Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.37.1

प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ ६.३७.१ ॥

哦,给须婆(Keśava),我想知道自性与神我、田与田知者,以及知识与所知。

6.37.2

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ ६.३७.२ ॥

孔铁耶啊,此身名为田;知此者,知者称之为田知者。

6.37.3

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ६.३७.३ ॥

婆罗多的后裔啊,你也应知道我是一切田中的田知者。田与田知者的知识,在我看来才是真知。

6.37.4

तत्क्षेत्रं यच्च यादृक् यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु ॥ ६.३७.४ ॥

你且从我这里简要地听:那田是什么,它是怎样的,有哪些变化,从何而生何物,田知者是谁,他的力量如何。

6.37.5

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ६.३७.५ ॥

诸仙人以多种方式歌咏此义,各用不同的韵律,也以有理据而确定的《梵经》句子咏唱。

6.37.6

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ६.३७.६ ॥

大元素、我慢、觉、未显现者;十根以及一(意);五境。

6.37.7

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६.३७.७ ॥

欲望、憎恶、快乐、痛苦、身体的聚合、觉知与坚定——简言之,此即场域及其变化,已如是宣说。

6.37.8

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ६.३७.८ ॥

不傲慢、不虚伪、不伤害、忍耐、正直、侍奉老师、清净、坚定与自我克制。

6.37.9

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ६.३७.९ ॥

对感官对象无贪着,无我慢,并观照生、死、老、病的苦患与过失。

6.37.10

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ६.३७.१० ॥

对子女、妻室、家宅等不执着、不眷恋,并在得与不得顺逆之时常保心平等。

6.37.11

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ ६.३७.११ ॥

以不二之瑜伽,对我怀有坚定不移的虔信;常居幽静之处,厌离人群聚集。

6.37.12

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ६.३७.१२ ॥

常住于内在自我之知,洞见真理之知的目标——此称为知;与此相反者即是无明。

6.37.13

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्रुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ ६.३७.१३ ॥

我将宣说应当知晓之物,知之者便得不死:那无始的至高梵,既不被称为有,也不被称为无。

6.37.14

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ६.३७.१४ ॥

其手足遍于一切处,其眼、首、面亦遍于一切处;于世间,其耳遍于一切处;涵盖一切而住立。

6.37.15

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ ६.३७.१५ ॥

它是一切诸根功德的显现,却离于一切诸根;无所执著而又是一切的持载者;无德性而又是德性的受用者。

6.37.16

बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ ६.३७.१६ ॥

于众生之外与之内,它既是不动者也是动者;因其微妙,它不可知;它既在远处,也在近处。

6.37.17

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ६.३७.१७ ॥

于众生之中它不可分割,却仿佛分而住立;它是众生的持护者,应当知晓的,既吞噬也生起。

6.37.18

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ ६.३७.१८ ॥

它被称为诸光之光,超越黑暗;它是智慧、所知之物、可由智慧而得,安住于一切众生的心中。

6.37.19

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ ६.३७.१९ ॥

如此,简要地宣说了田、知识与所知。我的奉爱者领悟此义后,便达到我的存在之境。

6.37.20

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ ६.३७.२० ॥

应知自性(prakṛti)与神我(puruṣa)二者皆无始。又应知诸变异与诸德皆生于自性。

6.37.21

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ ६.३७.२१ ॥

自性被说为产生果、因与作者的原因;神我被说为体验乐与苦的原因。

6.37.22

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ ६.३७.२२ ॥

神我安住于自性之中,受用由自性所生的诸德;对诸德的执著,乃是他在善、恶胎藏中出生的原因。

6.37.23

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ ६.३७.२३ ॥

居于此身之中的至上神我,又被称为见证者、允许者、护持者、受用者、大自在者与至上我(paramātman)。

6.37.24

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ ६.३७.२४ ॥

若有人如此了知神我与自性及其诸德,即便在一切境遇中生活,他也不再重生。

6.37.25

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ ६.३७.२५ ॥

有人以冥想,以自我而在自我之中观见自我;有人以数论瑜伽,有人以业瑜伽。

6.37.26

अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ ६.३७.२६ ॥

其他人不如此了知,闻于他人而行崇拜;他们也因专注于圣典(闻),确实超越了死亡。

6.37.27

यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ ६.३७.२७ ॥

凡有任何生起的生物,不论不动或能动,当知其由田与田知者的结合而生,婆罗多之牛中之最胜者啊。

6.37.28

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ६.३७.२८ ॥

若有人见最高主宰平等地安住于一切众生之中,见不灭者于灭亡者之中,此人才是真正的见者。

6.37.29

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिं ॥ ६.३७.२९ ॥

若见主宰平等地无处不在,他不会以自我伤害自我;于是他抵达最高之归宿。

6.37.30

प्रत्यत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ ६.३७.३० ॥

若见一切所作之业皆由自然(prakṛti)而成,并见自我为非作者,此人才是真正的见者。

6.37.31

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ ६.३७.३१ ॥

当人见众生的殊异之相皆住于一者,则由此扩展,便成为梵。

6.37.32

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ६.३७.३२ ॥

俱吒之子啊,因其无始且无德性,此不灭的至上我虽住于身中,却不作业,也不染着。

6.37.33

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ६.३७.३३ ॥

如同遍于一切的虚空因其微妙而不被染污,住于身中各处的自我也不被染污。

6.37.34

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ६.३७.३४ ॥

如同唯一的太阳照亮这整个世界,婆罗多啊,知田者也照亮整个田。

6.37.35

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ६.३७.३५ ॥

以智慧之眼知晓田与知田者之间的区别,以及从众生本性解脱的人,便抵达至高之境。