摩诃婆罗多 · 章 6.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.39.1
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ६.३९.१ ॥
人们称那不朽的菩提树(阿什瓦特ha)根在上、枝在下,吠陀便是它的叶子。知晓它的人,便是通晓吠陀者。
6.39.2
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा ।
गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसंततानि ।
कर्मानुबन्धीनि मनुष्यलोके ॥ ६.३९.२ ॥
它的枝条向下向上伸展,由三德滋养,以感官对象为嫩芽。它的根也向下延伸,在人间以业将人束缚。
6.39.3
न रूपमस्येह तथोपलभ्यते ।
नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूल-
मसङ्गशस्त्रेण दृढेन छित्वा ॥ ६.३९.३ ॥
在此,它的形态并不如此可见;它没有终端,没有起始,也没有根基。以坚固的无执之刀砍断这棵根深蒂固的菩提树之后——
6.39.4
ततः पदं तत्परिमार्गितव्यं ।
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
यतः प्रवृत्तिः प्रसृता पुराणी ॥ ६.३९.४ ॥
随后应当寻求那个境界——到达之后便不再返回。我皈依那位原初的补鲁沙,古老的流转由他而展开。
6.39.5
निर्मानमोहा जितसङ्गदोषा ।
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वद्वैर्विमुक्ताः सुखदुःखसंज्ञै-
र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ ६.३९.५ ॥
摆脱了我慢与迷妄,战胜了执着的过失,恒常安住于自我之知,欲望已息,超脱了名为苦乐的对立之偶——不迷惑的人便抵达那不朽之境。
6.39.6
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६.३९.६ ॥
日、月与火都不能照亮那处所;到达那里的人不再返回。那便是我的至高居所。
6.39.7
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ६.३९.७ ॥
那位在生灵世界中成为生命的永恒者,确是我的一部分;它吸引着安住于自然中的六根,以意为第六。
6.39.8
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ६.३९.८ ॥
主宰者从其所得之身与所离之身中取走这些,然后离去,如同风从其所在处带走香气。
6.39.9
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ६.३९.९ ॥
以听、视、触、味、嗅五根及意为依托,此人享受诸境。
6.39.10
उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ ६.३९.१० ॥
无论他离去、停留,还是与诸德相应地受用,愚昧者都看不见他;拥有智慧之眼者才能看见。
6.39.11
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ६.३९.११ ॥
努力的瑜伽行者在自我之中看见安住的他;而未净化自我者,即便努力,因无心识也不能见他。
6.39.12
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मार्मकम् ॥ ६.३९.१२ ॥
那居于太阳、照亮整个世界的光辉,以及月亮和火中的光辉,应知那光辉属于我。
6.39.13
गामाविश्य च भूतानि धारयम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ ६.३९.१३ ॥
我进入大地,以我的生命力承载一切众生;我化为月神苏摩,具有汁液的本性,滋养一切草药。
6.39.14
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ ६.३९.१४ ॥
我化为吠舍婆罗奴火,居于众生之身,与上气和下气相合,消化四种食物。
6.39.15
सर्वस्य चाहं हृदि सन्निविष्टो ।
मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो ।
वेदान्तकृद्वेदविदेव चाहम् ॥ ६.३९.१५ ॥
我安住于一切众生的心中;记忆、知识与辨别皆从我而来。一切吠陀所应认知的唯有我;我是吠檀多的作者,也是吠陀的真正知者。
6.39.16
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ ६.३९.१६ ॥
世间有两种人:可灭的与不灭的。一切众生是可灭的;安住于顶峰、不动不变者,名为不灭。
6.39.17
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ ६.३९.१७ ॥
然而至上的补鲁沙是另一位,被称为至上我:那不灭的主宰,进入三界而承载它们。
6.39.18
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रस्थितः पुरुषोत्तमः ॥ ६.३९.१८ ॥
因为我超越可灭者,甚至高于不灭者,所以我在世间和吠陀中被称为至上人(Puruṣottama)。
6.39.19
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ ६.३९.१९ ॥
若有人不迷惑,如此知我为至上人,他便是一切通晓者,并以全部身心敬奉我,婆罗多之子啊。
6.39.20
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एवद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ ६.३९.२० ॥
无罪者啊,我如此宣说了这部最为秘密的教义。婆罗多之子啊,智者领会此理后,便成为功德圆满之人。