Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.27.1

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ६.२७.१ ॥

哦,闍那陀那,若你认为智慧胜过行动,那么,哦,克舍瓦,你为何要驱使我投身于这可怕的行动之中?

6.27.2

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ ६.२७.२ ॥

你混杂的言辞仿佛使我的智慧迷惑。因此请你确定地说出一件事,使我能够获得至善。

6.27.3

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोप्ता मयाऽनघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ६.२७.३ ॥

无罪者啊,我先前在此世间宣说了两种道路:对数论者是智慧瑜伽,对瑜伽行者是行动瑜伽。

6.27.4

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्रुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ६.२७.४ ॥

人不因不行动而获得无行动之境,也不仅仅因弃绝而达到成就。

6.27.5

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ६.२७.५ ॥

实际上,无人能片刻不行动,因为众人都被自然所生的德性所迫,身不由己地行动。

6.27.6

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचाराः स उच्यते ॥ ६.२७.६ ॥

若有人制止了行动的诸根,却以心念着感官的对象,心识迷惑,此人便被称为行为虚伪者。

6.27.7

यस्त्विन्द्रियाणि पनसा नियम्यारमभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ६.२७.७ ॥

阿周那啊,若有人以意念制御诸根,以行动之根无执地开始行动之瑜伽,此人便卓越超群。

6.27.8

नियतं कुरु कर्म त्वं ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रतिद्ध्येदकर्मणः ॥ ६.२७.८ ॥

你当履行所规定的行动,因为行动胜于不行动;若不行动,连你身体的维持也无法成就。

6.27.9

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ६.२७.९ ॥

除为祭祀而作的行动外,此世界为行动所缚。故,贡蒂之子啊,应无执地为祭祀而行动。

6.27.10

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ ६.२७.१० ॥

生主昔日与祭祀一同创造众生,并说:你们当借此繁衍;愿此为你们满足愿望的如意牛。

6.27.11

देवान्भावयताऽनेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ६.२७.११ ॥

以此滋养诸神,愿诸神滋养你们;相互滋养,你们将获得至高的福祉。

6.27.12

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ६.२७.१२ ॥

受祭祀滋养的诸神必将赐予你们所欲的享受;若有人享用他们所赐之物而不以之奉献于他们,此人便是盗贼。

6.27.13

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ६.२७.१३ ॥

食用祭祀余物的善人,可免除一切罪过;而为自己烹煮的恶人,所食的只是罪孽。

6.27.14

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ६.२७.१४ ॥

众生由食物而生;食物由雨水而来;雨水由祭祀而降;祭祀则源于行为。

6.27.15

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माऽक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ६.२७.१५ ॥

当知行为源于梵,梵源于不灭者。因此遍在的梵永恒地安立于祭祀之中。

6.27.16

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ ६.२७.१६ ॥

凡不随顺这样运转之轮者,在此过着罪恶的生活,耽于感官之乐,他的生命徒然,啊,普利塔之子。

6.27.17

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ ६.२७.१७ ॥

然而,乐于自我、以自我为满足、唯以自我为知足的人,对他而言已无应做之事。

6.27.18

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ६.२७.१८ ॥

对他而言,此间所作与不作皆无所求;他在一切众生之中,也不依赖任何目的。

6.27.19

तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पुरूषः ॥ ६.२७.१९ ॥

因此,无执着地持续履行应做之事。无执着而行动的人,便能达到至上。

6.27.20

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥ ६.२७.२० ॥

遮那迦等人正是通过行动达到圆满。考虑到世间的福祉,你也应当行动。

6.27.21

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ६.२७.२१ ॥

上位者所做的,其他人也会照做。他所立为准则的,世间便随之而行。

6.27.22

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ६.२७.२२ ॥

帕尔塔啊,在三界之中,我没有任何应尽的职责,也没有任何未得之物需要获得。然而我仍投身于行动之中。

6.27.23

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ६.२७.२३ ॥

帕尔塔啊,如果我从不孜孜不倦地投身行动,人们便会在各方面追随我的道路。

6.27.24

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ ६.२७.२४ ॥

如果我不行动,这些世界便会毁灭;那样我就会成为种姓混乱的根源,并毁灭这些众生。

6.27.25

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ ६.२७.२५ ॥

婆罗多之后啊,如无知者执着于行动而行,智者则应无执着地行动,愿维持世间秩序。

6.27.26

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ ६.२७.२६ ॥

智者行于瑜伽之中,不应扰乱执着于行动的无知者之心;应当善做一切行动,并引导他们也参与其中。

6.27.27

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ ६.२७.२७ ॥

一切行动皆由自然的三德于各方面所成就;然而被我慢迷惑的自我却想:“我是行动者。”

6.27.28

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सञ्जते ॥ ६.२७.२८ ॥

然而,大臂者啊,通晓德与业之分别的真知者,认为“诸德于诸德中运作”,便不执着。

6.27.29

प्रकृतेर्गुणसंमूढाः सञ्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ ६.२७.२९ ॥

被自然三德迷惑者,执着于诸德的行为;通晓全体者,不应扰乱那些不知全体的愚钝之人。

6.27.30

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ६.२७.३० ॥

将一切行动托付于我,心念专注于自我,无欲无我执,舍弃忧热,然后战斗吧。

6.27.31

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ६.२७.३१ ॥

凡常奉行我此教导、怀有信心而不嫉妒的人,他们也能从业行中解脱。

6.27.32

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ६.२७.३२ ॥

至于那些非议此教、不奉行我之教导的人,你应知他们在一切智慧上迷惑、毁灭、无心。

6.27.33

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ६.२७.३३ ॥

即使有智慧的人,也依其自性而行;众生都趋向其自性,压制又能做什么呢?

6.27.34

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ६.२७.३४ ॥

每一根在其对象上都固定着爱与憎;人不应落入这两者的掌控,因为它们是他的敌人。

6.27.35

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ६.२७.३५ ॥

自己的法,即使有所不足,也胜过他人之法的善行;死于自己的法中更好;他人之法令人恐惧。

6.27.36

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ६.२७.३६ ॥

那么,瓦尔什尼之后啊,这人究竟被什么驱使而作恶,仿佛被强力所迫,虽然并不愿意呢?

6.27.37

काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ६.२७.३७ ॥

此即欲望,此即愤怒,生于激情之德。它贪欲极大,罪孽极深;当知此为此间之敌。

6.27.38

धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ६.२७.३८ ॥

如火为烟所覆,镜为垢所蔽,胎为膜所包,此亦如是为彼所覆。

6.27.39

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ६.२७.३९ ॥

贡蒂之子啊!智者之知被此永恒之敌所蔽,它以欲望之形出现,如同难以填满的火焰。

6.27.40

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्त्य देहिनम् ॥ ६.२७.४० ॥

诸根、意与觉,被称为其所居之处。它借此遮蔽智慧,迷惑有身之人。

6.27.41

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ६.२७.४१ ॥

故此,婆罗多之雄牛啊!先制伏诸根,然后诛杀此罪恶者,他是毁灭知识与明辨之物。

6.27.42

इन्द्रियामि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ६.२७.४२ ॥

诸根被称为高于物;高于诸根者为意,高于意者为觉;而超越觉者,即彼也。

6.27.43

एवं बुद्धेः परं बुद्धाः संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ६.२७.४३ ॥

如此,知道超越智慧者,以自我稳住自我,啊大臂者,杀死那形如欲望、难以克服的敌人。