摩诃婆罗多 · 章 6.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.29.1
संन्यासं कर्मणां कृष्ण कपुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ६.२९.१ ॥
克里希那啊,你既赞美舍弃行动,又赞美行动之道。请确切告诉我,这二者之中哪一个更为殊胜。
6.29.2
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ ६.२९.२ ॥
舍弃与行动之瑜伽二者皆导向至高的福祉;然而在二者之中,行动之瑜伽胜过舍弃行动。
6.29.3
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ६.२९.३ ॥
应当知道,不憎恨、不渴望者,便是恒常的舍弃者。大臂者啊,超越二元对立的人便能轻易脱离束缚。
6.29.4
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ६.२९.४ ॥
愚者而非智者,才说数论与瑜伽是分离的。即使只是善加奉行其中之一,也能获得二者的果报。
6.29.5
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ६.२९.५ ॥
数论者所达到的境界,行动之瑜伽者也同样能够到达。能将数论与瑜伽视为一体的人,才是真正的见者。
6.29.6
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६.२९.६ ॥
然而,大臂者啊,没有瑜伽的舍弃只会带来痛苦。与瑜伽相应的牟尼,不久便能证得梵。
6.29.7
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ६.२९.७ ॥
与瑜伽相应、自性清净、已调伏自我与诸根、视一切众生之自性为己之自性的人,即使行动,也不被染污。
6.29.8
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्रन्गच्छन्स्वपन्श्वसन् ॥ ६.२९.८ ॥
"我实不做任何事"——与瑜伽相应、知晓真理的人如此思惟,即使在看、听、触、嗅、食、行、眠、息之时。
6.29.9
प्रलपन्विसृजन्गृह्णन्नृन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ६.२९.९ ॥
即使在言语、舍弃、执取、开眼或闭眼之时,也常持此念:"诸根只是安住于其所对之境。"
6.29.10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ६.२९.१० ॥
若将诸业安置于梵,舍离执着而行事,则不为罪所染,如莲花叶不为水所濡。
6.29.11
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ६.२९.११ ॥
瑜伽士以身、心、慧,乃至仅以诸根行业,舍离执着,为求自性清净。
6.29.12
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ६.२९.१२ ॥
与瑜伽相应者舍弃业果,得至究竟寂静;不相应者以欲望驱使,执着于果,遂被束缚。
6.29.13
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ६.२९.१३ ॥
自制者以心舍弃一切行动,安然而住;居于九门之城(身体)中的有身者,既不行动,也不使人行动。
6.29.14
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ ६.२९.१४ ॥
主不为世界创造作者身份、行为,也不创造与行为果报的联系;唯有自性在运行。
6.29.15
नादत्ते कस्य चित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ६.२९.१५ ॥
遍在者不承受任何人的恶业或善业;知识为无明所覆,因此众生迷惑。
6.29.16
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ६.२९.१६ ॥
然而,对于那些以知识消除了自我无明的人,那最高的知识如太阳般照耀。
6.29.17
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ६.२९.१७ ॥
意识专注于彼、以彼为自我、安住于彼并以彼为归宿者,以知识洗去污垢,便往生不再返回之境。
6.29.18
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ६.२९.१८ ॥
智者于具足学问与谦逊的婆罗门、牛、象、狗,乃至狗肉者,皆以平等之眼视之。
6.29.19
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ ६.२९.१९ ॥
心安于平等者,于此世即已胜过创造;梵是无过且平等的,因此他们安住于梵中。
6.29.20
न प्रहृष्येत्प्रियं व्याप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ ६.२९.२० ॥
得到喜爱之物不欢喜,遇到不喜之物不烦恼;智慧坚定、不迷惑、知梵、安住于梵者,便是此人。
6.29.21
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्रुते ॥ ६.२९.२१ ॥
内心不执着于外在触境的人,在自身中得到那样的快乐;心与梵之瑜伽相合的他,享受不坏的快乐。
6.29.22
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ६.२९.२२ ॥
由接触而生的享受,实为苦之根源;它们有始有终,贡蒂之子啊,智者不在其中欢乐。
6.29.23
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ६.२९.२३ ॥
在脱离身体之前,若能在此世忍受由欲望与愤怒所生的冲动,这人便是自制而快乐的。
6.29.24
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ६.२९.२४ ॥
内心自有喜乐、内心自享欢欣、内心自有光明的瑜伽行者,成为梵,便证得梵涅槃。
6.29.25
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ६.२९.२५ ॥
诸仙人罪垢已尽,二元已断,克制自身,乐于一切众生之利益,便获得梵涅槃。
6.29.26
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ६.२९.२६ ॥
对于离欲离瞋、心已调伏、了知自我的苦行者,梵涅槃遍在四方。
6.29.27
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ६.२९.२७ ॥
外在的触境置于外,目光安住于双眉之间,使在鼻内运行的上气与下气平等。
6.29.28
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः । ॥ ६.२९.२८ ॥
诸根、心、觉皆已调伏,以解脱为归,离欲、离惧、离瞋的牟尼,他始终是解脱者。
6.29.29
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ६.२९.२९ ॥
知我为诸祭祀与苦行的受享者,为一切世界的大自在主,为一切众生的好友,他便得到寂静。