षस्व भारत ॥ ६.२६.१४ ॥
孔提之子啊,诸根的触及带来寒热、苦乐;它们来去无常,并非永恒。婆罗多之后啊,你要忍受它们。
6.26.15
यं हि व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ ६.२६.१५ ॥
人中牛啊,那些不扰乱坚定之人、对苦乐一视同仁的人,便能够获得不死。
6.26.16
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिःक ॥ ६.२६.१६ ॥
非有者无有,有者无无;见真理者已看到此二者的终极。
6.26.17
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ ६.२६.१७ ॥
应知那遍布一切者是不坏的;无人能够毁灭这不变之物。
6.26.18
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ ६.२६.१८ ॥
这些身体被说为有终结,属于永恒、不坏、不可量的有身者。所以,婆罗多之后啊,你应当战斗。
6.26.19
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ६.२६.१९ ॥
以之为杀者,与以之为被杀者,二者皆不知:此不杀,亦不被杀。
6.26.20
न जायते म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो ।
न हन्तये हन्यमाने शरीरे ॥ ६.२६.२० ॥
此从不生,亦不死;曾有者不再有,将有者亦不再有。此无生、恒常、永久而古老;身体被杀时,此不被杀。
6.26.21
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ ६.२६.२१ ॥
帕尔特,知此不灭、恒常、不生、不坏者,彼人如何使人被杀,或杀何人?
6.26.22
वासांसि जीर्णानि यथा विहाय ।
नवानि गृह्णानि नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥ ६.२६.२२ ॥
如人舍弃旧敝衣服,更换新的衣服,有身者亦舍弃衰老之身,而入于新的身体。
6.26.23
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ ६.२६.२३ ॥
刀剑不能割它,火不能烧它,水不能浸它,风不能干它。
6.26.24
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ ६.२६.२४ ॥
此不可断,不可烧,不可湿,不可干;此恒常、遍在、坚固、不动、永恒。
6.26.25
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ ६.२६.२५ ॥
此我被称为未显现、不可思议、不变易。因此,知其如此,你不应悲伤。
6.26.26
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि कत्वं महाबाहो नैनं शोचितुमर्हसि ॥ ६.२६.२६ ॥
即使你认为他永远诞生或永远死去,大臂者啊,你仍然不应为他悲伤。
6.26.27
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ ६.२६.२७ ॥
凡生者必有死,凡死者必有生。因此,对于这不可避免之事,你不应悲伤。
6.26.28
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येन तत्र का परिदेवना ॥ ६.२६.२८ ॥
婆罗多之子啊,众生始时未显,中间显现,终了又复未显。那么在此又有何可悲叹?
6.26.29
आश्चर्यवत्पश्यति कश्चिदेन-
माश्चर्यवद्वदति तथैव चान्यः।
आश्चर्यवच्चैनमन्यः श्रृणोति ।
श्रुत्वाऽप्येनं वेद न चैव कश्चित् ॥ ६.२६.२९ ॥
有人视之为奇异,有人说之如奇异,又有人闻之如奇异;然而即便听闻,也无人真正知晓它。
6.26.30
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ६.२६.३० ॥
婆罗多之子啊,居于一切人身体中的有身者永远不可被杀。因此,你不应为一切众生悲伤。
6.26.31
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ६.२६.३१ ॥
即使考虑你自己的本分,你也不应动摇;因为对刹帝利而言,没有比正义之战更大的善事。
6.26.32
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लन्ते युद्धमीदृशम् ॥ ६.२६.३२ ॥
而且,普利塔之子啊,天门偶然敞开;刹帝利得到这样的战争便感到幸福。
6.26.33
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ६.२६.३३ ॥
若你不进行这场正义的战斗,那么你将放弃自己的本分与名誉,从而招致罪过。
6.26.34
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ६.२६.३४ ॥
众生将谈论你永恒的耻辱;对于受人尊敬的人而言,耻辱比死亡更甚。
6.26.35
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ६.२६.३५ ॥
大车战士们会认为你因恐惧而从战斗中退出;而在那些曾经看重你的人中间,你将陷入卑微。
6.26.36
अवाच्यवादांश्चक बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ६.२६.३६ ॥
你的敌人会说许多不堪入耳的话,诋毁你的勇力;还有什么比这更痛苦的呢?
6.26.37
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ६.२६.३७ ॥
战死则得升天,获胜则享有大地。因此,贡提之子啊,决心已定,起来作战吧。
6.26.38
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ६.२६.३८ ॥
视苦乐、得失、胜败为一致,然后投入战斗;如此你便不会招致罪过。
6.26.39
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श्रृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ६.२६.३९ ॥
此智慧已在数论中向你宣说;现在请听它在瑜伽中的讲述,普利塔之子啊,凭借此智慧而与之相应,你将舍弃行为的束缚。
6.26.40
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ६.२६.४० ॥
此处无努力之失,亦无过患;即使少许此法,也能救人脱离大恐惧。
6.26.41
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ६.२६.४१ ॥
库如之乐啊,此处以决断为本质的智慧只有一种;而犹豫者的智慧则枝蔓繁多,无穷无尽。
6.26.42
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ६.२६.४२ ॥
普利塔之子啊,愚昧者沉溺于吠陀之言,说着这华丽的言辞,宣称此外别无他物。
6.26.43
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ६.२६.४३ ॥
心被欲望占据、志在天界的人,说着那些能带来生与业之果、充满特殊祭仪、导向享乐与权势的言辞。
6.26.44
भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ६.२६.४४ ॥
执着于享乐与权势、心被那些言辞夺走的人,其坚定的智慧无法在三昧中确立。
6.26.45
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ॥ ६.२६.४५ ॥
吠陀所涉及的是三德;阿周那啊,你要超越三德,脱离二元对立,常住于善性,不求获得与守护,成为自制之人。
6.26.46
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ६.२६.४६ ॥
当水从四面八方涌流时,井所起的作用有多大,对于通达真理的婆罗门而言,一切吠陀所起的作用也就有多大。
6.26.47
कर्मण्येवाधिकारस्ते मा फलेषु कदा च न ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ६.२६.४७ ॥
你只有行动的权利,从来没有对结果的权利。不要成为行动果报的起因,也不要执着于不行动。
6.26.48
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ६.२६.४८ ॥
住于瑜伽,达那闍耶啊,舍弃执着而行动;在成就与不成就之间保持平等,这平等便称为瑜伽。
6.26.49
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ६.२६.४९ ॥
阿周那啊,远远低于智慧瑜伽的,是为果报而行的行为。应在智慧中寻求依归;那些为果报而行的人是可怜的。
6.26.50
बुद्धियुक्तो जहातीहक उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ६.२६.५० ॥
具足智慧之人,在此世便舍弃善与恶两种行为。因此,应致力于瑜伽;瑜伽就是行为中的善巧。
6.26.51
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ६.२६.५१ ॥
具足智慧的智者舍弃由行为所生的果报,从生死束缚中解脱,抵达那无病无苦之境。
6.26.52
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ६.२६.५२ ॥
当你的智慧越过迷惑的泥潭时,你便会对将要听闻和已经听闻之事生起厌离。
6.26.53
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ६.२६.५३ ॥
当你因经典中各种不同的说法而迷乱的智慧,在三昧中稳定不动、坚固不移时,你便将获得瑜伽。
6.26.54
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किं ॥ ६.२६.५४ ॥
克沙瓦啊,安住于三昧、智慧坚定之人,其言语是怎样的?智慧稳定者如何说话,如何坐,如何行走?
6.26.55
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ६.२६.५५ ॥
帕尔塔啊,当人舍弃心中所有的欲望,唯以自我满足于自我之中时,他便被称为智慧坚定者(sthitaprajña)。
6.26.56
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ६.२६.५६ ॥
心在苦难中不动摇、对快乐不再渴求、摆脱了贪爱、恐惧与愤怒的人,被称为智慧坚定的圣者。
6.26.57
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६.२६.५७ ॥
凡事无所执著,得善或得恶时既不欢喜也不憎恶的人,其智慧便稳固确立。
6.26.58
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६.२६.५८ ॥
当他将诸根从其对象完全收回,如龟收回四肢一般,他的智慧便稳固确立。
6.26.59
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ६.२६.५९ ॥
对于禁食的有身者,诸境界会远离;然而他的贪味(rasa)也只有见到至上者之后才会远离。
6.26.60
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६.२६.६० ॥
贡蒂之子啊,即便是努力修行的智者,那些躁动的诸根也会强行夺走他的心。
6.26.61
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियामि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६.२६.६१ ॥
制服所有这些,与瑜伽相结合,专注于我,应当端坐;因为感官受控者的智慧便得以稳固。
6.26.62
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥ ६.२६.६२ ॥
沉思于诸境的人,便对它们产生执著;执著生欲望,欲望生愤怒。
6.26.63
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुदिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६.२६.६३ ॥
从愤怒生迷惑,从迷惑生记忆混乱。记忆失落则智慧毁灭,智慧毁灭则人便败亡。
6.26.64
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६.२६.६४ ॥
然而,自我受制御之人,以离于爱憎、受自我控制的感官游历诸境,便获得安宁澄明。
6.26.65
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६.२६.६५ ॥
得到澄明,他的一切苦便都止息;心境澄明者,其智慧很快便得稳固。
6.26.66
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६.२६.६६ ॥
不相应者无智慧,不相应者亦无修习;无修习者无寂静,无寂静者哪有安乐?
6.26.67
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६.२६.६७ ॥
犹如风在水上吹走船只,随着游荡之诸根而行的心,便夺去他的智慧。
6.26.68
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६.२६.६८ ॥
因此,大臂者啊,诸根从其境界全然被摄制的人,其智慧便稳固确立。
6.26.69
या निशा सर्वभूतानां तस्यां जागर्तिं संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६.२६.६९ ॥
众生所以为夜者,自制者于其中觉醒;众生所醒之时,对于见道的牟尼则是夜。
6.26.70
आपूर्यमाणमचलप्रतिष्ठं ।
समुद्रमापः प्रविशन्ति यद्वत्।
तद्वत्कामा यं प्रविशन्ति सर्वे ।
स शान्तिमाप्नोति न कामकामी ॥ ६.२६.७० ॥
犹如诸水流入大海,海常被注满而恒定不动,诸欲亦如是入于其人;他得到寂静,而非追逐欲望者。
6.26.71
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥ ६.२६.७१ ॥
舍弃一切欲望,无所渴求,无我所之念、无我慢而行走的人,便得到寂静。
6.26.72
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति ॥ ६.२६.७२ ॥
普利塔之子啊,这便是梵的境界;得之者不再迷惑。安住其中,即使临终之时,也得梵涅槃。