Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.38.1

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ ६.३८.१ ॥

我将再次宣说至上的知识,是诸知识中最殊胜者;诸仙人因知此法,皆从此处达到了最高的成就。

6.38.2

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ ६.३८.२ ॥

依靠此知识,他们获得了与我相同的本性;在创造时也不再生起,在毁灭时也不再受苦。

6.38.3

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ॥ ६.३८.३ ॥

大梵是我的胎藏;我在其中置入胎种。婆罗多啊,由此便产生了一切众生。

6.38.4

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्तिः याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ६.३८.४ ॥

贡蒂之子啊,凡在一切胎藏中生起的形体,其大胎藏即是梵,而我是授予种子的父亲。

6.38.5

सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ६.३८.५ ॥

悦性、激性、暗性——这些由自然所生的德性,在身体中束缚着不灭的有身者,大臂者啊。

6.38.6

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६.३८.६ ॥

其中,悦性因清净而光明、无病;无罪者啊,它以对快乐的执着和对知识的执着而束缚。

6.38.7

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ६.३८.७ ॥

当知激情(罗阇)以贪爱为本性,由渴望与执著而生。拘蒂之子啊,它以对行动的执著束缚有身者。

6.38.8

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ६.३८.८ ॥

当知昏暗(答摩)生于无明,迷惑一切有身者。婆罗多啊,它以放逸、懒惰与睡眠束缚。

6.38.9

सत्वं सुखे संजयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥ ६.३८.९ ॥

薄伽梵说:善性使人执著于快乐,激情使人执著于行动,婆罗多啊;而昏暗遮蔽智慧,使人执著于放逸。

6.38.10

रजस्तमश्चाभिभूय सत्वं भवति भारत ।
रजः सत्वं तमश्चैव तमः सत्वं रजस्तथा ॥ ६.३८.१० ॥

婆罗多啊,压倒激情与昏暗,善性便占据主导;激情压倒善性与昏暗,昏暗压倒善性与激情。

6.38.11

सर्वद्वारेषु देहेऽस्मिन्प्राकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्वमित्युत ॥ ६.३८.११ ॥

当此身所有门户中都生起光明与智慧时,应当知道善性已经增长。

6.38.12

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ ६.३८.१२ ॥

贪婪、躁动的活动、发起种种行动、不安与渴望——当激情增长时,这些便会生起,婆罗多族的雄牛啊。

6.38.13

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ ६.३८.१३ ॥

当暗性(tamas)增长时,昏暗、懈怠、放逸与迷惑也随之而生,哦,俱卢之喜。

6.38.14

यदा सत्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ ६.३८.१४ ॥

当悉多(sattva)增长,有身众生趋于消亡时,便得以到达那些通晓至上者的清净世界。

6.38.15

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ ६.३८.१५ ॥

在罗阇中灭尽者,生于执著业行之中;同样,在暗性中隐没者,生于愚迷之胎。

6.38.16

कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ ६.३८.१६ ॥

人们说,善业之果是清净的悉多性;罗阇之果是苦,暗性之果是无知。

6.38.17

सत्वात्संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ६.३८.१७ ॥

由悉多生起知识,由罗阇生起贪欲;由暗性生起放逸与迷惑,也生起无知。

6.38.18

ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तस्था अघो गच्छन्ति तामसाः ॥ ६.३८.१८ ॥

安住于悉多者向上而行,罗阇者停留于中间,而安住于低劣德行之暗性者向下堕落。

6.38.19

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ ६.३८.१९ ॥

当见者不见有独立于诸德(guṇa)之外的作者,并知晓高于诸德者,他便得至我的存在状态。

6.38.20

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्रुते ॥ ६.३८.२० ॥

超越这三种由身体所生的诸德,有身者摆脱生、死、老之苦,获得不死。

6.38.21

कैर्लिङ्गैस्त्रीन्गुणानेतानीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ ६.३८.२१ ॥

主啊,人以何种标志被认出已超越这三种诸德?他的行为如何?他又如何超越这三种诸德?

6.38.22

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ ६.३८.२२ ॥

般度之子啊,光明、活动与迷惑生起时,他不憎恶;它们止息时,他也不渴求。

6.38.23

उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ ६.३८.२३ ॥

坐如超然者,不为诸德所动,知晓“唯诸德在运作”而安住,不动摇的人。

6.38.24

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ ६.३८.२४ ॥

苦乐等同,安住于自我,视土块、石头与金子为一,对可爱与不可爱一视同仁,坚定,对毁谤与赞誉等同。

6.38.25

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ ६.३८.२५ ॥

荣辱平等、待友与敌一样、舍弃一切事业的人,据说已超越三德。

6.38.26

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्म भूयाय कल्पते ॥ ६.३८.२६ ॥

若有人以不动摇的虔信瑜伽侍奉我,他便完全超越这些三德,堪能成就梵的境界。

6.38.27

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ ६.३८.२७ ॥

因为我是梵、不死与不灭者的根基,也是永恒法与究竟喜乐的根基。